________________
न्यायागमानुसारिणीवृत्त्यलकृतस्य नयचक्रस्य [पृ० ५९ पं० १६पृ० ५९ पं० १६. 'तस्याः ' इति पञ्चम्यन्तं पदम् । दृश्यतां पृ० ६० पं० १२॥
पृ० ५९ पं० २१. श्रोत्रादिवृत्तिः प्रत्यक्षम् [षष्टित०] । अत्र 'षष्टित०' इति सन्दिग्धम् । वार्षगण्यस्य हि मतमेतम् । वार्षगण्यस्य च ग्रन्थः षष्टितन्त्र'नाम्ना प्रसिद्धो वार्षगणतन्त्रनाम्ना वेति निश्चितं वक्तं न प्रभवामः 'गुणानां परमं रूपम्......' [पृ० ६२ पं० २५] इत्यस्य टिप्पणम् । पृ. ३२४ पं० १२ इत्यत्र वार्षगणतन्त्रस्योल्लेखोऽपि 5 नयचक्रवृत्तौ दृश्यते । "श्रोत्रादिवृत्तिरिति वार्षगणाः"-सांख्यका० युक्ति दीपिका पृ० ३९। “वार्षगण्यस्यापि लक्षणमयुक्तमित्याह-श्रोत्रादिवृत्तिरिति। पञ्चानां खल्विन्द्रियाणामकारेण परिणतानामालोचनमात्रं वृत्तिरिष्यते। सा च संशयादिव्यापकत्वादलक्षणमिति ।"-न्यायवा० तात्प० १।१।४। "श्रोत्रादिवृत्तिरविकल्पिका इति विन्ध्यवासिप्रत्यक्षलक्षणम् ।"सन्मतिवृ. पृ० ५३३। “श्रोत्रादिवृत्तिरविकल्पिका प्रत्यक्षमिति वृद्धसांख्याः ।"-प्रमाणमी० १।१।२९। 'श्रोत्रादिवृत्तिरवि
कल्पिका' इति लक्षणं न्यायमञ्जर्या तत्त्वोपप्लवसिंहेऽपि च उद्धृतं सांख्यमतनिर्देशावसरे । 10 पृ० ५९ पं० २२. आत्मेन्द्रिय । वैशेषिकसूत्रे तृतीयेऽध्याये प्रथमाह्निके त्रयोदशं सूत्रमिदम् । दृश्यतां
टिपृ०८पं० २२।
१ “एवं दिगन्तानां वैधर्म्यमुक्त्वा आत्मानमुपक्रमते-[P पृ० १५ B] प्रसिद्धा इन्द्रियार्थाः [वै० सू० ३।१।१], शब्दादयो यस्माद् गुणादिखभावाः सिद्धाः, तेभ्यश्चेन्द्रियाणि, अत इदानीम् इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरत्वे हेतुः [वै० सू० ३।१।२ ], ग्राह्याणामर्थानां शब्दादीनां येयं प्रसिद्धिः तया च श्रोत्रादीनां करणानाम् अनया इन्द्रियार्थप्रसिद्धया एभ्यो ग्राह्यग्रहणेभ्यः इन्द्रियार्थेभ्यः परो ग्रहीता आत्मा अनुमीयते। सोऽनपदेशः [वै० सू० ३।१।३], ग्राह्यग्रहणप्रसिद्ध्याख्यो ग्रहीतृसद्भावे यो हेतुरुक्तः सोऽनपदेशः, अकारणमित्यर्थः । किमात्मकल्पनया ? कथमिन्द्रियाणि ग्रहीतुण्येव न भवन्ति ? नैतत्, कारणाशानात् [वै० सू० ३।१।४], भूतानामिन्द्रियकारणानामज्ञत्वात् तत्कार्याणीन्द्रियाण्यपि अज्ञानि । भूताज्ञानं कार्याशानात् [वै० सू० ३।१।५], अन्यस्य भूतकार्यस्य घटादेरज्ञत्वाद् भूतान्यप्यज्ञानि। अज्ञानाञ्च [वै० सू० ३।१।६], भूतानामज्ञानादिन्द्रियाण्यपि अज्ञानि इत्युपसंहारार्थमिदं सूत्रम् । अन्य एव हेतुरित्यनपदेशः [वै. सू० ३।१।७], अन्यो हेतुलक्षणबाह्य इत्यर्थः, तथाहि-इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थधर्मत्वादात्मना असम्बन्धान तमनुमापयेत् , अतोऽनपदेशः । नैतत्, संयोगि समवायि एकार्थसमवायि विरोधि च कार्य कार्यान्तरस्य कारणं कारणान्तरस्य विरोधि अभूतं भूतस्य भूतमभूतस्य अभूतमभूतस्य भूतं भूतस्य [वै० सू० ३।१।८ ], धूमोऽग्नेः संयोगि, विषाणं गोः समवायि, एकार्थसमवायि द्विधा-कार्य कार्यान्तरस्य, यथा रूपं स्पर्शस्य; कारणं कारणान्तरस्य, यथा पाणिः पादस्य । चतुर्धा विरोधि-अभूतं वर्षकर्म वाय्वभ्रसंयोगस्य भूतस्य लिङ्गम् , भूतं वर्षकर्म वाय्वभ्रसंयोगस्याभूतस्य लिङ्गम् , अभूता श्यामता अभूतस्याग्निसंयोगस्य लिङ्गम् , भूतं कार्य भूतस्य कारणसंयोगस्य [P पृ० १६ A] लिङ्गम् । तस्मादिह प्रसिद्धानामिन्द्रियार्थानां करणता कर्मता च समवायिनी आत्मलिङ्गम् । न ते आत्मनि समवायिनी इति चेत्, एवमेतत्, अन्यथा तु प्रयोगः-इन्द्रियाणि कर्तृप्रयोज्यानि करणत्वाद् वास्यादिवदिति । संयोग्यादीन्येव कथं लिङ्गमित्याहप्रसिद्धिपूर्वकत्वादपदेशस्य [वै० सू० ३।१।९], प्रसिद्धो यः संयोग्यादि सम्बद्धो येन सह ज्ञातः स तस्यार्थान्तरस्यापि लिङ्गं सम्बद्धत्वात् नासम्बद्धम् । तथाहि-अप्रसिद्धोऽनपदेशः [वै० सू० ३।१।१०], अप्रसिद्धो विरुद्धः यस्य साध्यधर्मेण सह नैवास्ति सम्बन्धः, अपि तु विपर्ययेण, असावनपदेशः अहेतुः । असन् सन्दिग्धश्चानपदेशः [वै० सू० ३।१।११], असन् , यः पक्षे नास्ति, तेनार्थादसन् असिद्ध इत्यर्थः, सन्दिग्धश्चानपदेशः सन्दिग्धोऽनैकान्तिक इत्यर्थः । उदाहरणमाह-विषाणी तस्मादश्वो विषाणी तस्माद गौरिति च [वै० सू० ३।१।१२], 'अयं पदार्थोऽश्वः' इति साध्ये विषाणित्वं विरुद्धम् , अश्वविपर्ययेण विषाणित्वस्य व्याप्तेः। 'अयं पदार्थों गौः' इति साध्ये विषाणित्वमनैकान्तिकम् , साध्यविपर्ययाभ्यां व्याप्तत्वात् । चशब्दोऽनुक्तसमुच्चयार्थः, 'शशो विषाणी' इति साध्येऽसिद्धं विषाणित्वम् , पक्षेऽवर्तमानत्वात् । प्रसङ्गादेतदुक्तम् । किञ्च, आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् [वै० सू० ३।१।१३], चतुष्टयसन्निकर्षाद् यदुत्पद्यते ज्ञानाख्यं कार्य तदन्यद् हेत्वन्तरमात्मज्ञापकमस्तीति । ज्ञानस्य समवायिकारणापेक्षित्वं कार्यत्वाद् घटवत् । प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् [वै० सू० ३।१।१४ ] इति । प्रत्यगात्मेति शरीरम् । शरीरे प्रवृत्तिनिवृत्ती
मनुमापयतः। शरीरं प्रयत्नवता अधिष्ठितं हिताहितप्रवृत्तिनिवृत्तिमत्त्वाद् घटवत्। तृतीयस्याद्यमाह्निकम्।।Pपृ० १६ B]
1 प्रसिद्धपूर्व-वृसू०। 2 अप्रसिद्धो न विरुद्धः-वृ०। 3 असत्यः परो नास्ति-वृ०। 4 लिङ्गम् । तृतीयस्य प्रथममाहिकम् ।-सू०। 5 अन्यथात्मेति शरीरशरीरप्रवृत्ति-वृ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org