SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४३ प्राकथनम् ग्राहयित्वा तैर्यदहमुपकृत उद्धृतश्च तत् कथमपि वर्णयितुं न शक्यते, वाचामगोचरत्वात् । मदीया सर्वाप्युन्नतिस्तेषां कृपाबलादेव । तेषां हि पीयूषवर्षिणी कृपादृष्टिः सर्वदाह्लादयति मच्चेतः पदे पदे च मामत्यर्थमुपकरोति । इत्थमनन्तोपकारिणामाराध्यपादपरमपूज्यतीर्थस्वरूपगुरुदेवश्री १००८ भुवनविजयजीमहाराजानामनन्ता उपकाराः कथमपि मया वर्णयितुं न शक्यन्ते । अनन्तं यस्य वात्सल्यमनन्ता चोपकारिता । महिमानं गुरोस्तस्य को वा वर्णयितुं क्षमः१॥ तेषामेव कृपा-साहाय्यबलादवशिष्टानपि नयचक्रस्यारान् द्वितीये विभागे सम्यक् सम्पाद्य शीघ्रतरं प्रकाशयितुमाशासे । सिद्धगिरीशस्य भगवतो युगादिदेवस्य ऋषभजिनेशस्यार्चनम् इत्थं चिरपरिश्रमेण सम्पादितमिदमनेकान्तवादप्रतिष्ठापकं नयचक्रमहाशास्त्रं युगादीशस्य श अयतीर्थाधिपतेः परमात्मनः श्रीऋषभजिनेशितः करकमलयोः समर्प्य परमां कृतार्थतां परमं च प्रमोदमनुभवामि । यस्य प्रभोः प्रभावादित्थं सम्पादितो मया ग्रन्थः । तं श्रीसिद्धगिरीशं महयाम्येतेन कुसुमेन ॥ -इत्यावेदयति विक्रमसंवत् २०१५, मार्गशीर्षबहुलदशमी पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टशिष्य-- प्रभुश्रीपार्श्वनाथजन्मकल्याणकदिनम् .. पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्य-- झींझुवाडा पूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy