________________
10
पृ०६३ पं० २६.]
टिप्पणानि । प्रकीर्ण उक्तो भगवतेति विस्तरः । यथा स्थविरधर्मनातेन उदाना 'अनित्या बत संस्काराः' इत्येवमादिका विनेयवशात् तत्र तत्र सूत्रे उक्ता वर्गीकृताः एकस्थीकृताः, एवमभिधर्मोऽपि धर्मलक्षणोपदेशस्वरूपो विनेयवशात् तत्र तत्र भगवतोक्तः स्थविरकात्यायनीपुत्रप्रभृतिभिः ज्ञानप्रस्थानादिषु पिण्डीकृत्य स्थापित इत्याहुः वैभाषिकाः।"--अभिधर्मको स्फुटार्था १।३।
पृ० ६१ पं० ४. अर्थेऽर्थसंज्ञी। कमलशीलरचिते न्यायबिन्दुपूर्वपक्षसंक्षेपेऽपि उद्धृतमेतत् । दृश्यतां मध्यमकवृ० पृ. ७४ टि०६।
पृ.६१ पं० १३. व्यञ्जन । “चित्तविप्रयुक्तसंस्काराः कतमे ? प्राप्तिरसंजिसमापत्तिनिरोधसमापत्तिरासंज्ञिकं जीवितेन्द्रियं निकायसभागता जातिर्जरा स्थितिरनित्यता नामकायाः पदकाया व्यञ्जनकाया पृथग्जनत्वं प्रवृत्तिः प्रतिनियमो योगः जवोऽनुक्रमः कालो देशः संख्या सामग्री च । ..'नामकायाः कतमे? धर्माणां स्वभावाधिवचने नामकाया इति प्रज्ञप्तिः। पदकायाः कतभे? धर्माणां विशेषाधिवचने पदकाया इति प्रज्ञप्तिः । व्यञ्जनकायाः कतमे ? तदुभयाश्रयेष्वक्षरेषु व्यञ्जनकाया इति प्रज्ञप्तिः तदुभयाभिव्यञ्जनतामुपादाय । "-अभिधर्मसमु० पृ. १०-११।
पृ० ६१ पं० १८. भावनयाऽनया...। (भावनया विशेषयति!)।
पृ० ६१ पं० १९. तं भवन्तः । “हेतुमति च [पा० ३।१।२६] प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोणिच् स्यात् । भवन्तं प्रेरयति भावयति ।"-पा० सिद्धान्तकौ० ।
पृ० ६२ पं० ३, १९. नामकायः। दृश्यतां टिपृ० ३९ पं० ८।
पृ० ६२ पं० ७. चैतसिक्या । “चैतसिका धर्माः चित्तविप्रयुक्ताश्च संस्काराः संस्कारस्कन्ध इत्युच्यते।"-15 अभिधर्मसमु. पृ० ५।
पृ० ६३ पं० १-४. कल्पना 'ज्ञानवत् । दृश्यतां पृ० १०८ पं० २१ । पृ० ६३ पं० ५. दिनभिक्षोः । दृश्यतां पृ० ५४७ टि० ९॥
पृ० ६३ पं० २३. तदग्रहे तद्बुद्धयभावात् । समूहिनामणूनामग्रहे समूहबुद्धयभावादित्यर्थः । दृश्यता पृ० ९२ पं० २३। न्यायवा० १।१।१४।
20 पृ० ६३ पं० २६. गुणानां । "तथा च शास्त्रानुशासनम्-गुणानां परमं रूपं ......।" इति योगभाष्ये ४॥१३॥ तेषां पश्चाद् विशेषाभावात् । कश्च तावदीश्वरस्य इयता सर्गप्रयासेनार्थः? यदि प्रीतिः, तां तर्हि नान्तरेणोपाय शक्तः कर्तमिति न तस्यामीश्वरः स्यात् । तथैव चान्यस्मिन् । यदि चेश्वरो नरकादिषु प्रजा बहभिश्चेतिभिरुपसृष्टां सृष्टा तेन प्रीयते नमोऽस्तु तस्मै तादृशायेश्वराय । सुगतिश्चायं तमारभ्य श्लोको भवति-'यन्निर्दहति यत् तीक्ष्णो यदुनो यत् प्रतापवान् । मांसशोणितमजादो यत् ततो रुद्र उच्यते ॥ इति । एक खल्वपि जगतः कारणं परिगृह्नता अन्येषामर्थानां प्रत्यक्षः पुरुषकारो निहुतः स्यात् । सहापि च कारणैः कारकमीश्वरं कल्पयता केवलो भक्तिवादः स्यात् , कारणेभ्योऽन्यस्य तदुत्पत्ती व्यापारदर्शनात् । सहकारिषु चायेषु कारणेष्वीश्वरो नेश्वरः स्यात् । अथादिसर्ग ईश्वरहेतुकः, तस्याप्यन्यानपेक्षत्वादीश्वरवदनादित्वप्रसङ्गः। एवं प्रधानेऽपि यथायोगं वाच्यम् । तस्माद् न लोकस्यैकं कारणमस्ति । स्वानि एवैषां कर्माणि तस्यां तस्यां जातौ जनयन्ति । अकृतबुद्धयस्तु वराकाः खं खं विपाकफलं चानुभवन्त ईश्वरमपरं मिथ्या परिकल्पयन्ति । गतमेतद् यत्तु खलु तदुक्तं 'द्वाभ्यामन्ये तु जायन्ते' इति ।" इति [ विद्वद्वर्यश्रीप्रह्लादप्रधानमहोदयानां सौजन्यात् समुपलब्धे हस्तलिखिते ] वसुबन्धुविरचितेऽभिधर्मकोशभाष्ये ।
१ धर्माणां प्रविषयमन्तरेण नास्ति क्लेशानां यत उपशान्तयेऽभ्युपायः। क्लेशैश्च भ्रमति भवार्णवेऽत्र लोकस्तद्धेतोरत उदितः किलैष शास्त्रा ॥१॥३॥ यतो न विना धर्मप्रविचयेनास्ति क्लेशोपशमाभ्युपायः । क्लेशाश्च लोकं भ्रामयन्ति संसारमहार्णवेऽस्मिन् । अतस्तद्धेतोः तस्य धर्मप्रविचयस्यार्थे शास्त्रा किल बुद्धेन अभिधर्म उक्तः । न हि विना धर्मोपदेशेन शिष्यः शक्तो धर्मान् प्रविचेतुमिति । स तु प्रकीर्ण उक्तो भगवता, भदन्तकात्यायनीपुत्रप्रभृतिभिः पिण्डीकृत्य स्थापितो भदन्तधर्मत्रातोदानवर्गीकरणवदित्याहुर्वैभाषिकाः ।” इति [विद्वद्वरश्रीप्रह्लादप्रधानमहाशयानां सौजन्यादधिगते हस्तलिखिते ] अभिधर्मकोशभाष्ये। २ “गुणानां सत्त्वरजस्तमसा परमं प्रधानलक्षणं रूपं न दृष्टि पथमृच्छति । यत्तु रूपं महदादि दृष्टिपथप्राप्तं तद् मायेव सुतुच्छकम् ।"-न्यायकुमु० पृ० ६३०।
1 Principal, Fakir Mohan College, Balasore, Orissa,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org