________________
नयचक्रस्य
वृत्तौ, कलिकालसर्वज्ञहेमचन्द्रसूरिगुरुभ्रातृप्रद्युम्नसूरिशिष्यैराचार्यचन्द्रसेनसूरिभिः विक्रमसंवत् १२०७ वर्षे रचितायाम् उत्पादादिसिद्धिखोपज्ञवृत्तौ च नयचक्रास्तित्वस्य निर्दिष्टत्वात् १२०७ वर्ष यावद् नयचक्रस्य विद्यमानत्वं स्पष्टमेव प्रतीयते । किन्तु ततः परं विक्रमसंवत् १३३४ वर्षे विरचिते प्रभावकचरिते प्रभाचन्द्राचार्यैर्नयचक्रानुपलब्धेरावेदितत्वादनयोश्चन्द्रसेनप्रभाचन्द्राचार्ययोरन्तरा कस्मिंश्चित् समये नयचक्रं विलुप्तमिति प्रतीयते । ततः परमुपलभ्यमाना 'नयचक्रवाल'ग्रन्थस्योल्लेखास्तु सिंहसूरिक्षमाश्रमणविरचितां नयचक्रटीकामाश्रित्य प्रवृत्ता इति संम्भाव्यते । एतद्विषयेऽस्माभिष्टिप्पणेषु विस्तरेण प्रपश्चितमिति तत्रैवावलोकनीयं विस्तरार्थिभिः ।
नयचक्रमूलसङ्कलनोपायाः एवं चिराल्लुप्तस्यास्माभिरपीतस्ततो भृशं गवेषयमाणैरनुपलब्धस्य मल्लवादिप्रणीतनयचक्रस्य सङ्कलनाय ग्रन्थान्तरेषु नयचक्रादुद्धृताः पाठा अस्माभिश्चिरं गवेषिताः । किन्तु आश्चर्यमेतद् यदस्माद् ग्रन्थाद्
'लौकिकव्यवहारोऽपि न यस्मिन्नवतिष्ठते । तत्र साधुत्वविज्ञानं व्यामोहोपनिबन्धनम् ॥' [ पृ. ८ पं. ३ ] 'विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् ।
जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥' [ पृ. ९ पं. ६ ] इति कारिकाद्वयमेव ग्रेन्थान्तरेषूद्धृतमिदानीमुपलभ्यते । अतो नयचक्रवृत्त्यन्तर्गतप्रतीकाद्यनुसारेण नयचक्रमूलमत्र महता परिश्रमेण सङ्कल्पितमस्माभिः । वृत्तिकारा हि सिंहसूरिक्षमाश्रमणा न प्रतीकान् धृत्वा नयचक्र व्याचक्षते, अपि तु प्राधान्येन तात्पर्यमेव प्रकाशयन्ति । अतो बहुषु स्थलेषु प्रतीका विविच्य दुर्निर्णेयाः, बहुषु स्थलेषु सन्दर्भानामाद्यान्त्यभागानुपन्यस्यापराणि पदानि 'इत्यादि-यावत्'शब्दाभ्यां सङ्केतयित्वैव परित्यक्तानि, 'स्पष्टम् , सुगमम्' इत्याधुल्लिख्यापि बहवो नयचक्रसन्दर्भा वृत्तिकृद्भिरव्याख्याताः । अतः प्रतिपदं पुनः पुनश्चिरं चिन्तयित्वातिपरिश्रमेण यथामति प्रतीकान् विविच्य संकलय्य च नयचक्रमूलमत्र संयोजितमस्माभिः । अस्मिन् संपादने नयचक्रमूलसंयोजनस्यात्यन्तं कठिनत्वात् तत्र सर्वतोऽप्यधिकतमः परिश्रमोऽस्माभिरनुभूतः । या च यावती च सामग्र्यस्माभिर्लब्धा सा सर्वैवाऽत्र कार्येऽस्माभिरुपयुक्ता । यत्र नयचक्रकृता ग्रन्थान्तरेभ्यो वचास्युद्धृतानि तत्र दुर्लभानपि तान् ग्रन्थानन्विष्य तदनुसारेण योजितमत्र मूलम् । दिङ्मात्रमत्रोदाहरामः
१ दृश्यतां टिपृ० १टि. २, टिपृ. १३ पं० २-१४॥ २ दृश्यतां टिपृ. २ पं०८-१०॥ ३ "ख्याताः प्रमाणमीमांसा प्रमाणोक्तिसमुच्चयः । नयचक्रवालतकः स्याद्वादकलिका तथा ॥ १८ ॥ प्रमेयपद्ममार्तण्डस्तत्त्वार्थः सर्वसाधनः । धर्मसंग्रहणीत्यादितकोंघा जिनशासने ॥ १९ ॥' इति विक्रमीयचतुर्दशशताब्द्या उत्तरार्धे पञ्चदशशताब्द्याश्च प्रारम्भे वर्तमानैर्मलधारिराजशेखरसूरिभिर्विरचिते वाराणसेययशोविजयग्रन्थमालातः प्रकाशिते षड्दर्शनसमुच्चये । विक्रमीयचतुर्दशशताब्या उत्तरार्धे विद्यमानैर्जिनप्रभसूरिभिः जिनागमस्तवे, विक्रमीयपञ्चदशशताब्द्यां विद्यमानैर्गुणरत्नसूरिभिः हरिभद्रसूरिप्रणीतषइदर्शनसमुच्चयस्य बृहद्वृत्तौ, बृहट्टिपनि काख्यायां प्राचीनग्रन्थसूच्यां च ये नयचक्रवालविषयका उल्लेखा स्तेऽस्माभिः टिपृ. २ टि. ६ इत्यत्र प्रदर्शिता एव । यदा नयचक्रं विलुप्तं केवलाया नयचक्रटीकाया एव चोपलब्धिरासीत् तदानीन्तना एव एते सर्वेऽपि नयचक्रवालसम्बन्धिन उल्लेखाः, अतो नयचक्रटीकामाश्रित्येमे उल्लेखाः प्रवृत्ता इति वयं विभावयामः ॥ ४ दृश्यतां टिपृ. २ टि०६॥ ५ दृश्यतां पृ० ८ दि. १२ । टिपृ. १३ पं० २-१४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org