________________
नयचक्रस्य
पदर्शितः । एतद् भोटपरिशिष्टं नयचक्रस्याध्येतॄन् यथोपकरोति तथा सामान्यतो न्यायाधनेकप्राचीनदर्शनशास्त्राध्येतृन् विशेषतश्च प्रमाणवार्तिक-तत्त्वसङ्ग्रहादिबौद्धदर्शनशास्त्राध्येतनप्यत्यन्तमुपकरिष्यति । अनेकवर्षाणि भृशं परिश्रम्यास्माभिः सङ्कलितमिदं भोटपरिशिष्टमेव विस्तरार्थिभिर्विलोकनीयम् ।
वैशेषिकसूत्रसम्बन्धि परिशिष्टम् ( टिपृ. १४१) चन्द्रानन्दविरचितवृत्तिसमन्वितस्य कणादप्रणीतवैशेषिकदर्शनस्यास्मिन् ग्रन्थे पृथक् पृथक् स्थाने टिप्पणेषु साकल्येन मुद्रणे कारणं टिपृ० ८ पं० २२--३० इत्यत्र विस्तरेण दर्शितमेवास्माभिः । किञ्चित्त्वत्रापि प्राक्कथने प्रतिपादितम् । वैशेषिकसूत्राणामत्र पृथक् पृथक् टिप्पणेषु मुद्रितत्वात् कतमं सूत्रं क मुद्रितमिति सारल्येनान्वेष्टुं वैशेषिकसूत्रसम्बन्धिपरिशिष्टमत्र सङ्कलितमस्माभिः ।
इदं तु ध्येयम् वैशेषिकसूत्राणामविज्ञातकर्तृका एका व्याख्या २०१३ विक्रमाब्दे बिहारप्रदेशे दरभंगानगरस्थेन मिथिलाविद्यापीठेन प्रकाशिता । तन्मातृकायां पृथक् सूत्रपाठो नास्ति । तथापि तत्सम्पादकैः श्रीमदनन्तलालदेवशर्मविद्वन्महोदयैर्व्याख्यानुसारेण यः सूत्रपाठः सम्भावितः स चन्द्रानन्दाभिमतवैशषिकसूत्रपाठेन बहुलं संवदति । वैशेषिकसूत्राणामुपस्कारकृच्छङ्करमिश्रः ख्रिष्टीयपञ्चदशतके आसीत्, मिथिलाविद्यापीठप्रकाशितव्याख्याकारस्तु त्रयोदशे ख्रिष्टीयशतके तदनन्तरं वा लब्धोदय इति प्रतीयते । अयं चन्द्रानन्दस्तु उभाभ्यामप्येताभ्यां भृशं प्राचीन इत्यपि ध्येयम् ।
किञ्च, P. प्रत्यनुसारेण चन्द्रानन्दरचिता वृत्तिरत्र मुद्रिता । ततः परम् Oriental Institute, Baroda इत्यतोऽपि शारदालिप्यां लिखिता चन्द्रानन्दरचितवृत्तेरेका प्रतिर्लब्धा । कदाचिदपरिचितामपि शारदालिपिं भगवतो गुरुदेवस्य कृपयाधीत्य तत्र P. प्रत्यपेक्षया ये शुद्धपाठा विद्यन्ते तेऽस्माभिः पृथक् शुद्धिपत्रके दर्शिताः ।
१ न्यायवार्तिके न्यायवार्तिकतात्पर्यटीकायां मीमांसाश्लोकवार्तिके तद्वयाख्यासु युक्तिदीपिकाख्यायां सांख्यकारिकावृत्ती ब्रह्मसूत्रशाङ्करभाष्यादौ च दिङ्नागस्य वचांस्युद्धृत्य दिङ्नागमतं तत्र तत्र निराकृतम् । अतस्तादृशेषु स्थानेष्विदं भोटपरिशिष्टमष्टमे चारेऽस्माभिष्टिप्पणेषु न्यस्ताः प्रमाणसमुच्चयायंशा नयचक्रे तद्वृत्ती चोद्धृतानि दिङ्नागवचांसि च न्यायवार्तिकाद्यध्येतृणां भृशमुपकरिष्यन्ति । अस्माभिः सम्पादितस्य वैशेषिकसूत्रस्य ( Gaekwad's Oriental Series No. 136, Baroda) सप्तमे परिशिष्टे [पृ० १६९-२१९] प्रमाणसमुच्चये तद्वृत्तौ विशालामलवत्यां च तट्टीकायां विद्यमाना वैशेषिकदर्शनसम्बन्धिनी प्रायः सर्वापि चर्चा न्यायदर्शनसम्बन्धिनी च भूयसी चर्चा भोटभाषान्तरतः संस्कृते परिवोपन्यस्ता अतस्तज्जिज्ञासुभिस्तदपि विलोकनीयम् ॥ २ धर्मकीर्तिरचित प्रमाणवार्तिकं हि प्रमाणसमुच्चयस्य व्याख्यानरूपम् । तत्र प्रमाणवार्तिकस्य प्रमाणपरिच्छेदः प्रमाणसमुच्चयप्रथमपरिच्छेदस्य प्रथमां कारिकां तद्वृत्तिं चावलम्ब्यैव प्रवृत्तः, प्रत्यक्षपरिच्छेदः प्रमाण समुच्चय प्रथमपरिच्छेदस्य २-१४ कारिकास्तद्वृत्तिं चावलम्ब्य प्रवृत्तः, परार्थानुमानपरिच्छेदस्तु प्रमाणसमुच्चयस्य तृतीयपरिच्छेदस्य प्रारम्भिक स्तिस्रः कारिका अन्याश्च काश्चित् कारिकास्तवृत्तिं चावलम्ब्य प्रवृत्तः । एतच्च प्रायः सर्वमपि भोटभाषान्तरतः संस्कृतेऽनूद्यास्य नयचक्रग्रन्थस्य भोटपरिशिष्टेऽन्यत्र च तत्र तत्र टिप्पणेषूपन्यस्तम् । अतोऽस्मिन् ग्रन्थे मुद्रितानां भोटपरिशिष्टटिप्पणानां प्रमाणवार्तिकाध्ययने उपयोगित्वं स्फुटमेव, प्रज्ञाकरगुप्तेन रचितः प्रमाणवार्तिकभाष्यरूपो वार्तिकालङ्कारः तत्त्वसंग्रहादयश्च बौद्धग्रन्था अपि तदनुसारिण इति तत्रापीमानि भोटपरिशिष्ट-टिप्पणानि भृशमुपयोगीनि भविष्यन्ति तदध्येतणाम् ॥ ३ अस्मत्सम्पादितस्य वैशेषिकसूत्रस्य द्वितीयं परिशिष्टं (पृ० १०१-१२२) विस्तरार्थिभिर्विलोकनीयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org