________________
३८
न्यायागमानुसारिणीवृत्यलङ्कृतस्य नयचक्रस्य [पृ० ६०५० १६पृ०६० ५० १६. चतुर्भिः। “चत्वारः प्रत्यया उक्ता हेत्वाख्याः पञ्च हेतवः ॥२॥६॥ 'चित्तचैत्ता अचरमा उत्पन्नाः समनन्तः । आलम्बनं सर्वधर्माः कारणाख्योऽधिपः स्मृतः ॥ २॥१२॥ निरुध्यमाने कारित्रे द्वौ हेतू कुरुतस्त्रयः । जायमाने ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात् ॥१६३॥ चतुर्भिश्चित्तचैत्ता हि समापत्तिद्वयं त्रिभिः । द्वाभ्यामन्ये तु जायन्ते नेश्वरादेः क्रमादिभिः ॥ श६४॥" - अभिधर्मको । अस्य व्याख्यानं तु अभिधर्मकोशभाष्यात् तट्टीकातश्चावगन्तव्यम् । 5 पृ० ६१ पं० १, ५. चक्षुर्विज्ञानसमङ्गी अभिधर्मागमोऽपि । दृश्यतां पृ० ७९ टि० ७ । मध्यमकवृ० पृ० ७४ ।
अभिधर्मको० स्फुटार्था १।३३। तत्त्वसं. पं० पृ० १२"अभिधर्मेऽस्ति- मनोविज्ञानसमङ्गी तु 'नीलमिदम्' इति च ।"प्रमाणवा० मनोटि० पृ० १९२। “तत्र प्रत्यक्षं भगवतैवोपदिष्टम् - नीलज्ञानसमङ्गी पुद्गलो नीलं जानाति, नो तु नीलमेवेति।"प्रमाणवार्तिकालं. पृ० १६६। अभिधर्मागमोऽपीत्यनेन संस्कृतभाषानिबद्धम् अभिधर्मपिटकं ग्रहीतव्यम् । “श्रूयते हि
अभिधर्मशास्त्राणां कतीरः, तद्यथा-ज्ञानप्रस्थानस्य आर्यकात्यायनीपुत्रः कती, प्रकरणपादस्य स्थविरवसुमित्रः, विज्ञानकायस्य 10 स्थविरदेवशर्मा, धर्मस्कन्धस्य आर्यशारिपुत्रः, प्रज्ञप्तिशास्त्रस्य आर्यमौद्गल्यायनः, धातुकायस्य पूर्णः, संगीतिपर्यायस्य महा
कौष्टिलः । कः सौत्रान्तिकार्थः? ये सूत्रप्रामाणिका न तु शास्त्रप्रामाणिकास्ते सौत्रान्तिकाः। यदि न शास्त्रप्रामाणिकाः कथं तेषां पिटकत्रयव्यवस्था-सूत्रपिटको विनयपिटकोऽभिधर्मपिटक इति? सूत्रेऽपि ह्यभिधर्मपिटकः पठ्यते-चैपिटको भिक्षुरिति । नैष दोषः । सूत्राविशेषा एव ह्यर्थविनिश्चयादयोऽभिधर्मसंज्ञा येषु धर्मलक्षणं वर्ण्यते । एतदाशङ्कानिवृत्त्यर्थमाहुः स तु
मानस्येव सर्वा स्मृतिः समाहिता चासमाहिता चानुस्मरणविकल्पः।” इति [ विद्वद्वरश्रीप्रलादप्रधानमहाशयानां सौजन्यात् समुपलब्धे हस्तलिखिते ] वसुबन्धुविरचितेऽभिधर्मकोशभाष्ये ।
१ चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः।' अर्हतः पश्चिमानपास्योत्पन्नाश्चित्तचैत्ताः समनन्तरप्रत्ययः । समश्चायमनन्तरश्च प्रत्यय इति समनन्तर प्रत्ययः । अत एव रूपं न समनन्तरप्रत्ययः, विषमोत्पत्तेः ।....."उक्तः समनन्तरप्रत्ययः । 'आलम्बनं सर्वधर्माः' । यथायोगं चक्षुर्विज्ञानस्य ससम्प्रयोगस्य रूपम् श्रोत्रविज्ञानस्य शब्दः घ्राणविज्ञानस्य गन्धः जिह्वाविज्ञानस्य रसः कायविज्ञानस्य स्प्रष्टव्यम् मनोविज्ञानस्य सर्वधर्माः ।....."उक्त आलम्बनप्रत्ययः । 'कारणाख्योऽधिपः स्मृतः' ॥२॥६२॥ य एव कारणहेतुः स एवाधिपतिप्रत्ययः । अधिकोऽयं प्रत्यय इत्यधिपतिप्रत्ययः। आलम्बनप्रत्ययोऽपि सर्वधर्माः अधिपतिप्रत्ययोऽपीति किमस्त्याधिक्यम् ? न जातु सहभुवो धर्मा आलम्बनं भवन्ति, भवन्ति त्वधिपतिप्रत्यय इत्यस्य (स्त्ये?) वाधिक्यम् । अधिकस्य वा प्रत्ययः । सर्वः सर्वस्य संस्कृतस्य स्वभाववर्जस्य ।। अथैते प्रत्ययाः कारित्रं कुर्वन्तः किमवस्थे धर्मे कुर्वन्ति ? हेतुप्रत्ययस्तावत् पञ्चविध उक्तः, तत्र 'निरुध्यमाने कारित्रं द्वौ हेतू कुरुतः । निरुध्यमानं नाम वर्तमानम् , निरोधाभिमुखत्वात् । तत्र सहभू-सम्प्रयुक्तकहेतू कारित्रं कुरुतः।...'त्रयः जायमाने'। जायमानं नामानागतमुत्पादाभिमुखम् । तत्र सभाग-सर्वत्रग-विपाकहेतवः कारित्रं कुर्वन्ति । एवं तावद्धतुप्रत्ययः । 'ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात्' ।२।६३।....' समनन्तरप्रत्ययो जायमाने कारित्रं करोति, अवकाशदानात् । आलम्बनप्रत्ययो निरुध्यमाने, वर्तमानैश्चित्तचैत्तैर्ग्रहणात् । अधिपतिप्रत्ययस्तु सर्वस्यामवस्थायामनावरणभावेनावस्थितः.......। अथ कतमो धर्मः कतिभिः प्रत्ययैरुत्पद्यते ? चतुर्भिश्चित्तचैत्ता हि । तत्र हेतुप्रत्यय एषां सर्वे पञ्च हेतवः । समनन्तरप्रत्ययः पूर्वकाश्चित्तचैत्ताः अन्यैरव्यवहिताः । आलम्बनप्रत्ययः यथायोगं पञ्च विषयाः सर्वे धर्माश्च । अधिपतिप्रत्ययः स्वभाववर्जाः सर्वधर्माः । 'समापत्तिद्वयं त्रिभिः । निरोधा-संज्ञिसभापत्त्योरालम्बनप्रत्ययो नास्ति । न हि ते आलम्बिके । ......"द्वाभ्यामन्ये तु जायन्ते । अन्ये तु विप्रयुक्ता रूपिणश्च धर्मा हेत्वधिपतिप्रत्ययाभ्यां जायन्ते यथाविहितमेव । आह-हेतुप्रत्ययेभ्यो भावा उपजायन्ते, न पुनः सर्वस्यैव जगत ईश्वरपुरुषप्रधानादिकं कारणमिति कोऽत्र हेतुः ? यदि खलु हेतुकृतां सिद्धिं मन्यसे ननु च अत एवास्य वादस्य व्युदासः प्राप्नोति एकं कारणमीश्वरादिकं सर्वस्येति । अपि च 'नेश्वरादेः क्रमादिभिः' ।२।६४। यदि ह्येकमेव कारणमीश्वरः स्यादन्यद्वा युगपत् सर्वेण जगता भवितव्यं स्यात् । दृश्यते च भावानां क्रमसम्भवः । स तर्हि छन्दवशादीश्वरस्य स्यात् - अयमिदानीमुत्पद्यताम् अयं निरुध्यताम् अयं पश्चादिति । छन्दभेदात् तर्हि सिद्धमनेक कारणं स्यात् । स चापि छन्दभेदो युगपत् स्यात् तीतोरीश्वरस्याभिन्नत्वात् । कारणान्तरभेदापेक्षणे वा नेश्वर एव कारणं स्यात् । तेषामपि च क्रमोत्पत्तौ कारणान्तरमेदापेक्षणादनवस्थाप्रसङ्गः स्यादित्यनन्तभेदायाः कारणपरम्पराया अनादित्वाभ्युपगमादयमीश्वरकारणाधि(द्वि ? )मुक्तः शाक्यपुत्रीयमेव न्यायं नातिवृत्तः स्यात् । यौगपद्येऽपीश्वरच्छन्दानां जगतो न यौगपद्य यथाच्छन्दमुत्पादनादिति चेत् । न ।
___1 Principal, Fakir Mohan College, BALASORE, Orissa.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org