________________
३४
नयचक्रस्य
वाचितम्" इत्यत आरभ्य " जयति चरित्रं पवित्रमिदम्" इत्यन्त उल्लेखो य० प्रतिवदेव। तदनन्तरमियांस्त्वधिको निर्देशः–“संवत् १७२४ वर्षे फाल्गुनकृष्णे १ प्रतिपदा भौमे लिखितमिदं पुस्तकं शुभं भवः । श्रीरस्तु ।”
ही-वाराणसीस्थे सुपार्श्वनाथजैनमन्दिरे विद्यमाने श्रीहीराचन्द्रजीयतिसत्कज्ञानकोशे विद्यमाना ५३४ पत्रात्मिका प्रतिः । इयं प्रतिः परम्परया य० प्रतितः साक्षात् तु रं० प्रतितोऽवतारिता प्रतीयते पाठसाम्यात् । अस्याः प्रारम्भे “प्रणिधाय परं रूपम् ......” इत्यादिरुल्लेखो य० प्रतिवदेव । अन्तेऽपि " पूर्व पं० यशविजयगणिना वाचितम्" इत्यादिः " जयति चरित्रं पवित्रमिदम्" इत्यन्त उल्लेखो य० प्रतिवदेव ।
इदं तु ध्येयम्-य० प्रतौ, य० प्रतिमवलम्ब्य लिखितासु सर्वासु पा० डे० आदिप्रतिषु च पार्श्वभागे 'नयचक्रवालटीका' इत्युल्लेखो दृश्यते ।
इदमपि ध्येयम्-वि० रं० ही० प्रतिषु षष्ठेऽरे [पृ० ४२५ पं० २४-पृ० ४२७ पं० १८] एकपत्रपरिमितस्य पाठस्य पतितत्वदर्शनाद् वि० २० ही० प्रतयो न साक्षाद् य० प्रतितोऽवतारिताः, अपि तु य० प्रतितोऽवतारितात् कुतश्चिदन्यस्मादेवादर्शाल्लिखिता इति स्पष्टमेव प्रतीयते ।
प्रतीनां समानत्वासमानत्वे पा० डे० लीं० वि० रं० ही० प्रतीनां य० प्रतितोऽवतारितत्वादस्मिन् सम्पादने वस्तुतो भा० प्रतिः य० प्रतिश्चेति द्वे एव प्रती आधारभूते । किन्तु सम्पादनकाले सप्तमारमुद्रणपर्यन्त य० प्रतेरनुपलब्धत्वात् तत्स्थाने पा० डे० लीं० वि० २० ही० प्रतयोऽस्माभिरुपयुक्ताः । सप्तारमुद्रणानन्तरं विक्रमसंवत् २०१२ वर्षे 'अहमदाबाद 'नगरे ‘देवशानो पाडो' इत्यत्र पं० महेन्द्रविमलजीसत्कज्ञानकोशतोऽकल्पितैव य० प्रतिप्राप्तिः सञ्जाता । मुनिराजश्रीपुण्यविजयजीमहाभागैः शीघ्रमेव य० प्रतिरस्मत्सविधे ‘पालिताणा 'नगरे प्रेषिता । य० प्रतिविषयको विस्तृतो वृत्तान्तो जिज्ञासुभिर्गुर्जरभाषानिबद्धास्मदीयप्रस्तावनातोऽवसेयः । पा० डे ली० वि० २० ही० प्रतिषु ये केचन परस्परतः पाठभेदा विलोक्यन्ते ते य० प्रत्यक्षराणां सम्यगनवगमादिकारणवशाल्लेखकहस्तादेव प्रसूताः । कचिच्च य०प्रतिस्थसङ्केतानवगमाल्लेखकैर्भूयान् पाठव्यत्ययोऽपि कृतः । अष्टमेऽरे ६६६-६७६ पत्रेष्वीदृशो भूयान् व्यत्ययः सञ्जातः । एवं च पा० डे० लीं० २० ही० प्रतीनां य०प्रतिमूलकत्वाद् य०प्रतौ भा०प्रतौ च यत् परस्परतो वैशिष्टयं तदेवात्रोपदश्यते
१ दृश्यतां पृ. ३६३ पं० २४ टि० ६, टिपृ० ९३ पं० २१-२४ ॥ २ अष्टमेऽरे "शब्दलिङ्गगतपक्षापक्ष" [पृ० ६६६ पं० १० ] इत्यत्र य० प्रतौ २३० पत्राङ्कः समाप्यते तदनन्तरं २३४ तमे पत्रे प्रमादात् २३१ इत्यङ्को लिखितः, एवं २३१ तमे पत्रे २३२ इत्यङ्कः, २३२ तमे २३३ इत्यङ्कः, २३३ तमे च २३४ इत्यङ्को लिखितः । य० प्रतौ प्रमादादेवं लिखितेष्वप्यशुद्धाङ्केषु तत्रैव वामकोणे शुद्धाका अप्युपन्यस्ताः । पा० प्रतिलेखकस्येदं सम्यग् विज्ञातमासीत् , अतस्तेन शुद्धाङ्कानुसारेणैव पा. प्रतिलिखिता। किन्तु य० प्रतिमवलम्ब्य कैश्चिदन्यलेखकाः प्रतयो लिखितास्तैस्त्वेतदपरिज्ञानादशुद्धाङ्कानुसारेणैव स्वप्रतयो लिखिता इति २३० पत्रानन्तरम् २३४ तमं पत्रं तैलिखितमिति तासु महान् पाठव्यत्ययः सञ्जातः । अतो 'मिष्यते [पृ० ६७४ पं० १४ ] इत्यत आरभ्य अत्रशब्दवाच्यस्याग्निविशिष्टस्य धू० [पृ० ६७६ पं० २२ ] इत्यन्तः पाठोऽसम्बद्ध एव शब्दलिङ्गगतपक्षापक्ष [पृ० ६६६ पं० १०] इत्यनन्तरमापतितः, यच्च तस्य खस्थानं ततः परिभ्रष्टः । एवं पाठव्यत्ययदूषितप्रत्यनुसारेण यदि सम्पादनं क्रियते तदा बहूनि पत्राणि पाठव्यत्यासेन भ्रष्टानि स्युः । भगवतो गुरुदेवस्य कृपयास्माकं सौभाग्याद् भा०यपा०प्रतीनामस्मत्सविधे सद्भावान्नायं पाठदोषोऽस्माकं सम्पादने आयात इति सुधीभिरवधेयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org