SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २२ यत्र स्वरचितग्रन्थस्योपरि वृत्तिर्विरचिता तत्र तादृश्या वृत्तेरत्र नयचक्रवृत्तौ भाष्यत्वेन निर्देशो विहित इति पृ० ७१८ पं० १४ इत्यत्र स्थादुल्लेखात् प्रतीयते, अतोऽयं टीकाकारो दिङ्गागाद् भिन्न एव प्रतीयते । अष्टमेरे दिङ्गागरचितस्य ग्रन्थस्य केनचिद् विरचितायाष्टीकाया अनेकेषु स्थानेषु, एकत्र च अनेकेषां टीकाकाराणामप्युल्लेखो दृश्यते । ईश्वरसेनेन जिनेन्द्रबुद्धिना च प्रमाणसमुच्चयस्य टीका विरचिता, धर्मकीर्तिना च प्रमाणसमुच्चयं व्याख्यातुं प्रमाणवार्तिकं रचितम् । तत्र ईश्वरसेनस्य समयोऽनिश्चितः, तत्कृता प्रमाणसमुच्चयटीकापि सम्प्रति न प्राप्यते । धर्मकीर्तिजिनेन्द्रबुद्ध्योस्तु मल्लवादिसिंह सूरिभ्यामुत्तरकालीनत्वात् तयोनिर्देशोऽत्रानवकाश एव । धर्मकीर्त्तिरचितन्यायचिन्दोर्धर्मोत्तर कृतव्याख्यायाष्टिप्पणकारोऽप्यस्त्येको मल्लवादी, किन्तु स नयचक्रकाराद् मल्लवादिनो भिन्न एव । अतः के इमे टीकाकारा इति मृग्यमैतिह्यरसिकैः । 1 शब्दार्थवाक्यार्थादिविचारणायां भर्तृहरेर्वाक्यपदीयादनेकाः कारिका अत्रावतारिताः । अष्टमेऽरेऽभिजल्पशब्दार्थचर्चायां भर्तृहरेरुपाध्यायस्य वँसुरातस्यापि मतोल्लेखो विलोक्यते । षडङ्गयोगविषयकः संक्षिप्तोऽप्यत्यन्तमुपयोगी निर्देशो नयचक्रवृत्तौ [ पृ० ३३२ ] विद्यते । प्रत्याहाररेचकपूरककुम्भक प्राणायाम ध्यान धारणा - तर्क- समाधीनां षण्णां योगाङ्गानां वर्णनं योगजिज्ञासूनामवश्यं विलोकनार्हम् । नयचक्रस्य पाणिनीयशब्दानुशासन सूत्र - धातुपाठयोः पातंञ्जलमहाभाष्यस्य चात्र भूयांस उल्लेखा उपलभ्यन्ते । द्रष्टव्यः १ "टीकायां चोदितम् - अनाक्षिप्तैर व्याप्तैरपि सामानाधिकरण्यं भविष्यति विवक्षावशात् 'इदं विशेष्यमिदं विशेषणम्' इति । अत्र भाष्येण पर एवोत्तरमाह-न ह्यसत्यां व्याप्तावित्यादि ।” - पृ० ६१८ पं० १४-१६ । “सह टीकया भाष्यग्रन्थो ........ सव्याख्यानः सामान्यपरीक्षाकार लिखित एवात्रापि " - पृ० ६२८ पं० ७-८ । “सम्बन्धो यद्यपि द्विष्ठः [ प्र० स०२/१९] इत्यादिकारिकाः सभाय्याः " - पृ० ६७८ पं० १६ - १७ । “भाष्यग्रन्थमाह-- स्वसम्बन्धिभ्योऽन्यत्रादर्शनादित्यादि । अस्य व्याख्या टीकाग्रन्थो यत्र दृष्ट इत्यादिः " - पृ० ७२८ पं० १४-१५ । “उत्तरमाह ततः 'अद्रव्यवाच्च भेदाच्च' इति कारिकया, चशब्दा[द् भा]ष्ये लिखितम् " - पृ० ७३४ पं० १३-१४ ॥ २ उपरितनं टिप्पणं द्रष्टव्यं । "यथोक्तमित्यादि टीकाग्रन्थ एव... ........ यद्यपि क्वचिदित्यादि स एव टीकाग्रन्थः " - पृ०६६२ पं० १११४ ॥ ३" यथा चाहुरित्यादि । टीकाकारैर्यानि साधनान्युक्तानि जातिमत्पक्षदोष प्रदर्शनार्थानि तान्येवापोहवत्पक्षेऽपि तद्दोषप्रदर्शनार्थानि । ” – पृ०६२१ पं० २५-२६ | अत्रेदमवधेयम्-के इमे टीकाकारा इति निर्णेतुं वयं न शक्नुमः । तथाहिचीनग्रन्थान्तर्गतोल्लेखानुसारेण 'दिनागस्य शङ्करस्वामी नाम शिष्य आसीत्' इति Dr. E. Frauwallner इत्येभिः WZKSO, Band V, 1961 पृ० १४० इत्यत्रावेदितम् । किन्तु दिागरचितग्रन्थस्योपरि तेन रचिता काचिदपि टीका न श्रूयते । धर्मपालेन दिङ्गागस्य आलम्बनपरीक्षाया उपरि टीका रचिता, तथापि मल्लवादिना यस्मिन् विषये टीका सन्दर्भा उद्धृतास्ततो भिन्नविषयत्वादालम्बनपरीक्षाया धर्मपालकृतटीकाया अत्रानवकाश एव ॥ ४ कर्णकगोमिना प्रमाणवार्तिकस्ववृत्तेष्टीकायां [ पृ० १२ पं० २१ ] अर्चटेन हेतुबिन्दुटीकायां [ पृ० १२ पं० २] दुर्वेकमिश्रेण हेतु बिन्दुटीकालोके [ पृ० ४० ५ पं० १९] च निर्दिष्टेयं टीका ॥ ५ अत एव मल्लवादिना ततः किमपि पूर्वपक्षरूपेणोपन्यस्तं न वेत्यपि ज्ञातुं न शक्यते ॥ ६ पृ० ३६, ६६, ११४, १२७, २३०, २४२, २४४, ३३३, ३९३, ४५०, ५५८, ५७९-५८२, ६०४, ६२०, ६६९, ७१६, ७३६ इत्यादि ॥ ७ अत्र प्राक्कथने पृ० १५ टि० २ इत्यत्र द्रष्टव्यम् ॥ ८ पृ० १५, ४९, ५८ इत्यादि ॥ ९ पृ० १५, १६ इत्यादि ॥ १० पृ० १५, २१, ३३, ५६, १२३, १२५, १२८, १३०, १३३, १३४, १४२, १५५, १७३, १८०, २१९, २४२, २४४, २६१, २६८, ३०४, ३७९, ३८०, ३८३, ३८५, ३८८, ३९५, ३९७, ४१२, ५७०, ५७१, ५७३, ५७५, ५०६, ६१७ इत्यादि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy