________________
२४
नयचक्रस्य
नयचक्रवृत्तिगतनिर्देशप्रामाण्येन गद्यमयग्रन्थप्रणयनमपि सिद्धसेनाचार्यैः कृतमिति प्रतीयते । सिद्धसेनाचार्यप्रणीतायां द्वात्रिंशिकायां तत्त्वार्थसूत्रस्यानुसरणं स्फुटमेव विलोक्यत इत्यपि ध्येयम् । मल्लवादिक्षमाश्रमणैः सिद्धसेनाचार्यप्रणीतसम्मतिप्रकरणस्य वृत्तिर्विरचितेति प्रागावेदितमेवास्माभिः । अतो मल्लवादिक्षमाश्रमणानां सिद्धसेनाचार्येभ्य उत्तरकालीनत्वं सिद्धमेव । सम्प्रति एकत्वेन मन्यमाने नन्दिसूत्रे पुरा भागद्वयमासीत्कश्चिदंशः सूत्ररूपः कश्चिञ्च ततः पृथग् भाष्यरूप इति अष्टमेऽरे नयचक्रवृत्तिगतनिर्देशानुसारेण प्रतीयते । कस्मिंश्चित् समये तु सूत्रं भाष्यं च परस्परेण सम्मील्यैकीभावमापन्नमुभयोश्च प्रसिद्धिर्नन्दिसूत्रनाम्नैव जातेल्यनुमीयते, दृश्यतां टिपृ० ६८ पं० २-७ । एतद्विषयेऽस्माभिर्विस्तरेण प्रक्रान्तं सुरतनगरस्थ देवचंदलालभाईपुस्तकोद्धारफंड'तः प्रकटयिष्यमाणे देवानन्दविशेषाङ्के, अतस्तज्जिज्ञासुभिस्तत्र विलोकनीयम् । किञ्चान्यत् , नयचक्रे वृत्तौ च दृश्यमानेष्वागमपाठेषु सम्प्रत्युपलभ्यमानागमपाठेभ्यः सुमहदन्तरं दृश्यते । केचित्त्वत्रोद्धृताः पाठा आगमग्रन्थेषु सम्प्रति दृश्यन्त एव न । सम्प्रति प्रसिद्धा ह्यागमिकपाठसङ्कलना देवर्धिगणिक्षमाश्रमणतो वीरनिर्वाणसंवत् ९८० वर्षे पुस्तकारूढेति कल्पसूत्रवृत्त्यादिषु श्रूयते, मल्लवादिक्षमाश्रमणास्तु वीरनिर्वाणसंवत् ८८४ वर्षेऽभूवन् , अतस्तेषां प्राचीनागमपाठपरम्परानुसारित्वमूल एवायं महान् पाठभेदः। अत एव च नयचक्रवृत्तिकृतां सिंहसूरिक्षमाश्रणानामपि प्राचीनत्वं प्राचीनागमपाठपरम्परानुसारित्वं च स्फुटमेव प्रतीयते । अत आगमशास्त्राणां केषाञ्चित् पाठानां प्राचीनखरूपं जिज्ञासुभिरवश्यं विलोकनीयोऽयं ग्रन्थः । बृहत्कल्पावश्यकनियुक्तितः काश्चन नियुक्तिगाथा अप्यत्रावतारिताः । योनिप्राभृतस्यापि निर्देशोऽत्र दृश्यते ।
स्याद्वादस्य पारमार्थिकं स्वरूपं सप्तमेऽरे भगवता मल्लवादिना यद् वर्णितं तदपि स्याद्वादस्य परमार्थं जिज्ञासुभिरवश्यं विलोकनीयम् ।
इति । तथा व्याख्यातारोऽपि प्रस्थिताः-"नाम-स्थापना-द्रव्य-भिन्नलिङ्गवाच्येष्टाकरणाद् भावयुक्तवाची शब्दः' इति।'पृ० ५८८-५८९॥
१ “सत्तार्थी इत्यविशेषेण वचनात् , अस्ति-भवति-विद्यति-पद्यति-वर्ततयः सन्निपातषष्ठाः सत्तार्थाः' [ ] इत्यविशेषेणोक्तत्वात् सिद्धसेनसूरिणा"-पृ० ३२४ पं० २६-२८॥ २ दृश्यतां टिपृ० ४१ पं० १-४ टि. १॥ ३ पृ० ५५९ पं० १०-१३ ॥ ४ दृश्यतां पृ० ३२४ पं० ४-५, पृ० ३६१ पं० ६-८ इत्यादि ॥ ५ एतेषां पाठाना नयचक्रे वृत्तौ च पृष्टाङ्काः प्राकथने पृ० २३ टि. १० इत्यतो ज्ञातव्याः॥६"णिच्छयतो सव्वलहं... ...॥६५॥” इति बृहत्कल्पनियुक्तिगाथा मल्लवादिना नयचक्रमूले पृ. ३०१ इत्यत्रोद्धृता । अत्र पाठभेदः सिंहसूरिक्षमाश्रमण कृतैतद्गाथाव्याख्या च विलोकनीया ॥ ७ दृश्यतां पृ० १८२, २१२, २४३, ३७३, ४०८, ४१४, ४७८, ५५० इत्यादि ॥ ८ दृश्यतां पृ० २०२ पं० २०-२२ ॥ ९ दृश्यतां पृ० ४९९ पं०५-पृ०५०२ पं.३ । अस्य नयचक्रप्रथमविभागस्य गुर्जरभाषानिबद्धायां प्रस्तावनायामपि जिज्ञासुभिर्विलोकनीयम् ॥
____ 1 " लक्षणं च यथार्थाभिधानं शब्दः [ तत्त्वार्थभाष्य. १।३५ ], तथा नाम स्थापना-द्रव्य-भिन्नलिङ्गवाच्येष्टाकरणाद् भावयुक्तवाची शब्दः [
] इति च लक्षणान्तरम्” इति अष्टमेऽरे [पृ. ५९६ पं० ७-९] “यदपि लक्षणकारेण शब्दनयलक्षणमुक्तं 'नामस्थापनाद्रव्यभिन्नलिङ्गवाच्येष्टाकरणाद भावयुक्तवाची शब्दः' इति" इति नवमेऽरे [पृ० ४९४-१] च पुनरप्युद्धृतमेतद् नयचक्रवृत्तौ । विशेषावश्यकभाष्यस्य कोहार्यगणिविरचितायां टीकायामप्युद्धृतमेतत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org