________________
प्राकथनम्
नयेषु सुनय-दुर्नयविभागः प्राचीनानां श्वेताम्बराचार्याणां सम्मतो वा नेत्यत्र नैकमत्यं पूर्वाचार्याणाम् । सकलविकलादेशखरूपविषयेऽपि नानाविधानि मैतानि सन्ति । तदत्र भगवद्भिर्मल्लवादिक्षमाश्रमणैः सिंहमूरिक्षमाश्रमणैश्च यदुक्तं तदस्मिन् विषये विशेषजिज्ञासूनामत्यन्तमुपयोगि भविष्यति । अतस्तजिज्ञासुभिः नयचक्रे वृत्तौ च तत्र तत्र विद्यमाना एतद्विषयकाः सन्दर्भा अवश्यं विलोकनीयाः । मालवनगरे विद्यमानस्य सप्तशतवर्षकालीनस्य घटस्य निर्देशोऽप्यतिह्यरसिकानां रसप्रदो भविष्यति, दृश्यतां पृ० ४०१, ४६८ ।
अरचतुष्टयपरिचयः अस्मिन् विभागे प्रकाशितस्यारचतुष्टयस्य विषयो विस्तरेण विषयानुक्रमाद् वेदितव्यः; इह तु संक्षेपेण दिमानं दर्शयामः
[प्रथमारविषयः] आदौ मङ्गलार्थमभिधेयगर्भितं जैनशासनस्तवं विधाय अनेकान्तवादस्यैव च सर्वव्यवहारव्यवस्थापकत्वमभिधाय एकान्तप्रतिपादकानामन्यशासनानां विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादसत्यत्वं विधिनियमभङ्गवृत्ति
१'सम्पूर्णवस्तुकथनं प्रमाणवाक्यम्, तदेव स्याद्वाद इति अनेकान्तवाद इति सकलादेश इति वाभिधीयते। वस्त्वेकदेशकथनं नयवादः; तत्र यो नाम नयो नयान्तरसापेक्षः स नय इति सुनय इति सम्यगेकान्त इति विकलादेश इति वोच्यते । यस्तु नयान्तरनिरपेक्षः स दुर्नय इति नयाभास इति मिथ्यैकान्त इति वोच्यते । प्रमाणवाक्ये नयवाक्ये च स्यात्पदमवश्यं प्रयोक्तव्यम् , यत्र न प्रयुज्यते तत्रापि सामर्थ्यात् तद् गम्यते।' इति अकलङ्कादयो दिगम्बराचार्या मन्यन्ते । श्वेताम्बराचार्येषु त्वत्र विचारभेदः--अकलङ्कादुत्तरकालीना वादिदेवसूरि-यशोविजयवाचकप्रभृतय उपरिनिर्दिष्टामकलङ्केष्टां व्यवस्थामनुमन्यन्ते । न्यायावतारवृत्तिकृतः सिद्धर्षयस्तु यद्यपि 'प्रमाणम् , नयः, दुनर्यः' इति विभागं स्वीकुर्वन्ति, तथापि प्रमाणवाक्ये एव स्यात्पदप्रयोगं ते स्वीकुर्वन्ति, न तु नयवाक्ये । एवमेव च हेमचन्द्रसूरय अन्ययोगव्यवच्छेदद्वात्रिंशिकायां [का० २८ ] खीकुर्वन्ति । मलय गिरिसूरयस्तु 'यो नयो नयान्तरसापेक्षतया स्यात्पदलाञ्छितं वस्तु प्रतिपद्यते स परमार्थतः परिपूर्ण वस्तु गृह्णातीति प्रमाणमेव । यस्तु नयवादान्तरनिरपेक्षतया स्वाभिप्रेतेनैव धर्मेणावधारणपूर्वकं वस्तु परिच्छेत्तुमभिप्रेति स नयः, वस्त्वेकदेशपरिग्राहकत्वात् , स च नियमाद् मिथ्यादृष्टिरेव' इति आवश्यकवृत्तौ [पृ० ३६९-३७१] प्रतिपादयन्ति, दैगम्बरी च व्यवस्था निराकुर्वन्ति। अतस्तेषां मतेन 'प्रमाणम् , नयः' इति च द्वावेव विभागौ, प्रमाणं सम्यक् , नयास्तु सर्वेऽपि मिथ्यावादिनः। यशोविजयवाचकरिदं मलयगिरिसूरिमतं गुरुतत्त्व विनिश्चयटीकायां विस्तरेण विचारितम् । अस्य नयचक्रप्रथमविभागस्य गुर्जरभाषानिबद्धायां प्रस्तावनायामेतानि विविधानि मतानि विस्तरेणास्माभिरुपदर्शितानि, अतो जिज्ञासुभिस्तत्र विलोकनीयम् । २ स्यादस्ति, स्यान्नास्ति, स्यादवक्तव्यः, स्यादस्ति नास्ति, स्यादस्ति अवक्तव्यः, स्यान्नास्ति अवक्तव्यः, स्यादस्ति नास्ति अवक्तव्यः' इति सप्तभङ्गयां सप्तापि भङ्गा विवक्षया सकलादेशरूपा विवक्षया च विकलादेशरूपा भवन्तीति अकलङ्कादयो दिगम्बराचार्या मन्यन्ते । प्राचीनाः श्वेताम्बराचार्याः किं मन्यन्ते स्मेति निणेतुं दुष्करम् । अकलङ्कादुत्तरकालीनेषु श्वेताम्बराचार्येषु तु तत्त्वार्थटीकाकारसिद्धसेनगण्यादयो बहव आचार्या आद्यं भङ्गत्रयं सकलादेशत्वेन स्वीकुर्वन्ति, अवशिष्टांस्तु विकलादेशत्वेन। वादिदेवसूरय अकलङ्कनिर्दिष्टां प्रक्रियां खीकुर्वन्ति, यशोविजयवाचका अपि आदौ एवमेव स्वीकृतवन्तः, किन्तु अन्ततो गत्वा अटसहस्त्रीतात्पर्यविवरणे सिद्धसेनगग्यङ्गीकृतमेव मतं तेऽपि स्वीचक्रुः। कलिकालसर्वज्ञहेमचन्द्रसूरिशिष्याभ्यामाचार्यरामचन्द्र-गुणचन्द्राभ्यामुभयविधमपि मतं द्रव्यालङ्कारखोपज्ञवृत्तावुपदर्शितम् । किन्तु यदा आद्यास्त्रयो भङ्गाः सकलदेशा अवशिष्टाश्च विकलादेशास्तदा ‘सकलादेशः प्रमाणम् , विकलादेशो नयः' इत्यर्थस्तत्र नाभिप्रेतः, अपि तु अन्य एव। यदा तु सप्तापि भङ्गा विवक्षया सकलादेशा विवक्षया च विकलादेशास्तदा 'सकलादेशः प्रमाणम् , विकलादेशो नयः' इत्यर्थस्य स्वीकारेऽपि विकलादेशसप्तभनयां स्यात्पदप्रयोगो रामचन्द्रगुणचन्द्राभ्यां नाभ्युपगतः । विस्तरार्थिभिरस्य नयचक्रप्रथमविभागस्य गुर्जरभाषानिबद्धा प्रस्तावना विलोकनीया ॥ ३ पृ.८४ पं०५-८ इत्यादि । विस्तरार्थिभिरस्य नयचक्रप्रथम विभागस्य गुर्जरभाषानिबद्धप्रस्तावना विलोकनीया ॥
नय. प्र. ४ Jain Education International For Private & Personal Use Only
www.jainelibrary.org