________________
य० प्रतिपाठपरिशिष्टम् । भगवद्भिः श्रीयशोविजयोपाध्यायैर्नयचक्रवृत्तेरतिदुर्लभं किञ्चित् प्राचीनं पुस्तकमवलम्ब्य [अणहिलपुर] पत्तननगरेऽनेकसाधुसाहाय्येन एकपक्षाभ्यन्तरे एव नयचक्रवृत्तेरादर्शो लिखितः । अस्माभिरस्य य० इति संज्ञा व्यवहारार्थं कृता । एतद्गवेषणार्थ सुमहति प्रयत्ने कृतेऽप्यस्माभिरियं य० प्रतिः नयचक्रमुदणारम्भसमये क्वचिदप्यनुपलब्धा । अतो निम्नलिखिताः प्रतीरवलम्ब्यास्माभिरेतन्मुद्रणमारब्धम् -
पा० डे० ली०वि०० ही भा०। भत्र पा० डे० लीं० वि० ० ही प्रतयः साक्षात् परम्परया वा य० प्रतिमनुसृत्यैव लिखिता इत्यस्माभिस्तत्समूहस्यापि य० इत्येव संज्ञा कृता । भा० प्रतिस्तु य० प्रतितः प्राचीनतरा विधिपक्षगच्छीयाचार्यश्रीधर्ममूर्तिसूरीणा. मुपदेशेन गोविन्दमत्रितनुजेन मुलेन' संवत् १६५० वर्षनिकटसमये लिखिता । तत्र तु य० प्रत्यपेक्षया बहवो विशिष्टाः पाठभेदा उपलभ्यन्ते । अत इत्थमत्र प्रतीयते
.१ "भट्टारकरीहीरविजयसूरीश्वरशिष्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यपण्डितश्रीलाभविजयगणिशिष्यपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिगुरुभ्यो नमः । प्रणिधाय परं रूपं राज्ये श्रीविजयदेवसूरीणाम् । नयचक्रस्यादर्श प्रायो विरलस्य वितनोमि ॥१॥ एँ नमः ॥"-य० पृ० १। - २ "इति श्रीमलवादिक्षमाश्रमणपादकृतनयचक्रस्य तुम्बं समाप्तम् ॥ छ । ग्रन्थाग्रं १८००० ॥
यादृशं पुस्तके दृष्टं तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥१॥ संवत् १७१० वर्षे पोसवदि १३ दिने श्रीपत्तननगरे ॥ पं० श्रीयशविजयेन पुस्तकं लिखितं । शुभं भवतु ॥ उदकानलचौरेभ्यो मूख(=प)केभ्यो विशेषतः । कष्टेन लिखितं शास्त्रं यलेन प्रतिपालयेत् ॥ १॥ भग्नपृष्ठकटिग्रीवा दृष्टिस्तत्र अधोमुखी। कष्टेन लिखितं शास्त्रं यत्नेन प्रतिपालयेत् ॥ २॥ पूर्व पं. यशविजयगणिना श्रीपत्तने वाचितम् ॥ छ ॥ आदर्शोऽयं रचितो राज्ये श्रीविजयदेवसूरीणाम् । सम्भूय यैरमीषामभिधानानि प्रकटयामि ॥ १॥ विबुधाः श्रीनयविजया गुरवो जयसोमपण्डिता गुणिनः । विबुधाश्च लाभविजया गणयोऽपि च कीर्तिरत्नाख्याः ॥२॥ तत्त्वविजयमुनयोऽपि प्रयासमत्र स्म कुर्वते लिखने । सह रविविजयैर्विबुधैरलिखच यशोविजयविबुधः ॥३॥ ग्रन्थप्रयासमेनं दृष्ट्वा तुष्यन्ति सजना बाठम् । गुणमत्सरव्यवहिता दुर्जनदृक् वीक्षते नैनम् ॥ ४ ॥ तेभ्यो नमस्तदीयान् स्तुवे गुणांस्तेषु मे दृढा भक्तिः । अनवरतं चेष्टन्ते जिनवचनोद्भासनाथ ये ॥५॥श्रेयोऽस्तु ॥
सुमहानप्ययमुच्चैः पक्षेणैकेन पूरितो ग्रन्थः । कर्णामृतं पटुधियां जयति चरित्रं पवित्रमिदम् ॥ ६ ॥ श्रीः ॥”-य. पृ. ३०९ ।
. ३ पा० = 'पाटण, तपागच्छजैनज्ञानभंडार'सत्का प्रतिः । डे० = 'डेलानो उपाश्रय, अमदावाद'सत्का प्रतिः । संवत् १७२९ वर्षे कार्तिकवदि ७ दिने शुक्रवासरे लिखितेयं प्रतिः। ली०='लींबडी जैनग्रन्थसंग्रह'सत्का प्रतिः। वि० = 'विजयानन्दसूरिज्ञानमन्दिर, जीरा'सत्का प्रतिः। संवत् १७५३ वर्षे पौषमासे कृष्णपक्षे ३ तिथौ शरषे (= खे) जग्रामे लिखितेयं प्रतिः।रं०= 'रंगविमलजीगणिजैनग्रन्थभंडार, विजापुर'सत्का प्रतिः । संवत् १७२४ वर्षे फाल्गुने कृष्णपक्षे १ तिथौ भौमवासरे लिखितेयं प्रतिः । ही० = 'हीराचन्द्रजीयति, श्रीसुपार्श्वनाथजैनमन्दिर, काशी'सत्का प्रतिः । इमाश्च सर्वाः प्रतयः श्रीयशोविजयोपाध्यायलिखितप्रत्यनुसारिण्यः । भा० = 'भावनगर, डोसाभाई अभेचंदनी पेढी'सत्का यप्रतेरपि प्राचीना प्रतिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org