________________
२७.
प्राक्कथनम् मीमांसादर्शनप्रसिद्धवाक्यस्य बहवोऽर्थाश्चर्चयित्वा निरस्ताः । ततो विधिविधिनयः स्वाभिमतम् 'एकमेव कारणं नानाभेदेन विवर्तते' इति सर्वैककारणमात्रत्वसिद्धान्तं स्थापयति । इदं तु ध्येयम्-एतत्सिद्धान्तावलम्बिनः सर्वेऽप्यद्वैतवादा अस्मिन् नयेऽन्तर्भवन्ति । अतो मल्लवादिना परस्परविरोधीनि यथाक्रमं पुरुष-नियति-कालखभाव-भावाद्वैतवादिदर्शनान्यत्र निरूपितानि । एवं च विधिनयाभिमतमाज्ञानिकवादं निरस्य ज्ञानमयः पुरुष एव नानाभेदेन भवतीति 'पुरुष एवेदं सर्वम्' इत्यादिर्वेदोपनिषत्सु प्रतिपादितः पुरुषाद्वैतवाद आदौ निरूपितः । ततः पुरुषाद्वैतवादं निरस्य नियत्यद्वैतवादः प्रतिपादितः। एवं पूर्वपूर्वनिरासेन पुरुष-नियति कालखभाव-भावाद्वैतदर्शनानि प्रतिपाद्य विधिविधिनयाभिमतौ शब्दार्थवाक्यार्थौ चोपदास्याद्वैतवादस्य भगवतीसूत्रगतेन वाक्येन सम्बद्धत्वमेतन्नयान्ते दर्शितं मल्लवादिसूरिभिः ।
[तृतीयारविषयः] अथ विधिविधिनयदर्शनेऽपरितुष्यन्नुपतिष्ठते तृतीयो विध्युभयारः । प्रकृतिपुरुषरूपेण द्वैतवादिनः सांख्याः 'ईश्वरोऽधिष्ठाता, तदधिष्ठितं चेदं सर्वं जगत् प्रवर्तते' इति ईश्वरेशितळ्यात्मकत्वेन द्वैतमभ्युपगच्छन्त ईश्वरवादिनश्चास्मिन् नयेऽन्तर्भवन्ति । तत्रादौ सांख्यः पुरुषाद्यद्वैतवादं निरस्य स्वाभिमतं प्रकृति-पुरुषद्वैतवादमुपन्यस्यति, सन्निधिभवनापत्तिभवनभेदेन भवनस्य द्वैविध्यात् । किन्तु सांख्येन विधिविधिनयानुसारिष्वद्वैतवादेषु ये दोषा उद्भावितास्तेषां प्रकृतिकारणवादेऽपि तादवस्थ्याद् वार्षगणतन्त्रणिते सांख्यमते सर्वसर्वास्मकत्ववादिना विस्तरेण निरस्ते तत्राखारस्यादीश्वरवादी भाव्य-भवितृभेदेन ईश्वरेशितद्वैतवादमुपन्यस्यति । अन्ते च विध्युभयारमतौ शब्दार्थवाक्यार्थी दर्शयित्वा मल्लवादिसूरिभिद्वैतवादस्य जिनप्रवचननिबद्धत्वमुपदर्शितम् ।
[चतुर्थारविषयः] एवं तृतीयनयेनाभिहिते चतुर्थे विधिनियमनयारे ईश्वरस्यापि प्रवर्त्यपुरुषकर्माधीनत्वादनीश्वरत्वात् कर्मप्रवर्तकत्वात् सर्वेषामपि प्राणिनामीश्वरत्वापत्तेश्च कर्मवादिमुखेन ईश्वरवादं विस्तरेण दूषयित्वा तदनन्तरं कर्मकान्तवादं पुरुषकारैकान्तवादं च निरस्य विधिनियमनयेन स्वमतं प्रतिपादितम् । चेतनाचेतनात्मकस्य सर्वस्य परिवृत्त्या अन्योन्यात्मकत्वानुभवनात कर्मसम्बद्धपुरुषाणां कर्मकृतत्वात् कर्मणां च पुरुषकृतत्वादात्मनैवात्मनः कार्यकारणत्वाद् ‘एकं सर्व सर्व चैकम्' इति हि विधिनियमनयदर्शनम् , विधेर्नियम्यत्वात् । आस्मिंश्च नये द्रव्यमेव शब्दार्थो नित्यः सर्वात्मकः। ॐ ब्रह्म परमार्थः । पृथक् सर्वं पदं वाक्यार्थ इति दर्शयित्वा आचारागसूत्रान्तर्गतेन वाक्येन सम्बद्धत्वमस्य नयस्य दर्शितं मल्लवादिसूरिभिः । अत्र च नयचक्रस्य प्रथमो मार्गोऽपि समाप्यतेऽर्धप्रायं च पुस्तकमपि समाप्यते ।
नयचक्रमूलस्य विचारः विक्रमीयैकादशशताब्द्यां विद्यमानैः पूर्णतल्लगच्छीयैः शान्तिसूरिभिायावतारवार्तिकवृत्तौ, वादिवेताल. शान्तिसूरिभिरुत्तराध्ययनसूत्रबृहद्वृत्तौ, विक्रमीयद्वादशशताब्द्यां विद्यमानैर्मलधारिहेमचन्द्रसूरिभिरनुयोगद्वारसूत्र
१ पृ० १२१-१७२ ॥ २ पृ० १७३ ॥ ३ पृ. २४५॥ ४ पृ० २६१॥ ५पृ० २६८-३२४ ॥ ६ पृ. ३२४ पं० १४॥ ७पृ. ३३४ ॥ ८पृ० ३३५-३५२ ॥ ९ पृ. ३५२ पं० ४॥ १० पृ. ३५७ पं०३॥ ११ दृश्यतां पृ० ३४८ पं० १-३, पृ० ३५० पं० १,१५-१६ इत्यादि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org