________________
प्राकथनम् किं निर्मूलप्रशाखं सुरभि खकुसुमं स्यात् प्रमाणप्रमेयम् ? .
स्थित्युत्पत्तिव्ययात्म प्रभवति हि सतां प्रीतये वस्तु जैनम् ॥ अस्य दार्शनिकविचारसारगर्भितस्य पद्यस्य प्रणेतृत्वेन कोट्टार्यगणिभिनिर्दिष्टाः सिंहमूरिक्षमाश्रमणपूज्यपादा नयचक्रटीकाकृझ्यः सिंहसूरिक्षमाश्रमणेभ्योऽभिन्ना इति वयं सम्भावयामः । यद्यस्माकं सम्भावना यथार्था तर्हि नयचक्रटीकाकृद्भिरपरोऽपि ग्रन्थः प्रणीत इति सुवचम् ।
टीकाकृतां समयः टीकाकृतां सिंहसूरिक्षमाश्रमणानां नियतः समयः क्वापि निर्दिष्टो न दृश्यते । तथापि विक्रमीयाष्टमशताब्दीवर्तिनां कुमारिल-धर्मकीर्त्यादीनां प्रसिद्धदार्शनिकग्रन्थकाराणां मतोल्लेखस्य नयचक्रवृत्तौ काप्यदर्शनाद नयचक्रवृत्तिकृतां तेभ्यः प्राचीनत्वं स्पष्टमेव प्रतीयते । यद्यपि नयचक्रवृत्तौ पृ. ६ इत्यत्रोद्धृतं "ज चोईस" इत्यादिकारिकात्रयं किञ्चित् क्रमभेदेन विशेषावश्यकभाष्ये दृश्यते, विशेषावश्यकभाष्यस्य च ५३१ शकसंवत्सरोल्लेखिगाथाद्वयेन सहिता तालपत्रेषु लिखितैका प्राचीना प्रतिजैसलमेरनगरे विद्यते तथापि तदनुसारेणात्र विशेषावश्यकभाष्य-नयचक्रवृत्त्योः पूर्वापरभावो निर्णेतुं न पार्यते । तथाहि-एतत् कारिकात्रयं जिनभद्रगणिक्षमाश्रमणैरपि ग्रन्थान्तरादुद्धृतं सम्भाव्यते, अतः सिंहमूरिक्षमाश्रमणानां समयनिर्णय एतन्न बहूपयुज्यत इति वयं मन्यामहे । विस्तरार्थिभिः टिपृ. ९ पं. २५-टिपृ. १० इत्यत्र विलोकनीयम् ।
इदं तु सम्भावयामः । बौद्धन्यायस्य पितृत्वेन प्रसिद्धो दिङ्गागाचार्यः 'अपोहः शब्दार्थः' इति वादस्य प्रणेता । प्रमाणसमुच्चयस्यापोहपरिच्छेदेऽन्यत्र चापोहविषयके प्रकरणे विस्तरेण स्वमतमिदं प्रतिपादितं तेन । नयचक्रवृत्तौ च पृ. १९ पं. १८ इत्यत्र सिंहसूरिक्षमाश्रमणैः “ कुतोऽर्थान्तरापोहलक्षणं विद्वन्मन्यायतनबौद्धपरिस्कृप्तं सामान्यम्" इति 'अद्यतन'शब्देन अपोहवादिनो निर्देशाद् दिङ्गागस्य सिंहसूरेश्च समीपकालभावित्वं प्रतीयते। वीरसंवत् ९८० वर्षे [ विक्रमसंवत् ५१० वर्षे ] देवर्धिगणिक्षमाश्रमणतः पुस्तकारूढायाः सम्प्रति विद्यमानाया आगमिकपाठपरम्परायाः सिंहमूरिक्षमाश्रमणादृतागमिकपाठपरम्परातः सुतरां भिन्नत्वादपि सिंहसूरिक्षमाश्रमणानां प्राचीनत्वं प्रतीयते । नयचक्रवृत्तौ 'पृ. १४५ पं. १९, पृ. २४० पं. १० इत्यादौ कचिन्नयचक्रपाठभेदोल्लेखदर्शनाद् मल्लवादि-सिंहसूरिक्षमाश्रमणयोः परस्परतः कालकृतमपि किश्चिदन्तरं प्रतिभाति ।
१ शकसंवत्सरतो विक्रमसंवत्सरस्य १३४ वर्षेराधिक्यं चैत्रमासे । अतोऽयं ६६५ विक्रमसंवत्सरोऽत्र भवतीति ध्येयम् ॥ २ अत्रेदमवधेयम् । जेसलमेरनगरे विद्यमानस्य विशेषावश्यकभाष्यस्यान्ते ५३१ शकसंवत्सरोल्लेखीदं गाथाद्वयमित्थं दृश्यते
“पंच सता इगतीसा सगणिवकालस्स वट्टमाणस्स । तो चेत्तपुण्णिमाए बुधदिण सातिमि णक्खत्ते ॥ रज्जेऽणुपालणपरे सी[ लाइ चम्मि णरवरिंदम्मि । वलभीणगरीए इमं महवि......मि जिणभवणे ॥”
अस्मिन् गाथाद्वये ५३१ शकसंवत्सरस्य वलभीनगयाँ शीलादित्यस्य राज्ञश्चोल्लेखो दृश्यते । अन्तिमे तु चरणे कानिचिदक्षराणि त्रुटितानि, अतस्तस्मिन् संवत्सरे किं जातं कृतं वेति न ज्ञायते । इदं च गाथाद्वयं केन चिट्ठी का कृतापि न व्याख्यातम् , अन्येषु भाष्यादर्शेष्वपि क्वचिन्न दृश्यते। अतः '५३१ शकसंवत्सरे चैत्रपूर्णिमायाँ बुधवासरे स्वातिनक्षत्रे वलभ्यां नगर्यां शीलादित्ये राज्ञि राज्यमनुपालयति जिनभद्रगणिक्षमाश्रमणैः किञ्चित् कृतं तेषां वा सम्बन्धी कश्चिद् व्यतिकरो जातः' इत्यर्थोऽत्र विवक्षित इति सम्भाव्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org