________________
प्रस्तावना सिद्धर्षि तथा हेमचन्द्राचार्यना मते प्रमाणवाक्यमां ज ' स्यात् ' पदनो प्रयोग होई शके, धर्मान्तरनिराकरणार्थक एवकार अने स्यात् पद विनानुं जे वाक्य छे ते नय छे, जेमां स्यात् पदनो प्रयोग न होय च्छेदप्रसङ्गात् , तदलीकत्वे ततः प्रवृत्त्य सिद्धेरिति । अत्रोच्यते--इह तावद् द्वये प्रतिपादकाः-लौकिकास्तत्त्वचिन्तकाश्च । तत्र प्रत्यक्षादिप्रसिद्धमर्थमर्थित्ववशाल्लौकिकास्तावद् मध्यस्थभावेन व्यवहारकाले व्यपदिशन्ति ।...न च तद्वचनानामलीकता, शेषधर्मान्तरप्रतिक्षेपाभावात् , तत्प्रतिक्षेपकारिणामेवालीकत्वात् । 'सर्व वचनं सावधारणम्' इति न्यायात् तेषामपि शेषधर्मतिरस्कारित्वसिद्धेभवन्नील्यालीकत्वमा पद्यत इति चेत् , अवधारणस्य तदसम्भवमात्रव्यवच्छेदे व्यापारात्।... (पृ. ९१.)... न व समस्तधर्मयुक्तमेव वस्तु प्रतिपादयद् वचनं सत्यमित्यभिदध्महे येनैकधर्मालिङ्गितवस्तुसन्दर्शकानामलीकता स्यात् , किं तर्हि ? सम्भवदर्थप्रतिप्रतिपादकं सत्यमिति । सम्भवन्ति च शेषधर्माप्रतिक्षेपे वचनगोचरापन्ना धर्माः, तस्मात् तत्प्रतिपादकं सत्यमेव । यदा तु दुर्नयाभिनिविष्टबुद्धिभिस्तीर्थान्तरीयैस्तद्धर्मिगतधर्मान्तरनिराकरणाभिप्रायेणैव सावधारणं तत् प्रयुज्यते यथा. नित्यमेव वस्तु अनित्यमेव वा इत्यादि तदा निरालम्बनत्वादलीकतां प्राप्नुवत् केन वार्यत? तत्त्वचिन्तकाः पुनः प्रत्यक्षादिप्रमाणसिद्धमनेकान्तात्मकं वस्तु दर्शयन्तो द्वधा दर्शयेयुः तद्यथा-विकलादेशेन सक्लादेशेन वा । तत्र विकलादेशो नयाधीनः, सकलादेशः प्रमाणायत्तः । तथाहि-यदा मध्यस्थभावेनार्थित्ववशात् किंचिद्धर्म प्रतिपिपादयिषवः शेषधर्मस्वीकरणनिराकरणविमुखया धिया वाचं प्रयुञ्जते तदा तत्त्वचिन्तका अपि लौकिकवत् सम्मुग्धाकारतयाचक्षते यदुत 'जीवोऽस्ति कर्ता प्रमाता भोक्ता' इत्यादि। अतः सम्पूर्णवस्तुप्रतिपादनाभावाद् विकलादेशोऽभिधीयते, नयमतेन सम्भवद्धर्माणां दर्शनमात्रमित्यर्थः । यदा तु प्रमाणव्यापार मविकलं परामृश्य प्रतिपादयितुमभिप्रयन्ति तदाङ्गीकृतगुणप्रधानभावा अशेषधर्मसूचककथञ्चित्पर्यायस्याच्छब्दभूषितया सावाधारणया वाचा दर्शयन्ति 'स्यादस्त्येव जीवः' इत्यादिकया, अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्द क्रियाभ्यां प्रधानीकृतात्मभावस्य अवधारणव्यवच्छिन्नतदसंभवस्य वस्तुनः सन्दर्शकत्वात् सकलादेश इत्युच्यते प्रमाणपतिपन्नसम्पूर्णार्थकथनमिति यावत् । तदुक्तम्-सा ज्ञेयविशेषगतिर्नयप्रमाणात्मिका भवेत् तत्र । सकलग्राहि तु मानं विकलग्राही नयो ज्ञेयः ॥” न्यायावतारटीका पृ० ९२॥
१ "सदेव, सत्, स्यात् सदिति विधार्थो. मीयेत दुर्नीति-नय-प्रमाणैः ।...॥ २८॥"-अन्ययोगव्यवच्छेदद्वात्रिंशिका । अस्या मल्लिषेणसूरिप्रणीता स्याद्वादमञ्जरी नाम व्याख्या-"अर्थ्यते परिच्छिद्यत इत्यर्थः पदार्थः त्रिधा त्रिभिः प्रकारैः मीयेत परिच्छिद्येत... · दुनीति-नय-प्रमाणैः । नीयते परिच्छिद्यते एकदेशविशिष्टोऽर्थ आभिरिति नीतयो नयाः । दुष्टा नीतयो दुर्नीतयः दुर्नया इत्यर्थः । नया नैगमाद्याः। प्रमीयते परिच्छिद्यतेऽर्थोऽनेकान्तविशिष्टोऽनेनेति प्रमाणं स्याद्वादात्मकं प्रत्यक्ष-परोक्षलक्षणम् । दुनीतयश्च नयाश्च प्रमाणे च दुर्नीति-नय-प्रमाणानि, तैः । केनोलेखेन मीयेतेत्याहसदेव, सत् , स्यात् सदिति ।...सदेवेति दुर्नयः । सदिति नयः । स्यात् सदिति प्रमाणम् । तथाहि-दुर्नयस्तावत् ‘सदेव' इति
।। 'अस्त्येव घटः' इति अयं वस्तुन्येकान्तास्तित्वमेवाभ्युपगच्छन्नितरधर्माणां तिरस्कारेण स्वाभिप्रतमेव धर्म व्यवस्थापयति । दुर्नयत्वं चास्य मिथ्यारूपत्वात् । मिथ्यारूपत्वं च तत्र धर्मान्तराणां सतामपि नित्वात् । तथा 'सत्' इत्युल्लेखवान् नयः । स हि 'अस्ति घटः' इति घटे स्वाभिमतेमस्तित्वधर्म प्रसाधयन् शेषधर्मेषु' गजनिमीलिकामालम्बते । न चास्य दुर्नयत्वम् , धर्मान्तरातिरस्कारात् । न च प्रमाणत्वम् , स्याच्छब्देनालाञ्छितत्वात् । ‘स्यात्' सत् इति स्यात् कथञ्चित् सद्वस्तु इति प्रमाणम् । प्रमाणत्वं चास्य दृष्टेष्टाबाधितत्वाद् विपक्षे बाधकसद्भावाच्च । अनया दिशा असत्त्व-नित्यत्वा-ऽनित्यत्व-वक्तव्यत्वा-ऽवक्तव्यत्व-सामान्य-विशेषाद्यपि बोद्धव्यम् ।” पृ० १५९-१६० Bombay Sanskrit and Prakrit Series. No. LXXXIII ॥२ उपरनुं ९ मुं टिप्पण जोतां ए पण स्पष्ट जणाय छे के न्यायावतारटीकाकार सिद्धर्षि गणी 'प्रमाणवाक्यथी एक धर्मनुं मुख्यरूपे अने शेष अनन्तधर्मोनुं गौणरूपे प्रतिपादन थाय छे' एम स्वीकारे छ । परन्तु लघीयस्त्रयनी खोपज्ञवृत्तिमां (का० ४८) आवता “तत्प्रतिक्षेपो दुर्नयः । तदपेक्षो मयः, स्वार्थप्राधान्येऽपि तद्गुणत्वात् । तदुभयात्मार्थज्ञानं प्रमाणम् ।" आ पाठ उपर न्यायकुमुदचन्द्रमा (पृ. ६५१) आ प्रमाणे व्याख्या करेली छे-“कुतः स नय इत्यत्राह-स्वार्थत्यादि । स्वो विषयी क्रियमाणो योऽर्थः तस्य प्राधान्येऽपि तहणत्वात् 'अविवक्षितधर्माणाम प्रतिक्षेपेण गुणीभूतत्वात् । यदि एवंविधो नयो भवति प्रमाणं तर्हि कीदृशमित्याह-तदित्यादि । तद् अगुणीभूत विवक्षिताविवक्षितधर्मोभयमात्मा यस्य अर्थस्य तस्य ज्ञानं प्रमाणम ।" आ जोता प्रमाणवाक्यमां सर्वधर्मोनू मुख्यतया प्रतिपादन अने नयवाक्यमां एक धर्मनुं मुख्यतया तथा शेषधर्मोनुं गौणतया प्रतिपादन दिगम्बर ' आचार्योंने अभीष्ट होय एम जणाय छ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org