________________
प्राकथनम्
य० प्रतिपाठपरिशिष्टम् (टिपृ. १४२-१४६) वाचकवरश्रीयशोविजयोपाध्यायैलिखिताया य०प्रतेः सप्तारमुद्रणं यावदनासादितत्वाद् य० प्रत्यनुसारिण्यः पा० डे० लीं० वि० रं० ही० प्रतयो य०प्रतेः स्थानेऽत्रास्माभिरुपयुक्ताः । य० प्रत्यक्षराणां सम्यगनवगमादिकारणवशाल्लेखकहस्तेन सञ्जाताः केचन पाठभेदाः पा० डे • आदिसङ्केतैष्टिप्पणेषु तत्र तत्र दर्शिताः। य० प्रत्यवाप्त्यनन्तरं तु ते पाठभेदा अनतिप्रयोजनाः, अतः पा० डे० आदिप्रतिषु यत्र परस्परतः पाठभेदस्तत्र य० प्रतौ यादृशः पाठस्तमुपदर्शयितुं य० प्रतिपाठपरिशिष्टमत्र संयोजितम् । एवं च सप्तारमुद्रणादूर्ध्वमवाप्तापि वाचकवरश्रीयशोविजयोपाध्यायैर्लिखिता य० प्रतिरत्र साकल्येनोपयुक्तास्माभिरिति विदाकुर्वन्तु विद्वांसः । अतः परमष्टमाद्यराणां मुद्रणे भा० य० प्रती एवोपयोक्ष्येते, न तु पा० डे० ली० वि० ० ही० प्रतय इत्यपि ध्येयम् ।
उपसंहारः ____काश्चनाशुद्धयोऽस्माभिष्टिप्पणेषु प्रमार्जिता एव । गुफाद्यवलोकनेऽनवधानादिजास्त्वशुद्धयः शुद्धिपत्रके एव विशेषतो दर्शिताः । अतष्टिप्पणानि शुद्धिपत्रकं चानुसन्धायैवायं ग्रन्थोऽध्येतव्यो विद्वद्भिः ।
एवं संशोधनाय सुबहु कृतेऽपि यत्ने नयचक्रमूलाभावात् , हस्तलिखितनयचक्रवृत्तिप्रतिष्वशुद्धिबाहुल्यात् , मल्लबादि-सिंहसूरिक्षमाश्रमणाभ्यां येषां मतानि चर्चितानि तेषां भूयसां प्राचीनग्रन्थानां सम्प्रति विनष्टत्वेन संशोधनोपयोगितथाविधग्रन्थान्तरसामग्र्यभावात , अस्मन्मतिमान्द्यात् , भगवद्भिर्गुरुदेवैः महता परिश्रमेण स्पष्टमुच्चार्य सम्यगवधाय च सर्वेष्वपि शोधन[ग्रुफपत्रेषु चतुःकृत्वः पञ्चकृत्वो वा. पठितेष्वपि शोधन प्रफ]पत्राणामवलोकने ममैव सम्यगनवधानाद् मुद्रणावसरे सीसकाक्षरविपर्यासाच्च याः काश्चन स्खलना अत्र दृष्टिपथमवतरेयुस्ताः सर्वा अपि विविच्य सजना विद्वन्महोदया एतद्न्थाध्ययनाध्यापनादिना अस्माकं परिश्रमं फलेग्रहिं कुर्युरिति बाढमभ्यर्थयामहे ।
धन्यवाद वितरणम् एवं महता परिश्रमेण सुचिरं संशोध्य सम्पाद्य चास्य नय चक्रमहाशास्त्रस्य प्रथमो विभागोऽद्य विदुषां पुरः प्रकाश्यते । अद्यतनशैल्या साङ्गोपाङ्गं संशोधनं सम्पादनं च विधायेम ग्रन्थं प्रकाशयितुं प्राचीनग्रन्यसंशोधनेऽनेकप्राचीनग्रन्थसङ्ग्रहव्यवस्थापने च सिद्धहस्तानां मुनिराजश्रीपुण्यविजयजीमहाराजानां चिरादुत्कटा समीहासीत् । तेषां प्रेरणयैवैतत् कार्यं मयाङ्गीकृतम् । नयचक्रवृत्तेर्हस्तलिखिताः सर्वा अपि प्रतयस्तैरेव भृशं परिश्रम्येतस्ततः सञ्चित्य मत्समीपे प्रेषिताः । अत्र सम्पादने उपयुक्ताः पत्तनजेसलमेरादिनगरस्थानां विशेषावश्यकभाष्यस्वोपज्ञटीका-कोट्टार्यगणिरचितटीका-सम्मतिवृत्ति-वैशेषिकसूत्रचन्द्रानन्दरचितवृत्ति-न्यायभाष्य-न्यायवार्तिक-न्यायवार्तिकतात्पर्यटीका-न्यायकन्दली-सांख्यकारिकावृत्तितत्त्वसङ्ग्रहपञ्जिकादिग्रन्थानां प्राचीना दुर्लभतमाश्च हस्तलिखिता आदर्शा अपि तेषां सकाशादेव मयाधिगताः। किं बहुना ? ये च यावन्तश्च ग्रन्था एतत्सम्पादने मयापेक्षितास्ते सर्वेऽपि यावदुपलम्भं तैर्मह्यं दत्ताः । किञ्च, अस्य ग्रन्थस्य संशोधनं सम्पादनं च यद्यपि मयैव व्यधायि तथापि भूरिद्रव्यव्ययसाध्या एतद्न्थमुद्रणप्रकाशनादिव्यवस्था तैरेव व्यधायि । एवं च नयचक्रग्रन्थसंशोधनोपयोगिविविधसामग्रीप्रदानेन प्रभूतं साहाय्यं तैरत्रानुष्ठितम् ।
नय. प्र.६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org