________________
प्राक्कथनम्
‘कक्खट' इति पाठ एवं ग्रन्थकृतोऽभिमतः शुद्धश्चेति स एवात्रादरणीयः । एवमाकृतिसारूप्यादिकारणैर्बहूनामक्षराणां हस्तलिखितनयचक्रवृत्तौ परिवर्तनं सञ्जातम् । ईदृशानि अन्योन्यं परिवर्तितानि कानिचिदक्षराण्यत्रोदाहियन्ते—
ण्त्र = व
त्व = ड्ढ
त = न
त्स = ञ्
त = व
द = ह
तत्र = तन्न
दि = भि
तृ = त्रि
दि = पि
श = त्रा
त्त = तृ
द्य = ड्य
स = भ
त्त = कृ
ध = व
स्त = सू
त्त = न्त
धा = क
• च = श्च
त्थ = च्छ
न = ण
IT =
त्व = च
ननु = नतु
IT = य
एतलिपि परिवर्तनं मुहुर्मुहुः सूक्ष्मैक्षिकया विचिन्त्य विविच्य च यथास्थानं यथासम्भवं शुद्धः पाठ अतोऽस्माभिः । भोटग्रन्थानामपि शुद्धपाठनिर्णयेऽस्माभिर्व्यधायि बहुषु स्थानेषूपयोगः । तथाहि - पृ० ९३ पं० २३ इत्यत्र भा० प्रतौ ' तदंशदृष्टौ ' इति पाठो दृश्यते, य० प्रतिषु तु ' तददृष्टौ ' इति पाठः । भोटभाषान्तरसंवादादर्थसङ्गतेश्च ' तदंशदृष्टौ ' इति पाठ एवं शुद्धत्वात् तत्रास्माभिरादृतः, दृश्यतां भोटपरिशिष्टे टिपृ० १३६ । एवं पृ० ३१४ पं० ४ पृ० ३२१ पं० १६ इत्यत्र च मुद्रितोऽशुद्धः पाठो नयचक्रमुद्रणानन्तरं समासादितभोटग्रन्थसाहाय्येन टिपृ० १३८ पं० ६ टिपृ० १४० पं० ८ इत्यत्र चास्मभिः शुद्धीकृतः । यत्र कश्चित् पाठः खण्डित इत्यस्माकं मतं तत्र खण्डितपाठपूरणाय [ ] एतादृशकोष्ठकान्तरस्मत्सम्भावितः पाठो निवेशितः । यत्र च सर्वासु प्रतिष्वशुद्धः पाठस्तत्स्थाने शुद्धपाठं च सम्यक् कल्पयितुं वयमसमर्थास्तत्रा शुद्ध पाठस्याग्रे ( ? ) एतादृशं चिह्नं स्थापितमस्माभिः, यथा पृ० २५७ पं० १४ इत्यत्र । यत्र त्वशुद्धपाठस्थाने कश्चिच्छुद्धः पाठोऽस्माभिः सम्भावितो न तु निश्चितस्तत्राशुद्धपाठस्याग्रे १ ) एतादृशकोष्ठकान्तरस्मत्सम्भावितः पाठोऽस्माभिर्निवेशितः, यथा पृ० १६ टि० १० इत्यादौ । यंत्र चान्यथापि पाठः कल्पयितुं शक्यते तत्र वैकल्पिकी पाठसम्भावनापि टिप्पणेषु तत्र तत्रास्माभिः प्रदर्शिता, यथा पृ० १४ टि०९, पृ० १८ टि० १३, पृ० ७२ टि० ८ इत्यादौ ।
(
S = अ
S = इ
ए = प = य
क = वा
Jain Education International
क्र =
न
रक = क्ख
ग = म
च = व
ज्ञ = ज्र
ट = ङ
नु = उ
नु = तु
- न = न्न
प = य
पृत = वृत्त
प्य = ण्य
ब = व
भ = त
भू = चु
म = स
३७
म = न
रु = भ
ग्रे = र्ग
ल = त
नयचक्रवृत्तौ ग्रन्थान्तराणां प्राचीना विशिष्टपाठाः
मल्लवादि- सिंह सूरिक्षमाश्रमणानामतिप्राचीनत्वात् तेषां समक्षं वेदोपनिषत् -सांख्यादिदर्शनशास्त्रपाणिनीयशब्दानुशासन सूत्र धातु- पातञ्जलमहाभाष्य- जैनागमादिग्रन्थानां प्राचीना पाठपरम्परासीदिति निर्विवादमेव । कालक्रमेण ग्रन्थेषु अन्यान्यलेखकहस्तैः पाठभेदा जायन्ते वर्धन्ते चेति विदितमेव विदुषाम् । अतो नयचक्रवृत्तावुद्धृतेषु वेदादिपाठेषु सम्प्रत्युपलभ्यमानपाठेभ्यो न्यूनाधिकभेददर्शनेऽपि अत्रोद्धृताः प्राचीन
For Private & Personal Use Only
www.jainelibrary.org