________________
प्राकथनम् प्रत्यरं 'भाव-द्रव्य-पर्याय'शब्दार्थव्युत्पत्तिः पाणिनीयसूत्रानुसारेणैवात्र दर्शिता मल्लवादिभिः । पाणिनीयशिक्षायाः, यास्कनिरुक्तस्य, पाणिनीयसूत्राणां वार्तिकस्य च पाठा अप्यत्रोद्धृताः। पाणिनीयसूत्राणां काचित् प्राचीना वृत्तिरप्यासीदिति नयचक्रवृत्त्यवलोकनात् प्रतिभाति । पञ्चमारे वैयाकरणमतप्रस्तावे यास्कनिरुक्त-पातञ्जलमहाभाष्यादिग्रन्थेभ्योऽनेकानि वचास्यत्रोद्धृतानि । पृ० ३७९ पं० ८ इत्यत्र “भाष्यकारेण सांख्यादाहृत्योक्तः” इत्युल्लेखदर्शनात् पतञ्जलेः सांख्यमतानुसारित्वमपि स्फुटमवे ज्ञायते । पातञ्जलमहाभाष्ये [५। १॥ ११९] वर्णितं ' गुणसन्द्रावो द्रव्यम् ' इति मतमपि सांख्यादेवाहृतं प्रतीयते, दृश्यतां नयचक्रवृत्तौ पृ० २६८ पं० ११, पृ० ३०३ इत्यादि । अष्टमेऽरे तन्त्रार्थसहाभिधस्य वैयाकरणग्रन्थस्याप्युल्लेखो 'नयचक्रवृत्तौ दृश्यते । भांगुरि-सौनागाद्याचार्याणामपि मतं निर्दिष्टमत्र । चरकसंहितादिवैद्यकशास्त्रसम्बन्धिनोऽप्यनेके पाठा अत्रोद्धृताः।
नयचक्रे वृत्तौ च जैनागमादिग्रन्थानां पाठादिनिर्देशाः जैनौगमग्रन्थेभ्यो बहवः पाठा अत्रोद्धृताः । कर्मप्रकृतिवृत्त्यादिषु दृश्यमानाद् वर्गणास्वरूपवर्णनात कथञ्चिद् भिन्नं वर्गणास्वरूपवर्णनं नयचक्रवृत्तौ [ पृ० ३४८ ] विस्तरेण दृश्यते । बहुषु स्थलेषु प्रसङ्गानुसारेण नानाविधा आगमिकसिद्धान्तसम्बद्धाश्चर्चा अत्र दृश्यन्ते । एतत्त्वार्थाधिगमसूत्राणि प्रभूतेषु स्थानेष्वत्रोद्धृतानि नयचक्रवृत्तौ । तत्त्वाभाष्यस्याप्यवतरणं [पृ० ११४ प० २४, पृ० ५९६ पं० ८ ] नैयचक्रवृत्ती दृश्यते । सिद्धसेनाचार्यप्रणीतात् सन्मतिप्रकरणाद् द्वात्रिंशिकादेश्चाँनेकाः कारिका अत्रोद्धृताः । तृतीयेऽरे
१पृ. १५, १७, ११५, १७३, २४४, २६१, ३३४, ३७७, ४१४, ४५४, ७३७ इत्यादि ॥ २ पृ० ५६४५६५, ५९४ ॥ ३ पृ० १२६, ३८३, ४०६ । “एकोत्तरं शतमुदकनामानि निरुक्ते पठ्यन्ते ।"-पृ० ७१५ पं० १५॥ ४ "तथा चोक्तम्-सूत्रेष्वेव हि तत् सर्वं यद् वृत्तौ यच वार्तिके । उदाहरणमर्थस्य प्रत्युदाहरणं पशोः ॥ इति । "पृ० ३९७ । पृ० ७, २०४, २३२, २६१, ३६५, ३७८, ४११, ४१५, ५९३ इत्यादि ॥ ५ द्रष्टव्यमुपरितनं टिप्पणम् ॥ ६ द्रष्टव्यमत्र प्राक्कथने पृ० २२ टि. १०, पृ. २३ टि. ३॥ ७ पृ० ५७९ पं० १५॥ ८ पृ० ३७ पं० ११-१२॥ ९ पृ० ११८, १५८, १७५, १७६, १८३, २०३, २२५, ३५८ इत्यादि ॥ १० पृ० ३, ११५, १७९, १८३, १८६, १९०, २११, २१८, २२८, २४१, २४२, २५९, २७७, २७८, २९६, ३३४, ३५१, ३५९, ३६१, ३६२, ३७५, ४५०,४६३, ४७०, ५५०, ५५१,५५९, ७३७ इत्यादि ॥ ११ पृ० २, पृ० १११ पं० २५, पृ० ११२, पं० ४, पृ० १८२, १८३, २०४-२०५, २११, २१७, ३०१-३०२, ३१३, ३२९, ३३७ पं० १७-२२, पृ० ३४८-३५१, ३६२, ३६६-३६८, ३७२, ४०३, ४७४-४७८, ५४३, ५५१, ५५९, ५९८-५९९ इत्यादि ॥ १२ पृ० १७, २२, ८५, २४८, ३१२, ३1३ इत्यादि द्रष्टव्यं । तत्त्वार्थाधिगमसूत्राणां छाया तु नयचक्रवृत्तौ नेकेषु स्थलेषु दृश्यते, दृश्यतां पृ० २०४ पं० १९, पृ० २०५, पं० ५-७, पृ० २१४ पं० ५ टि. १० इत्यादि ॥ १३ नयचक्रमूलेऽपि तत्त्वार्थस्वोपक्षभाष्यस्यावतरणं छाया वाष्टमेऽरे स्फुटमेव विलोक्यते, दृश्यतां पृ० ५८८ पं० ४, १६, टि० ६, पृ० ५९६ पं० १, ६, ७॥ १४ पृ० २, ७ “णिययश्यणिज्ज......... इत्याचायसिद्धसेनः" पृ० ३५, पृ० ८४, ११५, २४४, ४९६, ५८५। "तथाचार्यसिद्धसेनोऽप्याह-नामंठवणा दविएत्ति......” पृ० ५९६ । पृ० ७३६, ७३७ पृ०५१२-१ । यथाचार्यसिद्धसेनश्चाह-भई मिच्छादसणसमूह...॥"-५६३-१,२ ॥ १५ पृ. ४, ४६ १२०, २४८ ॥ १६ “ तथा चाचार्यसिद्धसेन आह–'यत्र ह्यर्थो वाचं व्यभिचरति नाभिधानं 'तत्' [ .
1 आचार्यसिद्धसेनेन कस्मिन् ग्रन्थेऽमिहितमेतदिति न ज्ञायते, सम्प्रति तस्य ग्रन्थस्यानुपलब्धेः । तत्त्वार्थसूत्रस्य वृत्ती [१।३४, पृ० ११६] सिद्धसेनगणिभिरप्युद्धृतमेतत् ॥ 2 एतत्पर्यन्तमाचार्यसिद्धसेनस्य वचनम् । अतः परं 'तथा व्याख्यातारोऽपि' इति निर्देशात् तस्य सिद्धसेनाचार्यवचनस्य केनचिद् विरचितायां व्याख्यायां कुत्रचिद् ग्रन्थान्तरे वा 'नाम-स्थापना-द्रव्य-भिन्नलिङ्गवाच्येष्टाकरणाद्भावयुक्तवाची शब्दः' इति शब्दनयलक्षणं भवेदिति सम्भाव्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org