________________
नयचक्रस्य
युरोपखण्डे ओस्ट्रियादेशे विएनानगरे विश्वविद्यालये भारतीयदर्शनशास्त्राध्यापकैः संस्कृत-हिन्दीबङ्गला-चीन-भोट-फ्रेंच-जर्मन-आङ्गाद्यनेकभाषाविद्भिः Prof. Dr. Erich Frauwallner' महाशयैश्चिरं नयचक्रग्रन्थमधीत्य मुहुर्मुहुश्चिन्तनमननादि च विधाय अस्य आङ्गभाषामयी प्रस्तावना लिखिता, भोटपरिशिष्टेऽपि तैर्बह्वयो विशिष्टा उपयोगिन्यश्च सूचना विहिताः।।
पुण्यपत्तने फर्ग्युसनविद्यालये जर्मनभाषाध्यापकैर्भारतीयदर्शनशास्त्रविशारदैः संस्कृत-चीन-भोटादिनानाविधभाषानिष्णातैः श्रीमद्भिः 'वासुदेव विश्वनाथ गोखले' इत्येतैर्महाभागैर्मदर्थं भोटभाषानुवादग्रन्थाद्यवाप्तये भृशं प्रयतितम् , स्वयं च भोटभाषाध्ययनाय तैरहमत्यन्तं प्रोत्साहितः, भोटपरिशिष्टेऽपि तेषां बह्वयः सूचना अत्युपयोगिन्यः सञ्जाताः । प्राध्यापकश्रीप्रहादप्रधानमहोदयैरभिधर्मकोशभाष्यस्य दुर्लभा अंशा लिखित्वा परमसौजन्येन प्रेषिताः । येषां च 'Prof. Dr. Yensho Kanakura, Dr. 'H. Kitagawa, Mr. Walter H. Maurer प्रभृतीनां जापान-अमेरिकादिदेशवासिनां विदुषां सौजन्येन विविधा दुर्लभा भोटग्रन्था अस्माभिरधिगतास्तेषां नामग्राहमुल्लेखो भोटपरिशिष्टेऽस्माभिर्विहित एव । निर्णयसागरमुद्रणालयस्थैः पण्डित श्री० 'नारायण राम आचार्य' इत्येभिः शास्त्रिमहोदयैः प्रतिपृष्ठं मूल-टीका-टिप्पणानां यथास्थानं विन्यासेऽतिपरिश्रान्तम् । विविधाक्षरेषु निर्णयसागरमुद्रणालयेऽस्य ग्रन्थस्य सम्यग् मुद्रणाय तै शं प्रयतितम् । एतेभ्यः सर्वेभ्यो विद्वन्महोदयेभ्यः सहस्रशो धन्यवादान् वितरामि ।
भगवतां गुरुदेवानामुपकाराणां स्मृतिः विशेषतस्त्वत्र येषां साहाय्यादाशीर्वादाच्चवेदं कार्यं परिपूर्णतामगमत् ते मदीया भगवन्तः प्रातःस्मरणीया पूज्यपादा गुरुदेवाः प्रामुख्यन संस्मरणीयाः । प्रातःस्मरणीय-परमपूज्य-परमकृपालु-परमाराध्य-गुरुदेवश्री १००८ मुनिराजश्रीभुवनविजयजीमहाराजानां कृपया साहाय्येन पुण्यप्रभावेणैव चायं सर्वोऽपि ग्रन्थो मया सम्पादितः । तेषां सम्मत्यैवैतत् सम्पादनकायं मया अङ्गीकृतम् । अस्य ग्रन्थस्य सर्वाण्यपि प्रुफपत्राणि वपुषोऽपाटवेऽप्यविगणय्य स्वशरीरकष्टं तैरेव महता परिश्रमेण चतुःकृत्वः पञ्चकृत्वश्चावलोकितानि वाचितानि च । विविधान् दुर्लभान् ग्रन्थानवाप्तुमवाप्य च परिरक्षितुं तैर्भृशं प्रयतितम् । एतेषु सर्वेष्वपि वर्षेषु मदीयमन्तरङ्ग बहिरङ्गं च सर्वमपि चिन्ताभारं कार्यभारं चोद्वहद्भिरेतस्मिन्नतिदुष्करे संशोधनसम्पादनकर्मणि तैः सर्वतोऽपि साहाय्यं मे प्रदत्तम् । तेषामसीमवात्सल्यात् सर्वथा साहाय्याच्चैवेदं कार्य निश्चिन्तमनसा मया सम्पादितम् । किञ्च, ते मम गृहस्थावस्थायां पितृचरणाः, सम्प्रति श्रमणावस्थायां तु गुरुदेवाः । एवं च पितृत्वेन विविधशास्त्राध्यापकत्वेन धर्मसंस्काराधायकत्वेन च तेषां ज्ञाननिधानानां भगवतां गुरुदेवानामनन्त उपकारभरो मयि वरीवर्येव । संसारार्णवतरणाय तरणिकल्पां दीक्षां प्रदाय ग्रहणासेवनाशिक्षे च चिरं सम्यग्
१ Head, Indological Institute, University of Vienna, Austria, Europe. . २ Principal, Fakir Mohan College, Balasore. Orissa. ३ Dean, Indian Seminar, Professor of Indology, Tohoku University,
Sendai, Japan, ४ Nagoya University, Nagoya, Japan.
Reference Librarian for the South Asia Section, Orientalia Devision, the Library of Congress, Washington, U. S. A.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org