________________
प्राकथनम्
यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १॥ संवत् १७१० वर्षे पोसवदि १३ दिने श्रीपत्तननगरे॥पं० श्रीयशविजयेन पुस्तकं लिखितं । शुभं भवतु ॥
उदकानलचौरेभ्यो मूषकेभ्यो विशेषतः । कष्टेन लिखितं शास्त्रं यत्नेन प्रतिपालयेत् ।। १ भग्नपृष्ठकटिग्रीवा दृष्टिस्तत्र अधोमुखी। कष्टेन लिखितं शास्त्रं यत्नेन प्रतिपालयेत् ॥२॥
पूर्व पं० यशविजयगणिना श्रीपत्तने वाचितम् ॥ छ । आदर्शोऽयं रचितो राज्ये श्रीविजयदेवसूरीणाम् । सम्भूय यैरमीषामभिधानानि प्रकटयामि ॥ १ ॥
विबुधाः श्रीनय विजया गुरवो जयसोमपण्डिता गुणिनः । विबुधाश्च लाभविजया गणयोऽपि च कीर्तिरत्नाख्याः ॥ २ ॥ तत्त्वविजयमुनयोऽपि प्रयासमत्र स्म कुर्वते लिखने ।
सह रविविजयैर्विबुधैरलिखच्च यशोविजयविबुधः ॥ ३ ॥ ग्रन्थप्रयासमेनं दृष्ट्वा तुष्यन्ति सज्जना बाढम् । गुणमत्सरव्यवहिता दुर्जनदृक् वीक्षते नैनम् ॥ ४ ॥ तेभ्यो नमस्तदीयान् स्तुवे गुणांस्तेषु मे दृढा भक्तिः। अनवरतं चेष्टन्ते जिनवचनोद्भासनार्थं ये ॥५॥
श्रेयोस्तु ॥ सुमहानप्ययमुच्चैः पक्षेणैकेन पूरितो ग्रन्थः । कर्णामृतं पटुधियां जयति चरित्रं पवित्रमिदम् ॥ ६ ॥ श्रीः ॥"
__ पा०-पत्तनस्थजैनसङ्घसत्कज्ञानभाण्डागारीया प्रतिः । पत्रसङ्ख्या ४६९ । अन्त्यानि त्रिचतुराणि पत्राणि न विद्यन्तेऽतः प्रत्यन्ते किं लिखितमिति न ज्ञायते । प्रतेः प्रारम्भे तु य० प्रतिवदेव पाठ इति य० प्रतिमवलम्ब्यैवेयं प्रतिलिखितेति स्पष्टमेव ।
डे०-अहमदाबादनगरे 'डेलानो उपाश्रय' इत्यत्रस्थे जैनज्ञानकोशे विद्यमाना ४४८ पत्रात्मिका प्रतिः । इयमपि प्रतिः य० प्रतिमवलम्ब्य लिखिता । अस्या अन्ते ईदृश उल्लेख:--"ग्रंथानं १८००० । संवत् १७२९ वर्षे कार्तिकवदि ७ शुक्ले लषीतं पुस्तकं श्रीरस्तु ॥"
लीं०-लींबडीनगरस्य जैनज्ञानभाण्डागारे विद्यमाना प्रतिः । इयं प्रतिः डे० प्रतितो लिखिता प्रतीयते । चतुर्थारपर्यन्तानि २४७ पत्राण्येवास्या अस्माभिर्लब्धानि । अतोऽन्ते कीदृश उल्लेख इति न ज्ञायते ।
वि०-पञ्चनददेशे जीराग्रामे विजयानन्दसूरीणां ज्ञानमन्दिरे विद्यमाना ३८७ पत्रात्मिका प्रतिः । इयमपि प्रतिः परम्परया य० प्रतिमवलम्ब्यैव लिखिता । अस्याः प्रारम्भे ईदृश उल्लेखः--
“ॐ नमः श्रीजिनाय । प्रणिधाय परं रूपं राज्ये श्रीविजयदेवसूरीणाम् । नयचक्रस्यादर्श प्रायो विरलस्य वितनोमि ॥ एँ नमः ॥"
प्रत्यन्ते पुनरित्थमुल्लेख:--.--"ग्रन्थमानसंख्या १८००० । संवत् १७५३ वर्षे शाके १६१८ प्रवर्तमाने पौषमासे कृष्णपक्षे ३ तिथौ जीववासरे श्रीशरजग्रामे लिखितमिदं पुस्तकम् ।"...
रं०-विजापुरनगरे रंगविमलजीगणिजैनग्रन्थभाण्डागारे विद्यमाना ५५२ पत्रास्मिका प्रतिः । इयमपि प्रतिः परम्परया य० प्रतित एवावतारिता । अस्याः प्रारम्भे " भट्टारकश्रीहीरविजयसूरीश्वरशिष्य......" इत्यादिरुल्लेखो य० प्रतिवदेव । अन्तेऽपि “ ग्रन्थानं १८००० श्रीरस्तु । पूर्वं पं० यशविजयगणिना श्रीपत्तने
नय. प्र. ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org