________________
य० प्रतिपाठपरिशिष्टम् ।
१४३
भा० य० प्रत्योः परम्परया आधारभूता काचित् प्रतिः
भा०=भावनगरस्था प्रतिः
य०=श्रीयशोविजयोपाध्यायैर्लिखिता प्रतिः
केषाञ्चिदशुद्धपाठानामुभयत्र सर्वथा समानरूपेणोपलम्भाद् भाव्य प्रत्योः परम्परयाधारभूता काचिदेकैव
एते चोभयत्र समाना अशुद्धपाठा अस्माभिः '०' सङ्केतेन टिप्पणेषु दर्शिताः । पा० डे.ली. वि० रं० ही प्रतयस्तु साक्षात् परम्परया वा य० प्रतिमवलम्ब्यैव लिखिताः, तत्र यशोविजयोपाध्यानां नामोल्लेखादिदर्शनात् । इत्थं पा० डे०लीं०वि००ही०प्रतीनां य०प्रत्यनुसारित्वात् प्राय एकरूप एव पाठस्तासूपलभ्यते । यस्तु कश्चित् स्वल्पीयान् पाठभेदस्तासु दृश्यते स लेखकहस्तेन सञ्जातः । अतो नयचक्रवृत्तेः सप्तारमुद्रणपर्यन्तं यः पाठभेदः पा. डे० ली० वि० 5 रं० ही० प्रतिषु सर्वत्रैकरूप उपलब्धः सोऽस्माभिः 'य.' इति सङ्केतेन टिप्पणेषु दर्शितः। यत्र तु तासु परस्परं भेदः स 'पा' 'डे.' 'ली' इत्यादिसङ्केतैष्टिप्पणेषु दर्शितः । मूल य०'प्रतौ तत्र कीदृशः पाठोऽस्ति इति तु तदानीं निर्णेतुमशक्यमासीत् । इदानीं तु सप्तारमुद्रणानन्तरमसद्भाग्येन मूल य०'प्रतिरपि लब्धा । अतः सप्तार[पृ० १-५५२] मुद्रणपर्यन्तं य०शब्देन पा०डे०ली०वि०र०ही०प्रतीनां समूहोऽवगन्तव्यः । अतः परं तु य०शब्देन श्रीयशोविजयोपाध्यायैर्लिखिता मूल य०'प्रतिरेवावगन्तव्या । एवं च पा० डे० ली. इत्यादिसङ्केतैर्यत्र पाठभेदा नयचक्रवृत्तावधस्तात् 10 टिप्पणेष्वस्माभिदर्शितास्तत्र मूल यः'प्रतौ यादृशः पाठो विद्यते तं दर्शयितुमिदं य प्रतिपाठपरिशिष्टमारभ्यते । यस्मिन पृष्ठे यस्मिंष्टिप्पणे 'पा० डे' आदि सङ्केतेनास्माभिः पाठभेदो दर्शितस्तत्र मूल य०'प्रतौ यादृशः पाठो वर्तते सोऽत्रोपदश्यते
१पा० डे० वि०२०-इमाश्चतस्रः प्रतयः साक्षात् परम्परया वा यप्रतिमनुसृत्य लिखिताः। २लींप्रतिः डे०प्रतिमनुसृत्य लिखिता भाति । लींप्रतेरुपयोगोऽस्माभिररचतुष्टयमुद्रणपर्यन्तमेव कृत इति ध्येयम् । ३ ही० प्रतिः २० प्रतिमवलम्ब्य लिखिता भाति । रं० प्रतितो ही० प्रतौ क्वचिद् दृश्यमानः पाठभेदो लेखकहस्तेन जात इति अरषटूमुद्रणानन्तरं प्रायशो नास्माभिर्विहितो ही प्रतेरुपयोगः । ४ प्र०सर्वासु प्रतिषु दृश्यमानः पाठः। ५५० श्रीमहेन्द्रविमलजीजैन
ज्ञानभंडार, देवशानो पाडो, अमदावाद - इत्यत्र लब्धेयं प्रतिः । Jain Education International For Private & Personal Use Only
www.jainelibrary.org