SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ नयचक्रस्य परम्परानुसारिणः पाठाः प्रायस्तदवस्था एवास्माभिः परिरक्षिताः । यथा च सम्प्रति पाठभेदो दृश्यते तथा टिप्पणेषु तत्र तत्र दर्शितमस्माभिः । अतो टिप्पणान्यप्यत्रावश्यं विलोकनीयानि । पृष्ठाङ्काः अस्मिन् ग्रन्थेऽस्य मुद्रितग्रन्थस्य पृष्ठाङ्कः सर्वत्र पृष्ठस्य शीर्षके उपन्यस्तः । यस्तु पार्श्वभागे | In the margin ] पृष्ठाङ्कः स भा० प्रतेर्वेदितव्यः । भा० प्रतेर्हि ५७२ पत्राणि, प्रतिपत्रं च पृष्ठद्वयम् , अतो भा० प्रतेर्यस्मिन् पत्रे यस्मिंश्च पृष्ठे यो यो विभाग आयाति तस्य प्रारम्भे २-१, २-२, ३-१, ३-२, ४-१, ४-२ इत्यादिक्रमेण सर्वे पृष्ठाङ्का अत्रास्माभिः पार्श्वभागे उपन्यस्ताः । २-१ = भा० प्रतेर्द्वितीयपत्रस्य प्रथमं पृष्ठम् , २-२ = द्वितीयपत्रस्य द्वितीयं पृष्ठम् , ३-१ = तृतीयपत्रस्य प्रथमं पृष्ठम् , ३-२ = तृतीयपत्रस्य द्वितीयं पृष्ठमित्यादिरर्थः ५७२-१ पर्यन्तं सर्वत्र स्वयमेवोह्यः । अस्मिन् ग्रन्थेऽधोनिर्दिष्टेषु टिप्पणेषु पृथग योजितेषु च टिप्पणेषु यत्र यत्रामुद्रितवक्ष्यमाणपाठावलोकनार्थमस्माभिः सूचितं तत्र तत्रास्याङ्कस्य विशेषेणोपयोगः । नयचक्रवृत्तेः संशोधने हि पूर्वापरसन्दर्भानां भूयानुपयोगोऽस्माभिर्विहितः । बहुषु च स्थलेषु पूर्वाभिहितपाठानामर्थो वक्ष्यमाणसन्दर्भसाहाय्येनैव स्पष्टतयावगम्यते पाठशुद्धिर्मूलसंकलनं च यथावत् कर्तुं पार्यते । एवं चेदृशेषु स्थलेषु यत्रामुद्रितवक्ष्यमाणपाठावलोकनार्थमस्माभिः सूचितं तत्रास्य भा० प्रतिपृष्ठाङ्कस्योपयोगोऽस्माभिर्विहितः । यथा पृ० ९ टि० १० इत्यादौ । अस्मिन् विभागे नयचक्रमुद्रणानन्तरं पश्चाद्भागे पृथग् योजितानां टिप्पणानां पृष्ठाकोऽपि पृथगेवात्र निर्दिष्टः, एवं च यत्र यत्र टिपृ० इत्यस्माभिर्लिख्यते तत्र तत्र नयचक्रमुद्रणादूचं पृथग् योजितानां टिप्पणानामेव पृष्ठाकोऽवगन्तव्यः । टिप्पणानां द्वैविध्यम् अत्र द्विविधानि टिप्पणानि योजितान्यस्माभिः-नयचक्रग्रन्थेऽधस्ताद् मुद्रितानि पादटिप्पणरूपाणि, अपराणि पुनर्नयचक्रमुद्रणानन्तरं योजितानि । अधोमुद्रितेषु पादटिप्पणेषु प्राधान्येन पाठान्तराणि दर्शितानि संशोधनोपयोगिनः सन्दर्भाश्च ग्रन्थान्तरभ्य उद्धृताः, कचित् कचिच्च ग्रन्थस्य स्पष्टीकरणं तुलनादिकमपि च विहितम् । नयचक्रमुद्रणानन्तरं योजितेषु तु टिप्पणेषु विस्तरेण विवेचनं तुलनादिकं चानुष्ठितम् , तेषु तेषु प्रसङ्गेषु ग्रन्थान्तरेभ्य उद्धृत्य बहवो दुर्लभाः पाठा अप्यत्रोपन्यस्ताः, ऐतिह्यादिकमपि चर्चितम् , ग्रन्थमुद्रण. समयेऽस्माभिरज्ञाता या अशुद्धयोऽनन्तरमस्मद्बुद्धौ स्फुरितास्तत्तत्स्थाने शुद्धपाठा अपि तत्रास्माभिर्निर्दिष्टाः । एवं च एतैर्नयचक्रमुद्रणानन्तरं योजितैष्टिप्पणैः सहैवायं सवृत्तिको नयचक्रग्रन्थो विद्वद्भिः पठनीयः । किञ्च, एतेषां टिप्पणानामेवाङ्गभूतं ‘भोटपरिशिष्टम् , वैशेषिकसूत्रसम्बन्धिपरिशिष्टम् , य० प्रतिपाठपरिशिष्टम्' इति परिशिष्टत्रयमपि योजितमत्र । तेषां वैशिष्ट्यमुपयोगित्वं च तदवलोकनादेव सम्यग् ज्ञातुं शक्यते । किञ्चित्वत्र दर्शयामः १ दृश्यतां टिपृ० १० पं० ३७, टिपृ० २४ पं० २२, टिपृ० ५० पं. १, टिपृ० ५१ पं० १३ इत्यादि । विशेषार्थिभिस्तु शुद्धिपत्रकं विलोकनीयम् ॥ २ तत्रास्मिन् विभागे पृ० ६४, ८६, ८८, ८९, ९१, ९३, ९६, ९७, ९९, १००, १०१, १०२, ३०६ इत्यादिस्थलेषु दिङ्नागस्य वचांसि नयचक्रमूले वृत्तौ वोद्धृतानि यथायोगं च परीक्षितानि ॥ ३ दृश्यतां पृ० १५ पं० ८, टिपृ०१६ पं० ६-१७, पृ० ५६ पं० १६ टि. १२, पृ० १२० पं० १७ टि. १०, पृ० १२२ पं० ५ टि० २, पृ० १२७ पं० १४ टिपृ. ५६ पं० १-५, पृ० १५४ पं० १६ टि० ७, पृ० १७५ पं० १९ टि. ६, पृ० १७६ पं० २८ टि० ६, पृ० १८३ पं० १५ टि० ४, पृ० १८३ पं० २३ टि० ९, पृ० १९७ पं० ७ टि. ४, पृ० ३१४ पं० १ टि. २, पृ० ३३२ पं० १, पृ० ३३१ टि० ३ इत्यादि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy