________________
३६
न्यायागमानुसारिणीवृत्त्यलङ्कृत्तस्य नयचक्रस्य [ पृ० ५९ ०२२
पृ० २३ B ] न ह्यन्यदीया आत्मगुणा अन्यदीयात्मगुणानां कारणं भवन्ति । तत्र अदुष्टभोजनात् समभिव्याहारतोऽभ्युदयः [ वै० सू० ६ |१|८ ], अदुष्टं ब्राह्मणं भोजयित्वा तदीयादाशीर्वादादिसमभिव्याहारात् पुरुषाभ्युदयः । तत्कारणं धर्मों भवतीत्यर्थः । तद् दुष्टभोजने न विद्यते [वै० सू० ६।१1९ ], सत्यप्याशीर्वादादिवचने दुष्टं ब्राह्मणं भोजयित्वा अभ्युदयो न प्राप्यते । अथ को दुष्टः ? दुष्टं हिंसायाम् [वै० सू० ६1१1१० ], परस्य हिंसायां शारीरमानसदुःखरूपाय प्रवृत्तं दुष्टं जानीष्व । हिंसाशब्द उपलक्षणम्, यतः समभिव्याहारतो दोषः [वै० सू० ६1१1११ ], कृतमहापातकस्य संभाषणमात्रादेव दोषेण युज्येत, किमुत भोजनादिना ? ईह समभिव्याहारः सम्भाषणम्, पूर्वत्राशीर्वादः । तददुष्टे न विद्यते [वै० सू० ६११।१२ ], तत् समभिव्याहारदूषणं हिंसादिरहिते ब्राह्मणे न विद्यते । अदुष्टेऽपि विशिष्टे प्रवृत्तिः [ वै० सू० ६।१।१३], न हिंसादिमात्ररहिते, अपि तु देशकालविज्ञानाचारैर्विशिष्टे ब्राह्मणेऽभ्युदयार्थिनः प्रवृत्तिः । ततः समे हीने चाप्रवृत्तिः [वै० सू० ६।१।१४ ], अदुष्टो ब्राह्मणो देशादियुक्तो विशिष्ट उच्यते । एषामेकेन गुणेन युक्तः समः । तौ त्यक्त्वा अन्यो दुष्टो वा क्षत्रियादिर्वा प्राणिमात्रं वा हीन उच्यते । तत्राभ्युदयेप्सोर्मन्त्रपूर्वके सुवर्णादिदाने वैशाख्यादिनिमित्ते समहीनयोरप्रवृत्तिः, अपि तु विशिष्टे । एतेन हीनसमविशिष्टधार्मिकेभ्यः परादानं व्याख्यातम् [ वै० सू० ६।१।१५], एतेन विपरीतेन क्रमेणापदि परखादानं व्याख्यातम् । उक्तं च
'हीनादादेयमादौ तु तदभावे समादपि । असम्भवे त्वाददीत विशिष्टादपि धार्मिकात् ॥'
तथा विरुद्धानां त्यागः [वै० सू० ६।१।१६], अनेनैव विपरीतक्रमेण ब्राह्मण [ P. पृ० २४A ] आत्मनो हीने रिपुभिर्मारणायाक्षिप्तस्तानेव शत्रूनभिहन्यात् । सम आत्मत्यागः परत्यागो वा [ वै० सू० ६।१।१७], आत्मनस्तुल्यगुणेन शत्रुणा प्राप्तस्य ब्राह्मणस्य विकल्पः - आत्मनो वध आततायिनो वा । विशिष्ट आत्मत्यागः [ वै० सू० ६।१।१८ ], आत्मनोऽधिकगुणेन शत्रुणा प्राप्तस्य आत्मन एव रिपुप्रयुक्तो वधोऽङ्गीकार्यः । इहात्मापेक्षया हीनादिव्यवहारः, प्रतिग्रहे प्रतिग्रहीतृणा अन्योन्यापेक्षश्चेति षष्ठस्याद्यमाह्निकम् |
एवं श्रुतिस्मृतिविधिभ्यो धर्मो भवतीत्युक्त्वा इदानीमेषां धर्मसिद्धौ प्रकारविशेषमाह । तथाहि - दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय [वै० सू० ६।२1१], श्रुतिस्मृति परिदृष्टानां स्नानादीनां दृष्टस्य मलापकर्षादेरनभिसन्धाने प्रयोगोऽभ्युदयाय भवति । के ते ? अभिषेचनोपवास ब्रह्मचर्यगुरुकुलवासवानप्रस्थयशदानप्रोक्षण दिनक्षत्रमन्त्रकालनियमाश्चादृष्टाय [वै० सू० ६।२।२ ], विशिष्टदेशकालापेक्षेण अम्भसा यः शरीरस्य संयोगस्तदभिषेचनं स्नानम् । नक्तंदिनं वासो नियमपूर्वोऽनाहाररूप उपवासः । ब्रह्मशब्देन आत्मा ब्रह्मणि चरणमात्ममनसोर्यः संयोगः रूयादि परिहाररूपो ब्रह्मचर्यम्। विज्ञानाद्यर्थिनो गुरुचर्यापरस्य तद्गृहेषु वसनं गुरुकुलवासः । शस्त्रविधिना निःसृतोऽरण्यप्रस्थितो वानप्रस्थः, तस्य कर्म वानप्रस्थम् । यज्ञाः पाकयज्ञादयः । दानं सुवर्णादिदानमभयदानं च । प्रोक्षणं सन्ध्योपासनादि । दिङियमादयोऽन्ये विशेषाः । दिनियमः - प्राङ्मुखोऽन्नानि भुञ्जीत । नक्षत्रनियमः - कृत्तिकास्वादधीत । मन्त्रनियमः - देवस्य त्वे नर्व । कालनियमः - वसन्ते ब्राह्मणोऽमीनादधीत । एवमेतत् सर्वं दृष्टप्रयोजनतिरस्कारेण प्रयुज्यमानं धर्माय सम्पद्यत इति । तत्र चातुराश्रम्यमुपधाश्चानुपधाश्च [वै० सू० ६२/३ ], यदिदं चतुर्णामाश्रमिणां कर्म तदुपधया प्रयुज्यमानमधर्माय अनुपधातु धर्मा भवति । का उपधा ? भावदोष उपधा [ वै० सू० ६ २४ ], भावस्य अभिसन्धेर्दम्भादिदोष उपधेत्यर्थः । काऽनुपधा ? अदोषोऽनुपधा [वै० सू० ६/२/५ ], अभिसन्धेर्दम्भादिरहितत्त्वमनुपधेत्यर्थः । इष्टरूपरसगन्धस्पर्श प्रोक्षितभ्युक्षितं च तच्छुचि [वै० सू० ६ २६ ], स्मृतौ यस्य रूपादयो न निषिद्धास्तच्छुचि मन्त्रपूर्वकं प्रोक्षितं केवलाभिरद्भिरभ्युक्षितं च । एतद्विपरीतमशुचि । किञ्च, अशुचीति शुचिप्रतिषेधः [वै० सू० ६।२।७ ], यस्य चात्यन्तशुचिप्रतिषेधस्तदप्यशुचि वाग्दुष्टादिकम् । अर्थान्तरं च [६ २८ ], मद्यादि च यत् साक्षान्निषिध्यते तदप्यशुचि । ततः शुचि भोक्तव्यम् । ननु अयतस्य शुचिभोजनादभ्युदयो न विद्यते यमाभावात् [ वै० सू० ६ २/९ ], अस्य विशिष्टप्रयत्नरहितस्य शुचिमाहारं यदृच्छयोपयुञ्जानस्य अभ्युदयो नास्ति विशिष्टस्याभिसन्धेरभावात् । नैतत् । विद्यते चानर्थान्तरत्वाद्यमस्य [वै० सू० ६।२।१० ], न प्रयत्नव्यतिरेकी यमः, प्रयत्नाभावे सर्वस्याः क्रियाया अभावाद् विद्यते शुचि
1 सह वृ० । 2 प्रस्थायज्ञ - वृसू० । 3 शास्त्रविधिनान्निःसृतारण्यप्रस्थितो वानप्रस्थः वृ० । 'शास्त्रविधिना ग्रामा
निःसृतोऽरण्यं प्रस्थितो वनप्रस्थः' इत्यपि पाठः सम्भवेदत्र । 4 वानप्रस्थाम् - वृ० 15 मुपधाच्चानुपधाच्च वृसू० । 6 ° भ्युषितं - सू० वृसू० । 7 ( ° पभुञ्जानस्य ? ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org