________________
पृ० ६० ५० १५.]
टिप्पणानि । पृ० ५९ पं० २४. तेनैव । विशेषैकान्तवादिना बौद्धेनैवेत्यर्थः ।
पृ० ६० पं० १. निरूपणानुस्मरण । “संवितर्कविचारा हि पञ्च विज्ञानधातवः । अन्त्यास्त्रयस्त्रिप्रकाराः शेषा उभयवर्जिताः ॥ निरूपणानुस्मरणविकल्पेनाविकल्पकाः । तौ प्रज्ञा मानसी व्यग्रा स्मृतिः सर्वैव मानसी ॥"-अभिधर्मको १३३२-३३॥ एतच्छ्रोकद्वयस्य व्याख्या तु स्वोपज्ञभाष्यात तट्टीकातश्चावगन्तव्या।
पृ० ६० पं० ७. विशेषणविशेष्ययोः । “विशेषणं विशेष्यं च सम्बन्धं लौकिकी स्थितिम् । गृहीत्वा संकलय्यैतत् । तथा प्रत्येति नान्यथा ॥"-प्रमाणवा० २।१४५।
पृ०६० ५० १४. रूपालोक । दृश्यताम् अनेकान्तजयपताका ७० पृ० १।२२८। प्रमाणमी० पृ० १६। “मनस्कारः कतमः? चेतस आभोग आलम्बनचित्तधारणकर्मकः ।"-अभिधर्मसमु० पृ० ६।
पृ० ६० पं० १५. चक्षुः प्रतीत्य । “चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम् । तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ॥ १२॥ तत्र 'निर्वतको हेतुः' इति लक्षणात् यो हि यस्य निर्वर्तको बीजभावेनावस्थितः स तस्य हेतुप्रत्ययः।10 उत्पद्यमानो धर्मो येनालम्बनेन उत्पद्यते स तस्यालम्बनप्रत्ययः । कारणस्यानन्तरो निरोधः कार्यस्योत्पत्तिप्रत्ययः, तद्यथा बीजस्थानन्तरो निरोधोऽङ्कुरस्योत्पादप्रत्ययः । यस्मिन् यद् भवति तत् तस्याधिपतेयमिति त एते चत्वारः प्रत्ययाः।"मध्यमकवृ० पृ. ७६-७७। दृश्यतां ब्रह्मसूत्रशांकरभाष्यभामती २।२।१९ । सर्वदर्शनसं० । अभिधर्मसमु० पृ. २८
पृ०६० ५० १५. समनन्तरनिरुद्धं...| "षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः।"-अभिधर्मको० १.१७॥
माहारमुपयुञ्जानस्य प्रयत्नः । यदि प्रयत्न[:] प्रधानम् , विनापि यागादिनाभ्युदयः स्यात् । नैतत् , असति चाभावात् [वै० सू० ६।२।११], असति यागाद्यनुष्ठाने प्रमेयमात्रस्य भावादभ्युदयः क्रियोपदेशवैयर्थ्यात् (2)। इदानीं निःश्रेयसहेतुं धर्ममाह - सुखादागः [वै० सू० ६।२।१२ ], स्त्र्यादिविषयजनितात् सुखादेव रागो वर्धते । तन्मयत्वात् [वै० सू० ६।२।१३ ], थैरप्यसुखहेतुभिः शरीरं भावितं [P. पृ० २५ A] तन्मय इवास्ते । ततस्तन्मयत्वाद् रागः । किञ्च, तृप्ते [ वै. सू० ६२
प्तो भवति तदास्य तृप्तिनिमित्तो रागो भवति शरीरपुष्टेः । किञ्च, अदृष्टात् [वै० सू० ६।२।१५], अपूर्वदृष्टेषु अनुपकारकेषु च कस्यचिदू रागो जायतेऽत्रादृष्ट एव कारणम् । किञ्च, जातिविशेषाञ्च रागविशेषः [वै० सू० ६।२।१६ ], यथा तिरश्चां तृणादिभोजने एवं जातिविशेषादपि रागः । सुखादिभ्यो रागो दुःखादिभ्यो द्वेषः, तत इच्छाद्वेषपूर्षिका धर्माधर्मयोः प्रवृत्तिः [वै० सू० ६।२।१७], इच्छापूर्विका धर्मे प्रवृत्तिः, अन्येन धनमदादभिभूतस्य वा द्वेषपूर्विकापि ग्रामकामेष्टयादौ । अधर्मेऽपीच्छा[पूर्विका ?] परदारादिषु द्वेषपूर्विका । एवं धर्माधर्मयोः सञ्चयः । यत एवं ततः संयोगो विभागश्च [वै० सू० ६।२।१८ ], सञ्चितौ यदा धर्माधौं भवतः तदा शरीरेन्द्रियैः संयोगो जन्माख्यो भवति, क्षीणयोश्च तयोर्मरणकाले वियोगः । पुनरप्याभ्यां धर्माधर्माभ्यां शरीरादिसंयोगो विभागश्चेत्येवमनादिरयं घटीयन्त्रवदावर्तते जन्तुः । एतद्विपरीतक्रमेणोच्यते, तथाहि - आत्मकर्मसु मोक्षो व्याख्यातः [वै० सू० ६।२।१९ ], आत्मेति मनः, मनःकर्मसु तदभावे संयोगाभावोऽप्रादुर्भावश्च स मोक्षः इति मोक्षो व्याख्यातः । षष्ठोऽध्यायः।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ० १५-२५ । दृश्यतां टिपृ० ८ पं० २२ ।
१“कति अवितर्का अविचाराः ? 'सवितर्कविचारा हि पञ्च विज्ञानधातवः' । नित्यमेते वितर्कविचाराभ्यां सम्प्रयुक्ताः। अवधारणार्थो हिशब्दः । 'अन्त्यास्त्रयस्त्रिप्रकाराः'। मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्चान्त्याः। एते त्रयस्त्रिप्रकाराः । तत्र मनोधातुर्मनोविज्ञानधातुः सम्प्रयुक्तश्च धर्मधातुरन्यत्र वितर्कविचाराभ्यां कामधातौ प्रथमे च ध्याने सविताः सविचाराः । ध्यानान्तरेऽवितर्काविचारमात्राः। द्वितीयाद् ध्यानात् प्रभृति आभवाग्राद् अवितर्का अविचाराः ।..........। 'शेषा उभयवर्जिताः' ॥१॥ ३२ ॥ दश रूपिणो धातवः शेषा नित्यमवितर्का अविचारा असम्प्रयोगित्वात् । यदि पञ्च विज्ञानकायाः सवितर्काः सविचाराः कथमविकल्पका इत्युच्यते ? निरूपणानुस्मरणविकल्पेनाविकल्पकाः। त्रिविधः किल विकल्पः खभावाभिनिरूपणानुस्मरणविकल्पः । तदेषां स्वभावविकल्पोऽस्ति, नेतरौ, तस्मादविकल्पका इत्युच्यन्ते यथा एकपादोऽश्वोऽपादक इति । तत्र खभावविकल्पो वितर्कः । स चैतेषु पश्चान्निर्देक्ष्यते । इतरौ पुनः किंस्वभावौ ? यथाक्रमं 'तौ प्रज्ञा मानसी व्यग्रा स्मृतिः सर्वैव मानसी ॥ १।३३ ॥ मनोविज्ञानसम्प्रयुक्ता प्रज्ञा मानसीत्युच्यते । असमाहिता व्यग्रेत्युच्यते । सा ह्यभिनिरूपणाविकल्पः।
1 (मुपभुजानस्य ?)। 2 योगा-वृ०। 3 असति भावात् -वृसू०। 4 'असति यागाद्यनुष्ठाने न प्रयत्नमात्रस्य भावादभ्युदयः क्रियोपदेशवयात्' इति पाठोऽत्र समीचीन इति भाति। 5 (यैरपि सुखहेतुभिः?)16व्याख्यातः। षष्ठोऽध्यायः।-सू०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org