________________
म्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे तद्वच्छशविषाणादिभिरपि सम्बध्येतेति शशविषाणादीनामपि सत्करत्वप्रसङ्गस्तदवस्थः।न, शशविषाणादिवदत्यन्तनिरात्मकत्वानभ्युपगमात् कार्यद्रव्यगुणकर्मणाम्।
ननु 'असत्' इत्यत्र नत्र उत्तरपदाभिधेयनिवारणार्थत्वात् सत्प्रतिषेधार्थत्वात् कथमस्य सात्मकत्वम् ? न, अनेकान्तात्, अपुत्रब्राह्मणवदगुणगुणवत् । यथा नास्य पुत्रोऽस्तीत्यपुत्रो ब्राह्मणः नास्य गुणोऽस्तीत्यगुणो गुणः तथेहापि नास्य सदित्यसत्। न च तदपि निरात्मकं शशविषाणवत्, सत्तासम्बन्धादृतेऽपि यथा परपक्षे प्रधानादीनां सात्मकत्वं तेथेहापि स्यात् ।।
त्वत्पक्षे दृष्टान्ताभाव इति चेत्, सामान्यादिवद्वा,......"सामान्यादिवदेव
सामर्थ्यात् तस्या आधारीभवति सद्व्यादीति । एतदपि नोपपद्यते, यस्मात् तद्वच्छशविषाणादिभि10 रित्यादि गतार्थम् । एवं व्युत्पाद्य पूर्वपक्षं प्रशस्तमतिराहात्राप्युत्तरम् - शशविषाणादिवदत्यन्तनिरात्मकत्वानभ्युपगमात् । केषाम् ? कार्यद्रव्यगुणकर्मणाम् । द्विविधो हि भाव उक्तः स्वभावसद्भावः सम्बन्धसद्भावश्च इतरेतरासतां सात्मकानामेव संविशेषणासत्त्वादनन्यचन्द्रादिवदित्यादि पूर्वम् ।
तस्माच्छशविषाणादीनामेवात्यन्तासतामसत्त्वम् , न प्राक्पश्चादितरेतराद्यसतामनात्मकत्वम् । अतो द्रव्यादि १२०-१ सत्, तत्तु स्वकारणेषु समवेतं वस्त्वेव, सत्तासम्बन्धरहितमपि सात्मकमेव, न खरविषाणादिवद् निरात्मकम् । 15 तस्माद् युक्तः सत्तासम्बन्धो द्रव्यादीनाम् , न खपुष्पादीनामिति ।।
___ अत्राह - नन्वसदित्यादि यावत् कथमस्य सौत्मकत्व]मिति द्रव्यादेर्निरात्मकत्वापादनार्थो प्रन्थो गतार्थः उत्तरपदाभिधेयनिवारकत्वात् सत्प्रतिषेधार्थः, सत्प्रतिषेधार्थत्वादनात्मकमिति । अत्रोत्तरम् - न, अनेकान्तादित्यादि यावत् तथेहापि नास्य सदित्यसदिति लौकिकशास्त्रीयदृष्टान्तद्वयेन व्यभिचारप्रदर्शनार्थो बहुव्रीहिसमासाश्रयेण अपुत्रब्राह्मणवदगुणगुणवदिति च गतार्थो ग्रन्थः । एवमनात्मकत्वे[5]स्थिते 20 तस्या व्यभिचार उच्यते-न च तदपि निरात्मकमित्यादि, वैधर्येण शशविषाणवदिति । सत्तासम्बन्धरहितत्वाद् निरात्मकं खरविषाणवदित्येतत् सायबौद्धकल्पितप्रधानपुरुषपश्चस्कन्धवत् स्यात् । अथवा सत्तासम्बन्धात् सात्मकमित्येवमुच्यमाने प्रधानादिवत् सत्तासम्बन्धादृतेऽपि सात्मकत्वदर्शनादित्यव्यापिता तथेहापि स्यादिति ।
त्वत्पक्षे दृष्टान्ताभाव इति 'चेदित्यादि पूर्वपक्षीकृय तदुत्तरम् - सामान्यादिवद्वेत्यारभ्य यावत् 28 सामान्यादिवदेव सात्मकंन घटादिवत् सात्मकमिति वाशब्दावधारणार्थत्वव्याख्यानसहितो प्रन्थः वैशेषिकपक्षे सत्तासम्बन्धरहितसात्मकदृष्टान्ताभावे चोदिते सामान्यविशेषसमवायानां सात्मकत्ववत् स्यादिति
१दृश्यतां पृ० ३३३-१॥ २ तस्याधारीभवति प्र०॥ ३ दृश्यतां पृ. ४४१ पं० ५॥ ४ दृश्यतां पृ. ४३४ पं० २॥ ५सात्मकमिति प्र०॥ ६ नार्थाग्रन्थो प्र० ॥ ७'असत' इत्यत्र नम निवारकत्वादित्याशयः । दृश्यतां पृ. ३२४-२॥ ८लौकशास्त्री प्र०॥ ९ अत्र 'एवमननात्मकत्वे स्थिते' इत्यपि पाठः स्यात् ॥ १० अत्र तस्या इत्यस्य 'सत्तायाः' इत्यर्थः स्यात् । अत्र अवारस्ये तु तस्य इति पाठः कल्पनीयः॥ ११ माने व (च)प्रधा डे० वि०। माने थ प्रधा २० पा०॥ १२चेत्यादि प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org