________________
२६
नयचक्रस्य
युक्तत्वाजैनशासनस्यैव च सत्यत्वं प्रतिपादयितुकामेन ग्रन्थकृता 'विधिनियमे'त्यादिप्राचीना गाथा गाथासूत्रत्वेनोपन्यस्ता [ पृ. ९ पं. ६ ] । तद्वयाख्यायां विध्यादीन् द्वादश भङ्गानुद्दिश्य 'यथोद्देशं निर्देशः' इति न्यायेन क्रमशो विध्यादिनयान् विस्तरेण व्याख्यातुकामेनादौ विधिनयस्य निरूपणं प्रारब्धम् । इदं पुनरवधेयम्-आदौ परपक्षनिरसनं ततः स्वपक्षस्थापनं ततो वाक्यपदीयादिप्रतिपादितेषु शब्दार्थ-वाक्यार्थेषु यस्य नयस्य यौ शब्दार्थ-वाक्यार्थावभिमतौ तयोरुपदर्शनमन्ते च यथायोगं नैगमाद्यन्यतमे नयेऽन्तर्भावं द्रव्यादिशब्दार्थं च प्रदर्य जिनप्रवचन निबन्धनत्वात् सर्वनयानां यस्य नयस्य यद् निबन्धनं जिनागमेषु तस्योपदर्शनमिति द्वादशखपि विध्यादिनयारेषु ग्रन्थकारस्य प्रतिपादनशैली। अत एतच्छैल्यनुसारेण 'यालोकग्राहमेव वस्तु' इति मन्यमानो लौकिको विधिनय आदौ 'सामान्यम् , विशेषः, कारणे कार्य सत्, कारणे कार्यमसत्' इत्यादीन्यलौकिकवस्तुविषयकाणि शास्त्रकाराणां मतानि विस्तरेण परीक्ष्य निरस्यै च क्रियाविधायिशास्त्रस्यैवार्थवत्त्वं प्रैतिपादयति, लोकव्यवहारादतिरिच्य वर्तमानानां सामान्यादिविषयकशास्त्रारम्भाणां वैयर्थ्यात् । अपि च, शास्त्रकाराः खाभिमतालौकिकवस्तुसाधनाय प्रत्यक्षादिप्रमाणानामपि अलौकिकं लक्षणान्तरं कल्पयन्ति, अतो विधिनयेन प्रमाणज्येष्ठत्वात् प्रत्यक्षस्य बौद्धाचार्यदिङ्गागाभिमतमलौकिकं प्रत्यक्षलक्षणं विस्तरेण निराकृत , तदनन्तरं सांख्याचार्यवार्षगण्यप्रणीतं कणादप्रणीतमपि च प्रत्यक्षलक्षणं दूषितम् । किञ्च, 'सामान्य-विशेषादि लोकतत्त्वं ज्ञातुमशक्यं न च तेन ज्ञातेनापि किञ्चित् फलमतो लोकयात्रानिर्वाहार्थं यथालोकग्राहं वस्तु खीकर्तव्यम्' इत्याज्ञानिकवादं बहु मन्यतेऽयं लौकिको विधिनयः । विधिवाक्यानामेव प्रामाण्यमभ्युपगच्छन्तो वेवादिनो मीमांसका एतन्नयमतानुसारिणः, तेऽपि हि 'इदंकाम इदं कुर्यात्' इति क्रियाविधायिशास्त्रस्यैव प्रामाण्यमामनन्ति, 'को ह वैतद् वेद, किं वाऽनेन ज्ञातेन' इत्याज्ञानिकवादं चोपजीवन्ति । अतो विधिनयनिरूपणद्वारेण -मीमांसकमतमस्मिन् नय उपन्यस्तम् । अन्ते शब्दार्थ-वाक्यार्थावपि मीमांसकाभिप्रायेणात्रोपदर्शितौ । सर्वनयानां जिनप्रवचनस्यैव निबन्धनत्वादस्य नयस्य निबन्धनत्वेन भंगवतीसूत्रगतं वाक्यं मल्लवादिसूरिभिरुपदर्शितं विधिनयसमाप्तौ ।
[द्वितीयारविषयः] ____ एवं विधिनयेनाभिहिते द्वितीयो विधिविधिनयस्तषणायोपतिष्ठते । पूर्वपूर्वविरोधित्वादुत्तरोत्तरनयानामाये विधिनये वर्णितं मीमांसकमतमत्र विस्तरेण निराकृतमादौ । 'अग्निहोत्रं जुहुयात् वर्गकामः' इति - १पृ० ११५०३॥ २पृ० ३४ पं० ४ ॥ ३ पृ० ४५ पं० १ ४ पृ० ५९-१०७॥ ५पृ. १०७-१०९ । टिपृ. ३२ पं० ५-६, टिपृ० ४० पं० १-४, टिपृ० १२१ ॥ ६ पृ० ११० ॥ ७ “एष च वेदवादिभिरपि लोकप्रमाणक . आज्ञानिकवाद उपजीव्यते..... किञ्चिन्न ज्ञायते, को ह वैतद्वेद ? किं वाऽनेन ज्ञातेन ?...क्रियाया एवोपदेशोऽतः श्रेयान् ।”-पृ० १११-११२ । पृ० ३५ पं०३, पृ० ३६ पं० ६-७, पृ० ११८ पं० १२, पृ. १७४ पं० ११ । अत्र वेदवादिनामाज्ञानिकवादोपजीवित्वं यत् प्रतिपादितं तत्रेमे वेदान्तर्गता उल्लेखा अनुसन्धेयाः___को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनेनाऽथा को वैद् यत भाबभूव । ६ । इयं विसृष्टिर्यत आबभव यदि वा दुधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन् त्सो अङ्ग वेद यदि वा न वेद । ७ ।"-ऋग्वेद. (नासदीयसूक्त) १०।१२९६६-७। “को अस्य वेद प्रथमस्याह्नः क ई ददर्श क इह प्रवौचत् ।"-ऋग्वेद. १०।१०।६। “को वेद जानमेषां को वा पुरा सुम्नेष्वास मरुताम् "-ऋग्वेद ५/५३।३। “को ददर्श प्रथमं जायमानमस्य॒न्वन्तं यदनुस्था बिभर्ति ।"-ऋग्वेद ॥१६४।४। “न वि जानामि यदिवेदमस्मि"-ऋग्वेद १।१६४।३७ ॥ इत्यादि ॥ ८ पृ० ११५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org