________________
पृ० ५९ २० २२.] टिप्पणानि ।
३५ गुणान्तराप्रादुर्भावाच्च ध्यात्मकमपि न [वै० सू० ४।२।२ ], क्षितिसलिलानलैरारम्भे विलक्षणेभ्यो रूपादिभ्यः कार्ये विलक्षणानि रूपाणि गुणान्तराणि जायेरन् । न त्वेवम् । अपि तु पार्थिवानेव रूपादीनुपलभामहे । तस्मान्न त्र्यात्मकम् । आत्मसंयोगस्त्वविप्रतिषिद्धो मिथः पञ्चानाम् [वै० सू० ४।२।३ ], आत्मशब्देन स्वरूपम् , स्वरूपेण पञ्चानामपि भूतानां परस्परसंयोगो न प्रतिषिध्यते शरीरे, नारम्भकत्वेन । पार्थिवशरीरे जलादीनि संयोगीनि, न समवायीनि। जलादिभिरयोनिजमेव शरीरमारभ्यते वरुणलोकादौ । कुतः ? अनेकदेशपूर्वकत्वात् [वै० सू० ४।२।४ ], अनेकदेशाः परमाणवः, तैरेवारभ्यते जलादिशरीरम् , न शुक्रशोणिताभ्याम् । तच्च धर्मविशेषात् [वै० सू० ४।२।५], धर्मविशेषापेक्षाः परमाणव एव शरीरमारभन्ते न शुक्रादि । कथं हि पुण्यवतां शुक्रादिमयं शरीरं स्यात् । इतश्च, कार्यविशेषात् [वै० सू० ४।२।६ ], शलभा. दिशरीराख्यात् कार्यविशेषाद् मन्यामहे - सन्त्ययोनिजानि । इतश्च, समाख्याभावात् [वै० सू० ४।२।७], 'अङ्गारेभ्यो जातोऽङ्गिराः' इत्येवमादिसमाख्याभावाद् मन्यामहे-सन्त्ययोनिजानि । कुतः? संज्ञादिमत्त्वात् [वे. सू० ४।२।८], यतः प्रत्यक्षेण अङ्गारजन्मादिकमर्थं दृष्ट्रा [ P. पृ० १९ B] पुरुषैः प्रणीयन्ते संज्ञाः 'अङ्गिराः' इत्यादयः । अतः संज्ञानामादिमत्त्वात् समाख्या यथार्था । अतः सन्त्ययोनिजा वेदलिङ्गाच्च [वै० सू० ४।२।९] इति, 'चन्द्रमा मनसो जातः' इत्यादिकाच वेदलिङ्गात् सन्त्ययोनिजाः शरीरविशेषाः । एवं जलादिशरीरमयोनिजमेव । पार्थिवं तु योनिजमयोनिजं च । चतुर्थोऽध्यायः । समाप्तो द्रव्याधिकारः।।
...........[P. पृ० २२ B] ....."दिकालावाकाशं च क्रियावद्भयो वैधानिष्क्रियाणि [वै० सू० ५।२।२३ ], आकाश-काल-दिशोऽमूर्ताः क्रियावतः पृथिव्यादेरमूर्ततया वैधान्निष्क्रियाः, 'च'शब्दादात्मापि निष्क्रियः । एतेन कर्माणि गुणाश्च व्याख्याताः [वै० सू० ५।२।२४ ], एतेनामूर्तत्वेन गुणाः कर्माणि च निष्क्रियाणि, 'च'शब्दात् सामान्यादयः । निष्क्रियाणां समवायः कर्मभ्यः प्रतिषिद्धः [वै० सू० ५।२।२५], निष्क्रियाणामभिघातादीनां कर्म समवेतं न भवति स्वाश्रये कर्मजननात् । कारणं त्वसमवायिनो गुणाः [ वै० सू० ५।२।२६], यस्य गुणाः कारणमुक्ताः तस्यासमवायिन एव कारणम् । गुणैर्दिर व्याख्याता [वै० सू० ५।२।२७ ], 'पूर्वेण निष्क्रमणम्' इत्यादेः प्रत्ययमेदस्य दिग् निमित्तकारणं व्याख्याता, कारणत्वेनातिदेशो नासमवायित्वेन । कारणेन कालः [वै० सू० ५।२।२८] इति, येनैव कारणेन प्रत्ययभेदहेतुत्वेन दिग् व्याख्याता तेनैव 'युगपत् कृतम्' इत्यादिप्रत्ययभेदस्य कालो निमित्तकारणं व्याख्यातः । पञ्चमोऽध्यायः । समाप्तः कर्माधिकारः।
___ कर्माणि व्याख्याय गुणा व्याख्यायन्ते । तत्र धर्म आदौ व्याख्यायते, शास्त्रादौ तस्योद्दिष्टत्वात् । तस्य वैदिको विधिः साधनम् । वेदस्य सत्यता कुत इति चेत् , [P. पृ० २३ A ] यतः बुद्धिपूर्वा वाक्यकृतिवेदे [ वै० सू० ६।१।१], 'अग्निहोत्रं जुहुयात् खर्गकामः' इत्येवंभूता रचना भगवतो महेश्वरस्य बुद्धिपूर्वा या अतः प्रमाणम् , आप्तप्रणीतत्वस्य सत्यताव्याप्तेः । अतीन्द्रियमशक्यं ज्ञातुमिति चेत्, न चास्मबुद्धिभ्यो लिङ्गमृषेः [वै० सू० ६।१।२ ], लिङ्गयतेऽनेनार्थ इति लिङ्ग विज्ञानम् । न हि यादृशमस्मद्विज्ञानं वर्तमानाव्यवहितसम्बद्धार्थविषयं तादृशमेव भगवतो विज्ञानम् । अतः सम्भवति भगवतोऽतीन्द्रियार्थविषयं विज्ञानम् । स कथं ज्ञायते ? तथा ब्राह्मणे संज्ञाकर्मसिद्धिलिंडम वै० स० ६.१1३1 विनोपदेशेन ब्राह्मणादिकमर्थमस्माकमालोचयतां प्रत्यक्षेण न 'ब्राह्मणोऽयम्' इति ज्ञानमुत्पद्यते । प्रत्यक्षेण चार्थमालोच्य संज्ञाप्रणयनं दृष्टं पुत्रादिषु । सन्ति चैता ब्राह्मणादिसंज्ञास्ताः येन प्रत्यक्षमर्थमालोच्य प्रणीता इति सूत्रार्थ वर्णयन्ति । अतः बुद्धिपूर्वो ददातिः [वै० सू० ६।१।४ ], यत एव परमेश्वरस्य कृतिर्वेदादौ वाक्यपदरचनाऽतोऽयं स्मार्तोऽपि दानादिविधिः तदीयमाम्नायमनन्तशाखाभिन्नमालोच्य संक्षेपमनुमन्यमानानां भृगुप्रभृतीनां बुद्धिपूर्वः । एवं दानादिविधयो धर्महेतवः । तथा प्रतिग्रहः [ वै. सू. ६।१।५]. तथैव प्रतिग्रहोऽपि प्रक्षीणवृत्तेरवदातजन्मनः प्रतिग्रहानुरूपगुणयुक्तस्य धर्मायैव भवति । तयोःक्रमो यथाऽनितरेतराङ्गभूतानाम् [वै० सू० ६।१।६], यथा भूतानि अनितरेतराङ्ग न परस्परेण कार्यकारणभूतानि, न हरणी अग्नेः कारणम् , अपि तु स्वावयवा एव, अथ च अरण्योरग्नेश्च क्रमः । एवमेतयोः पूर्वं दानधर्मः पश्चात् प्रतिग्रहधर्मः, न तु कार्यकारणभावः । कुतः ? आत्मगुणेषु आत्मान्तरगुणानामकारणत्वात् [वै० सू०६।१।७], [P.
1 शरीरेणारम्भकत्वेन-वृ०। 2 पश्चमाध्यायस्य प्रथमाहिकं द्वितीयाह्निकस्य चाचानि १३ सूत्राणि चन्द्रानन्दकृतवृत्त्या सह 'पृ० ४८१ टि०१२' इत्यत्र विलोकनीयानि । १४ तः २२ पर्यन्तानि सूत्राणि तु 'पृ० ४३८ टि. ९' इत्यत्र विलोकनीयानि । 3 एतेन मूर्तस्वेन-वृ०। 4 कारणेन कालः । पञ्चमोऽध्यायः।-सू०। 5 बुद्धिपूर्वा याऽतः-वृ०। अत्र 'बुद्धिपूर्वा अतः' इत्यपि भवेत् पाठः। 6 °नातोयं स्मातेपि-वृ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org