________________
नयचक्रस्य
परम्परया भा. य. प्रत्योराधारभूता काचित् प्रतिः
भा. प्रतिः
य. प्रतिः
पा.
डे.
ली.
वि.
पाठान्तरसङ्केताः भा० पा० डे० आदिसङ्केतैः भा० पा० डे० आदिप्रतिस्थाः पाठभेदाष्टिप्पणेषु दर्शिताः । सप्तमारमुद्रणपर्यन्तं य० प्रतेरनुपलम्भेऽपि पा० डे० ली० वि० रं० ही० प्रतीनां य० प्रत्यवलम्बित्वाद् यत्र पा० आदिषु सर्वासु समानः पाठस्तत्र तत्स्थः पाठभेदो य० सङ्केतेनैव टिप्पणेषु दर्शितः । यत्र तु भा० प्रभृतिषु सर्वावपि प्रतिषु अशुद्धः पाठस्तत्र स पाठः प्र०सङ्केतेन टिप्पणेषु दर्शितः, अस्मदभिमतस्तु शुद्धः पाठो ग्रन्थे निवेशितः ।
__ नयचक्रवृत्तेः संशोधनायावलम्बिता पद्धतिरुपायाश्च .. नयचक्रवृत्तेः संशोधनं प्रभूतग्रन्थसाहाय्येनास्माभिर्विहितमित्यसकृदावेदितं प्राग् । इदमन्यद प्यत्रानुसन्धेयम् । केवलं व्याकरणादिनियमानुसारेण यथाकथञ्चिच्छुद्धपाठकल्पनेन विषयसङ्गतिकरणेन च संशोधनकार्य न सम्यग् निर्वहति, शुद्धपाठोऽपि ग्रन्थकृदभिप्रेत एव कल्पनीयो भवति । तत्र चोपायान्तरमपि विद्यते । तथाहि-केषाञ्चिदक्षराणामाकृतयः कालक्रमेण परिवृत्तिमापन्नाः, एतल्लिपिपरिवर्तनं तु सम्यगजानाना बहवो लेखका वाचकाश्चाकृतिसाजात्यादन्यथाक्षराणि कल्पयन्ति, अन्यथा च लिखन्ति । पृष्ठमात्रानिवेशनमपि सम्यगविविञ्चन्तोऽयथास्थानं च पृष्ठमात्रा निवेशयन्तो लेखका बहुशो मिथ्यापाठान् सृजन्ति । अत्र यदि सूक्ष्मेक्षिकया लिपिपरिवर्तनमवेक्ष्य संशोधन विधीयते तदानायासेनैव ग्रन्थकृद भिप्रेताः शुद्धपाठा अवाप्यन्ते । अतोऽयमुपाय एतद्न्थसंशोधने प्राधान्येनावलम्बितोऽस्माभिः । तत्साहाय्येन ग्रन्थकृत्सम्मताः परःशताः शुद्धपाठा अस्माभिर्यथावदेव लब्धाः । तथाहि-'पृ० १६ पं० १४, पृ० ४७ पं० ७' इत्यत्र 'करकट' शब्दो हस्तलिखितप्रतिषु दृश्यते, वस्तुतस्तु प्राचीनलिप्यां 'क्ख' इत्यक्षरं 'रक' इति लिख्यते स्म, अतस्तत्र 'कक्खट' इत्येव शुद्धपाठः । बौद्धमतस्यात्र प्रस्तुतत्वात् 'कक्खटलक्षणा पृथिवी' इति च बौद्धानामभिमतत्वात् 'कक्खट' इति पाठो बौद्धमतेनापि सर्वथा संवदति, दृश्यतां पृ० १६ टि०८ । अतोऽत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org