SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ नयचक्रस्य सन्दर्भानुसारेण च नयचक्रमूलं सङ्कलितं तेषामुल्लेखोऽपि तत्र तत्र टिप्पणेषु विहितोऽस्माभिः। इत्थं यथामति यथाशक्ति च मल्लवाद्यभिप्रेतं मूलं कल्पयितुं बहुतरं परिश्रान्तमस्माभिः । यत्र तु मूलं कल्पयितुं वयमसमर्थास्तत्र तावानंशो रिक्तः स्थापितो बिन्दुभिश्च मूले निर्दिष्टः, दृश्यतां पृ० १० पं० १, पृ० ८६ पं० ५, पृ० ९२ पं० ५ इत्यादि। ... टीकाकृतां सिंहसूरिगणिवादिक्षमाश्रमणानां परिचयः .." इति नियमभङ्गो नवमोऽरः श्रीमल्लवादिप्रणीतनयचक्रस्य टीकायां न्यायागमानुसारिण्यां सिंहसूरिगणिवादिक्षमाश्रमणदृब्धायां समाप्तः” इति नवमारसमाप्तौ “इति नियमनियमभङ्गो नाम आदितो विधिभङ्गादारभ्य गम्यमाने द्वादशो भङ्गो द्वादशारनयचक्रस्य श्रीमल्लवादिकृतस्य टीकायां श्रीमत्सिंहसूरिगणिविरचितायां समाप्तः” इति द्वादशारसमाप्तौ चोल्लेखदर्शनादियं नयचक्रवृत्तिः सिंहमूरिभिर्विरचिता ते च 'वादि-गणि-क्षमाश्रमण 'पदविभूषिता आसन्निति स्फुटमेव प्रतीयते । विविधदार्शनिकमतमतान्तरोल्लेखैरागमसिद्धान्तवर्णनैश्च परिपूर्णत्वादस्याष्टीकाया 'न्यायागमानुसारिणी' इति टीकाकृद्विहितो निर्देशः सर्वथा घटमानएव । इयं टीका टीकाकृतां परमं वैदुष्यं स्फुटमेव प्रकाशयति । .." इति मल्लवादिक्षमाश्रमणपादकृतनयचक्रस्य तुम्बं समाप्तम् । ग्रन्थाग्रम् १८०००" इति टीकान्त उल्लेखदर्शनाद् द्वात्रिंशद्भिरक्षरैरेकः श्लोकः' इति गणनयाष्टादशसहस्रश्लोकमानेयं टीका प्रतिभाति। दार्शनिकागमिकयौगिकायुर्वेदिकाद्यनेकविधोल्लेखपरिपूर्णा दुरवगाहसूक्ष्मचर्चागहना चेयं टीका टीकाकृतां सिंहसूरिक्षमाश्रमणानामनेकशास्त्रपारगामित्वमावेदयति स्वयमेव । एतद् विहायापरं किमपि तेषां जीवनवृत्तं नोपलभ्यते। विशेषावश्यकभाष्यस्य कोट्टार्यवादिगणिमहत्तरप्रणीतायां वृत्तौ सिंहसूरिक्षमाश्रमणप्रणीतैका कारिके. त्थमुद्धृता विलोक्यते...."सिंहमूरिक्षमाश्रमणपूज्यपादास्तु- . . सामान्यं निर्विशेषं द्रवकठिनतयोर्वार्यदृष्टं यथा किम् ? योन्या शून्या विशेषास्तरव इव धरामन्तरेणोदिताः के ?। १ टीकानाम्नस्तुलना-“ समाप्ता चेयमागमानुसारिणी मध्यान्तविभागटीका आचार्यस्थिरमत्युपर चिता। [पारमितापञ्च] विंशतिसाहनिकायां हृदयं समाप्तम् ।" इति बौद्धाचार्यस्थिरमतिरचितायां मध्यान्तविभागटीकायाम् पृ० २६२ । परमार्थन चीनभाषायां निबद्धाद् वसुबन्धुजीवनचरित्राद् 'वसुबन्धुसमकालीनेन बौद्धाचार्येण सङ्घभद्रेण 'न्यायानुसारः' इत्यभिधानमभिधर्मकोशस्य विवरण रचितम्' इत्यपि ज्ञायते ॥ २ भगवद्भिर्जिनभद्रगणिक्षमाश्रमणैः प्रारब्धा विशेषावश्यकभाष्यस्य खोपज्ञवृत्तिः षष्ठगणधरवक्तव्यतां यावद् विरचिता, ततः परं तेषां दिवंगतत्वादपूर्णा वृत्तिः कोहार्यगणिवादिमहत्तरैः समाप्तिं नीता। मुनिराजश्रीपुण्यविजयमहोदयानां सौजन्यादस्माभिरस्याः १८६ पत्रात्मको हस्तलिखित आदर्शोऽधिगतः । तत्र ८१ पत्रपर्यन्तं षष्ठगणधरवक्तव्यतां यावद् जिनभद्रगणिक्षमाश्रमणविरचिता व्याख्या, ततः परं तु कोहार्यगणिरचिता व्याख्या। तत्र बौद्धाचार्यस्य दिनागस्यानेकानि वांसि कोट्टार्यगणिभिरुद्धृतानि । विक्रमीयाष्टमशताब्द्यां विद्यमानयोः प्रसिद्धदार्शनिकयोर्मीमांसककुमारिल-बौद्धाचार्यधर्मकीयोस्त्वेकमपि वचनमत्रोद्धृतं न विलोक्यते । अतो भगवन्तः कोहार्यगणिनः कुमारिल-धर्मकीर्त्यभ्युदयादवश्यं प्राकालीनाः, आवश्यकचूर्णेः सिंहमूरिक्षमाश्रमणानां च तत्र नामोल्लेखदर्शनाद् आवश्यकचूर्णिकृतः सिंहसूरिक्षमाश्रमणतश्चार्वाचीनाः तयोः समकालीना वेति प्रतीयते । अपरेऽपि सन्ति कोट्याचार्या नाम विशेषावश्यकभाष्यस्य टीकाकाराः, किन्तु ते कोटार्यगणिभ्यो भिन्ना अर्वाचीनाश्चेति सम्भाव्यते । कोट्याचार्यैर्बहुषु स्थलेषु धर्मकीादेवचांसि उद्धृतानि । अतो धर्मकीर्तेरम्भिावित्वं तेषां स्फुटमेव प्रतीयते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy