SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ नयचक्रस्य सम्पादनोपयुक्तानां नयचक्रवृत्तिप्रतीनां परिचयः नयचक्रवृत्तेः सम्पादने निम्नलिखिताः प्रतयोऽस्माभिरुपयुक्ताः भा०-भावनगरस्थायाः ‘श्रेष्ठि श्री डोसाभाई अभेचन्दनी पेढी' इत्यभिधाया जैनसङ्घसञ्चालितायाः संस्थाया ज्ञानभाण्डागारान्तर्गता ५७२ पत्रात्मिका प्रतिः । प्रतिपत्रं पृष्ठद्वयम् । प्रतिपृष्ठं १३ पतयः । प्रतिपति प्रायः ४० अक्षराणि । अस्यां प्रतिपत्रं पार्श्वभागे [ In the margin ] 'नयचक्रवालवृत्तिः' इत्युल्लेखो दृश्यते । इयं च प्रतिः पाठान्तरप्रदर्शनेऽत्र भा०संज्ञया व्यवहृता । अस्याः प्रारम्भे “ॐ नमो वीतरागाय । नमः श्रीमल्लवादिने ।" इत्युल्लेखो दृश्यते । प्रान्ते तु प्रतेर्लेखयितृणामीदृश उल्लेखो विलोक्यते " इति श्रीमन्मल्लवादिक्षमाश्रव(म)णपादकृतनयचक्रस्य तुम्बं समाप्तं । ग्रन्थाग्रं १८००० । शुभं भवतु। श्रीआयरक्षितसूरेः प्रसृते विशाले गच्छे लसन्मुनिकुले विधिपक्षनाम्नि । सूरीश्वरा गुणनिधानसुनामधेया आसन् विशुद्धयशसो जगति प्रसिद्धाः ॥ १॥ तत्पट्टपद्मतरणिः सरणिर्भवाब्धौ श्रीधर्ममूर्तिरिति सूरिवरो विभाति । सौभाग्यभाग्यमुखसद्गुणरत्नरत्नगोत्रः पवित्रचरितो महितो विनेयैः ॥२॥ तेन खश्रेयसे ज्ञानभाण्डागारे हि लेखिते । नन्दतान्नयचक्रोरुतुम्बपुस्तकमुत्तम]म् ॥ ३ ॥ पुञ्जो मुझोपमो लक्ष्म्या मन्त्रिगोविन्दनन्दनः । श्रीगुरोराज्ञया सुज्ञः शास्त्रमेव.]मलीलिखत् ॥ ४ ॥" विधिपक्षगच्छीयपट्टावल्यादिदर्शनेन धर्ममूर्तिसूरयो विक्रमीयसप्तदशशताब्द्यामासन्निति विक्रमसंवत् १६५० वर्षप्रायसमये ततः प्रागेव वा तैरियं प्रतिर्लेखिता प्रतीयते । विस्तरेण धर्ममूर्तिसूरीणां समय-जीवनचरितादिजिज्ञासुभिर्विधिपक्षगच्छीयपट्टावल्येव विलोकनीया। __य०-समर्थश्रुतधरतार्किकशिरोमणिपवित्रनामधेयपूज्यपादसुप्रसिद्धन्यायविशारदन्यायाचार्ययशोविजयोपाध्यायैरनेकमुनिवृन्देन सह पत्तने लिखिता ३०९ पत्रात्मिका प्रतिः । सम्प्रतीयं प्रतिः अहम्मदाबादस्थे 'देवशानो पाडो' इत्यत्र विद्यमाने पं० महेन्द्रविमलजीसत्के ज्ञानभाण्डागारे विद्यते । अस्या आद्यान्त्यपत्रयोः पार्श्वभागे [ In the margin] 'नयचक्रवालटीका' इत्युल्लेखो विलोक्यते, प्रारम्भे इत्थमुल्लेखो दृश्यते " भट्टारकश्रीहीरविजयसूरीश्वरशिष्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यपण्डितश्रीलाभविजयगणिशिष्यपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिगुरुभ्यो नमः । प्रणिधाय परं रूपं राज्ये श्रीविजयदेवसूरीणाम् ।। नयचक्रस्यादर्श प्रायो विरलस्य वितनोमि ॥ १॥ एँ नमः ॥" अन्ते तु ईदृश उल्लेखो दृश्यते" इति श्रीमल्लवादिक्षमाश्रमणपादकृतनयचक्रस्य तुम्बं समाप्तम् ॥ छ ॥ ग्रन्थाग्रं १८००० ॥ १ वैक्रमे १५८५ वर्षे धर्ममूर्तिसूरीणां जन्म, १५९९ वर्षे दीक्षा, १६०२ वर्षे सूरिपदम् , १६७० वर्षे वर्गगमनम् ॥ २ एभिराचार्यबह्वयः प्रतिष्ठाः कारिता बहवश्च ग्रन्था लेखिताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy