________________
पृ० ५९ पं० २२.]
टिप्पणानि। ___उक्त आत्मेन्द्रियमनोर्थसन्निकर्षो ज्ञानहेतुः, तत्सिद्धयर्थं मनः कथयति-आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश्च मनसो लिङ्गम् [वै० सू० ३।२।१], आत्मेन्द्रियार्थानां सन्निकर्षे यदभावाज्ज्ञानं न भवति यद्भावे च भवति तद् मनः । एवं ज्ञानोत्पत्त्यनुत्पत्ती मनसो लिङ्गम् । गुणाः संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्काराः । द्रव्यत्वनित्यत्वे वायुना व्याख्याते [वै० सू० ३।२।२], यथा अद्रव्यवत्त्वात् परमाणुवायोर्द्रव्यत्वं नित्यत्वं च एवं मनसः। प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकं मनः [वै० सू० ३।२।३], बहुषु कार्येषु ज्ञेयेषु च युगपत् प्रयत्ना ज्ञानानि वा न प्रादुर्भवन्तीत्यतः प्रयत्नज्ञानायौगपद्यादेकं मनः प्रतिशरीरं मूर्तमस्पर्श निरवयवं नित्यमणु आशुचारीति । प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्चेत्यात्मलिङ्गानि [वै० सू० ३।२।४], प्राणापाननिमेषोन्मेषा मनोगतिश्च प्रयत्नकार्यत्वादात्मनो लिङ्गम् , जीवनमदृष्टकार्यत्वात् , इन्द्रियान्तरविकाराः स्मृतिप्रभवत्वात् , सुखादयो गुणत्वात्। तिर्यक्पवनस्य वायोर्देहस्थितस्य यत् प्राणापानकर्म तत् प्रयत्नकार्यम् , शरीरपरिगृहीतवायुविषयत्वे सति विकृतत्वात् , भस्त्रापरिगृहीतवायुकर्मवत् । निमेषोन्मेष क्रियापि प्रयत्नकार्या, निमेषोन्मेषक्रियाशब्दवाच्यत्वात् , दारुयन्त्रनिमेषोन्मेष क्रियावत् । मनसा संयोग आत्मनोऽदृष्टापेक्षो जीवनम् , शरीरवृद्धयादि तत्कार्यमपि जीवनम् , शरीरं प्रयत्नवताधिष्ठितम् , वृद्धिक्षतभग्नसंरोहणनिमित्तत्वात् , जीर्णगृहवत् । इन्द्रियान्तरं प्रति मनसो गमनं मनोगतिः प्रयत्नकार्या, अभिमतप्रदेशसम्बन्धनिमित्तत्वात् , पेलकक्रियावत् , [P पृ० १७ A] सा हि दारकप्रयत्नकृता । रूपालोचन-संस्कारव्यक्ति-रसस्मरण-प्रयत्न-मनःक्रिया-रसनमनःसम्बन्ध-रसनविकाराणां पूर्वस्य पूर्वस्य कारणत्वादुत्पत्तिः, ज्ञप्तिस्तु वैपरीत्येन, उत्तरोत्तरस्मात् पूर्वस्य पूर्वस्य स्मरणेन आत्मा अनुमीयते । न स्मृतिरिन्द्रियाणामन्येन दृष्टेऽर्थेऽन्यस्य । न शरीरावयवस्य, अवस्थाभेदेन भिद्यमानत्वात् । 'देवदत्तस्य रूपरसगन्धस्पर्शप्रत्यया एकानेकनिमित्ताः, 'मगा' इति प्रत्ययेन प्रतिसन्धानात् , कृतसङ्केतानां बहूनामेकस्मिन् नर्तकीभ्रूक्षेपे युगपदनेकप्रत्ययवत्' इति उद्दयोतकरः। सुखादयश्च गुणिसापेक्षाः, गुणत्वात् , रूपवत् । द्रव्यत्वनित्यत्वे वायुना व्याख्याते [वै० सू० ३१२।५], अद्रव्यवत्त्वात् परमाणुवायोरिव द्रव्यत्वनित्यत्वे । ननु च यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावाद दृष्ट लिङ्गन विद्यते [वै. सू. ३।२।६], यथा चाक्षुषार्थसन्निकर्षे सति यज्ञदत्तोऽयमिति प्रत्यक्षं भवति न तथा प्राणादिसुखादिसम्बद्धोऽयमात्मेति ज्ञानं जायते । अथ कथमदृष्टसम्बन्धं प्राणादि आत्मनो लिङ्गम् ? तदाह-न प्राणादि दृष्टं लिङ्गम् । सामान्यतो दृष्टाच्चाविशेषः [वै० सू० ३।२।७], प्राणादीनां निनिमित्तानां सुखादीनां चानाश्रितानामनुत्पत्तिः, अत एषां केनापि निमित्तेनाश्रयेण भाव्यम् , इत्यतोऽपि सामान्यतो दृष्टादाकाशादीनामनिरासादविशेषः, तेषामपि हेतुत्वसम्भवात् । तस्मादागमिकम् [वै. सू. ३।२।८ ], 'आत्मास्ति' इति प्रवादमात्रमित्यर्थः । नैतत् , अहमिति शब्दव्यतिरेकान्नागमिकम् [वै० सू० ३।२।९ ], अहमिति शब्देन क्षिल्यादिभिन्नात्मद्रव्यविषयेण ऐकाधिकरण्यात् 'अहं प्राणादिमान , अहं सुखवान्' इति । तस्मात् प्राणादिलिङ्गत्वान्नागमिकम् । ननु च यदि चं दृष्टप्रत्यक्षोऽहं देवदत्तोऽहं यज्ञदत्त इति [वै० सू० ३।२।१०], [P पृ० १७ B] यदि खल्वहं देवदत्तोऽहं यज्ञदत्त इत्यात्मनि दृष्टप्रत्यक्षमिदं भवेत् एवं युज्येत अहंशब्दस्यात्मवाचकत्वम् , यावता शरीराभिधायकदेवदत्तशब्दैकार्थाधिकरणत्वादहंशब्दोऽपि शरीरवाचकः । तस्मान्न प्राणादिसुखादीन्यात्मनिर्णयहेतुः । देवदत्तशब्दः कथं शरीर इत्याह-देवदत्तो गच्छति विष्णुमित्रो गच्छतीति चोपचाराच्छरीरप्रत्यक्षः [वै० सू० ३।२।११], गमनवाचिना 'गच्छति' इति शब्देन सहप्रयोगाद् देवदत्तशब्दः शरीरवचनोऽवसीयते आत्मनो गत्यसम्भवात् । तस्मादहंशब्दोऽपि शरीर एव देवदत्तशब्देन सह दृष्टत्वात् । नैतत् , सन्दिग्धस्तूपचारः [वै० सू० ३।२।१२], देवदत्तशब्देन एकार्थाधिकरणत्वाद् योऽयमुपचारोऽहंशब्दस्य शरीरे स सन्दिग्धः, किं शरीरस्य आत्मोपकारकत्वादहंशब्द आत्माभिधायक उपचरित उत मुख्यतया शरीरस्याभिधायकः? इति न शरीरात्मनोरहंशब्दस्य निश्चयः । स्वपक्षे निश्चयमाह-अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः [वै० सू० ३।२।१३], प्रत्यगात्मनीति आत्मनि, परत्रेति शरीरे। यदि अहंशब्दः शरीरवचनः स्यात् एवं सति तस्मिन् पिण्डे देवदत्तशब्द इव सर्वैः प्रयुज्येत । न त्वेवम् , अत आत्मनि अर्थान्तरे 'अहं'शब्दः प्रत्यक्षः । शरीरे इव आत्मन्यपि परैरप्रयोगान्न स्यादिति चेत् , अत आह-न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्रयोनिविशेषः [वै० सू० ३।२।१४ ], यज्ञदत्तविष्णुमित्रसम्बन्धेन शरीरविशेषाद् यथा दृष्टाद् न तदीये सुखादावस्मदादीनां जायते ज्ञानं तथैव न तदीयाहङ्कारोऽस्माभिः संवेद्यते यतोऽहंशब्दः प्रयुज्येत । शरीरवाचकत्वे तु यथा शरीरं दृष्ट्वा तत्र देवदत्तं प्रयुञ्जते तद्वदिममपि प्रयुञ्जीरन् , [P पृ० १८ A] न त्वेवम् । तस्मान्न शरीरे । आत्मवृत्तित्वे तु परैरप्रयोगः । एवमहंशब्देन एकाधि
1 दृश्यता न्यायवा० १११० । नयचक्रवृ० पृ० ५४७ पं० १६। 2 'चक्षुषा अर्थसन्निकर्षे' इति पाठोऽत्र शोभनो भाति। 3 वाच्यम्-वृ०॥ 4 चादृष्ट-सू०। 5 सुखादीनां निर्णयहेतुः-वृ०। 6 ननु शरीर-सू० वृसू० ।
- नय०टि० ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org