________________
३४
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य
[ पृ० ५९ ०२२
करणत्वात् सुखादय आत्मविषयाः प्राणादयश्च तन्निमित्ताः । ननु सुखदुःखज्ञाननिष्पत्यविशेषादेकात्म्यम् [ वै० सू० ३।२१५], यथा सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाश्चैको भावः तथैव सुखदुःखज्ञानानां निष्पत्त्यविशेषाद् विशेषलिङ्गाभावाच्चैकारम्यम् । नैतत्, नाना व्यवस्थातः [ वै० सू० ३।२।१६ ], अन्यस्य सुखादियोगेऽन्यस्य तदभावादनया व्यवस्थया नाना आत्मानः । शास्त्रसामर्थ्याच्च [वै० सू० ३।२।१७] इति, 'ग्रामकामो यजेत, स्वर्गकामो यजेत' इत्यतोऽपि शास्त्र - सामर्थ्याद् नाना आत्मानः । तस्य गुणाः बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नादृष्टसंस्कारा वैशेषिकाः । अन्ये तु संख्यापरिमाणपृथक्त्वसंयोगविभागाः । तृतीयोऽध्यायः ।
एवं द्रव्याण्युक्त्वा नित्यत्वमुपलब्ध्यनुपलब्धी च तेषु कथयति प्रसङ्गादन्यत्-सदकारणवत् तन्नित्यम् [वै० सू० ४।१।१ ], अद्रव्यवत्त्वादित्यनेन यत् सत् कारणरहितं तद् नित्यमुक्तं परमाण्वादि । उपलब्धौ तु तस्य कार्य लिङ्गम् [वै० सू० ४।१।२ ], तस्य परमाण्वादेरिन्द्रियैरगृह्यमाणस्यापि शरीरमहाभूतादि कार्यं लिङ्गम् । यतः कारणभावाद्धि कार्यभावः [ वै० सू० ४।१।३ ], यस्मात् कारणेभ्यस्तन्त्वादिभ्यः पटादि कार्यमुत्पद्यते त[स्मा]त् कार्यस्य कारणपूर्वकत्वात् कारणस्य कार्यं लिङ्गम् । अनित्यमिति च विशेषप्रतिषेधभावः [ वै० सू० ४|१|४], यदा खलु 'सर्व कार्यमनित्यम्' इत्युच्यते तदानेन नित्यत्वस्य विशेषप्रतिषेधेन कार्यविषयेण किञ्चित् कारणं नित्यमिति ज्ञायते । अविद्या च [ वै० सू० ४।१।५ ], अविद्या अग्रहणमतीन्द्रियत्वेन परमाणूनाम्, तदपि [ अ ] नित्यत्वं निवारयति । अदृश्यमाने हार्थे तद्गतमनित्यत्वं केन गृह्येत ? तस्मान्नानित्यता वक्तुं शक्या । उपलब्धिः कथमिति चेत्, महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः [ वै० सू० ४।१।६ ], महत्त्वपरिमाणसमवायिनि [P पृ० १८ B ] द्रव्ये समवायिकार णद्रव्यबहुत्वाद् रूपाश्च शुक्कादेर्ज्ञानं भव एतत् ? यतः अद्रव्यवत्त्वात् परमाणावनुपलब्धिः [ वै० सू० ४।१।७ ], सत्यपि रूपे परमाणोः समवायिकारणद्रव्याभावान्नोपलब्धिः । रूपसंस्काराभावाद् वायावनुपलब्धिः [वै० सू० ४ ११८ ], सत्यपि अनेकद्रव्यवत्त्वे महत्त्वे च रूपाख्यस्य संस्कारस्याभावाद् वायावनुपलब्धिः । अनेकद्रव्यताया विशिष्टाया अग्रहणात् द्व्यणुकेऽपि अनुपलब्धिः सिद्धा । रूपे कथम् ? अनेकद्रव्येण द्रव्येण समवायाद् रूपविशेषाञ्च्चोपलब्धिः [ वै० सू० ४ १९ ], महता अनेकद्रव्यसमवायिद्रव्येण पटादिना रूपगुणस्य समवायाद् रूपविशेषाच्च रूपत्वाख्यात् सामान्यविशेषादुपलब्धिः । एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् [वै० सू० ४।१।१० ], एतेन अनन्तरोक्तेन न्यायेन अनेकद्रव्येण द्रव्येण समवायाद् रसत्वादिसामान्यविशेषेभ्यश्च रसादीनामुपलब्धिः । तदभावादव्यभिचारः [वै० सू० ४19199 ], परमाणुरूपस्यानेकद्रव्येण द्रव्येण समवायाभावान्नोपलब्धिः, ततोऽनेकद्रव्येण [ द्रव्येण ] समवायस्य रूपोपलब्धेश्वाव्यभिचारः । संख्याः परिमाणानि *पृथक्त्वं संयोगविभाग परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाच्चाक्षुषाणि* [ वै० सू० ४।१।१२], [ रूपेण ] विशिष्टं रूपि, तेन उपलब्धियोग्येन रूपिणा समवायादेतानि चाक्षुषाणि स्वसामान्यविशेषेभ्यश्च । कुतः ? अरूपिष्वचाक्षुषत्वात् [वै० सू० ४।१।१३], यस्माद् रूपरहितेषु महत्सु द्रव्यान्तरेषु स्थितानि न ज्ञायन्ते । एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् [ वै० सू० ४।१।१४], यथैव महत्यनेकद्रव्येण समवायाद् रूपादीनां समवेतानामुपलब्धिरेवं महति समवेतेषु गुणेषु समवेतयोर्गुणत्वभावयोः तैस्तैर्गुणैः रूपादिभिः समवायाद् यथास्वं चक्षुरादीन्द्रियैरुपलब्धिः, नैं तु सामान्यविशेषेषूपलम्भकास्तदभावात् । एवं तत्वादीनां स्वैरिन्द्रियैः, द्रव्ये तु भावस्य समवायात् । [P पृ० १९A ] कर्मणि समवेतसमवायाद् गुणवत् । चतुर्थस्याद्यमाह्निकम् ।
इदानीमाध्यात्मिकमेषां कार्यमुच्यते, तत्र प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य पञ्चात्मकं न विद्यते [वै० सू० ४।२1१ ], क्षित्यादिपञ्चकेन शरीरारम्भे त्रयाणां प्रत्यक्षत्वाद् वायोरप्रत्यक्षत्वाद् यथा तद्वत संयोगोऽप्यप्रत्यक्ष एवं शरीरमप्रत्यक्षं स्यात् प्रत्यक्षाप्रत्यक्षैरारब्धत्वात् । प्रत्यक्षत्वात्तु मन्यामहे - न पञ्चभिरारब्धमिति । ननु त्रिभिः प्रत्यक्षैरारभ्येत,
1 °षादैक्यम् - वृसू० । 2 शास्त्रसामर्थ्याच्च । तृतीयोऽध्यायः- सू० । 3 सर्वकामो - वृ० । 4 °मिति न विशेषे प्रतिवृसू० । अनित्यमिति च विशेषतः प्रतिषेधभावः - ब्रह्मसूत्रशाङ्करभा० २।२।१५। 5 °षयेन वृ० । 6 अग्रहणातुण्डकेsपि - वृ० । ( अग्रहणात् त्र्यणुकेऽपि ? ग्रहणात् त्र्यणुकेऽपि ? ) । 7 अनेकद्रव्येण समवायाद् - सू० । 8 * * एतच्चिह्नान्तर्गत: पाठो नास्ति वृसू० मध्ये | 9 महत्सु वाद्यन्तरेषु - वृ० । 10 सार्वेन्द्रियज्ञानं - वृसू० । 11 व्याख्यातम् । चतुर्थस्य प्रथममाह्निकम् । सू० । 12 ( न तु सामान्यविशेषाः सामान्यविशेषेषूप लम्भकास्तदभावात् ? न तु सामान्यविशेषा उपलम्भकास्तदभावात् ? न तु सामान्यविशेषेभ्यस्तदभावात् ? ) । 13 तत्वादीनां वृ० 14 प्रत्यक्षाप्रत्यक्षाभ्यामप्रत्यक्षत्वात्पंतचात्मकं न विद्यते - वृ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org