________________
प्राक्कथनम्
२१.
शौद्धोद नि-मस्करिप्रभृतय:" [पृ. ८ पं. ५ ] इति व्यासस्य नामोल्लेखो नयचक्रवृत्तौ दृश्यते । नित्यत्वादि -- वादिनां मतान्यपि तत्तन्थेभ्योऽत्रोपन्यस्तानि । भाववादिमते संवादार्थं कतिचन ब्रह्मवादिकारिका अप्युपन्यस्ताः । चतुर्थारेऽपि [ पृ. ३७३ ] ब्रह्मनिरूपणमुपलभ्यते । भर्तृहरेः शब्दब्रह्मवादस्याप्युल्लेखः पृ. २३० पं. १६ - १८ इत्यत्र दृश्यते ।
बौद्धमतप्रस्तावे क्षणिकवाद -विज्ञानवाद-शून्यवादार्थेनेकवादानां चर्चात्र विलोक्यते । अभिधर्मपिटक-प्रकरणपादादिसंस्कृत बौद्धागमेभ्य आर्यदेवकृत चतुःशतकाद् वसुबन्धुप्रणीताभिधर्मकोशद् दिङ्गागरचितप्रमाणसमुच्चय-वृत्ति-न्यायमुख-आलम्बन परीक्षा हस्तेवाल प्रकरण-अपोहविषयक प्रकरणाद्यनेकग्रन्थेभ्योऽन्यग्रन्थेभ्यश्च पाठा अत्रोद्धृताः । प्रथमाष्टमारयोर्महता विस्तरेण दिङ्गागमतं परीक्षितं मल्लवादिभिः । नयचक्रादिषु वर्णितं दिङ्गागमतं सम्यगवगन्तुं भोटपरिशिष्टमपि योजितमत्रास्माभिष्टिष्पणेषु । प्रमाणसमुच्चयादीनां दिङ्गागरचितग्रन्थानां संस्कृते विनष्टत्वात् तेषां भोटभाषानुवादानां तूपलम्भाद् भोटभाषान्तरतः संस्कृते परिवर्तनं विधाय दिङ्गागप्रणीत प्रमाणसमुच्चयादेः कतिपयोंऽशो भोटपरिशिष्टे उपन्यस्तोऽस्माभिः, अतो विशेषार्थिभिभटपरिशिष्टमेव विलोकनीयम्, टिपृ० ९५-१४० । प्रमाणसमुच्चयस्य, प्रत्यक्षलक्षणवर्णनपरस्य दिङ्गागस्यैव कस्यचिद् ग्रन्थान्तरस्य वा कश्विट्टीकाकारोऽप्यत्र पृ० ९३ पं० २७ इत्यत्र निर्दिष्टः प्रतीयते, दिङ्गागेन
॥
९ पृ० ६४, ७३, ३०६ टिपृ० ३०-३१ १२ पृ० ५४७, ६११, ६१२, ७३३, ७३४
१ पृ० २४१ पं० ४-११ ॥ २ एकादशेऽरे क्षणिकवादः । तथा दृश्यतां पृ० २४७ पं० १४-१५ ॥ ३ द्वादशेऽरे । तथा दृश्यतां पृ० २४७ पं० १७-२५ ॥ ४ दशमेऽरे बौद्धाभिमतो रूपादिसमुदायवादः प्रतिपादितः । तथा दृश्यतां पृ० २४७ पं० ८-१२ ॥ ५ पृ० ६१, ६२, ६४, ७४, ८२ इत्यादि ॥ ६ पृ० ७३, ८२, ९४ ॥ ७ पृ० ६७, ७८, ७९, ९२ ॥ ८ पृ० ६४, ८६, ८९, ९३, ९६, ३०६ इत्यादि इत्यादि ॥ १० पृ० ९१ ॥ ११ पृ० ९३ पं० १, टिपृ० १३६ ॥ इत्यादि ॥ १३ दिङ्गागेनानेकेषु ग्रन्थेषु अपोहवादः प्रतिपादितः, अतोऽष्टमेऽरे दिन स्यापोहविषयकात् कस्मात् प्रकरणादपोहविषयकः पूर्वपक्षो मलवादिभिरुपन्यस्त इति निर्णेतुं न पार्यते । यद्यपि सम्प्रति उपलभ्यमानस्य प्रमाणसमुच्चयस्य पञ्चमेऽपोहपरिच्छेदेऽपोहप्रतिपादनं दृश्यते, तथापि महवादिना दिङ्गागस्य प्रमाणसमुच्चयात् स न साक्षादुपन्यस्तः, यतो मलवादिना निर्दिष्टाः केचिदशाः प्रमाणसमुच्चये तद्वृत्तौ वा दृश्यन्ते, केचित्तु नैव दृश्यन्ते पाठभेदेन क्रमभेदेन वा दृश्यन्ते, दृश्यतां नयचक्रे पृ० ५४७ पं० १, ७ । पृ० ५४८ पं० १२-१४ । पृ० ६०६ टि० ७ । पृ० ६०७ टि० ५। पृ० ६०९ पं० १, ६, १४, टि० १,८ । पृ० ६१० टि० १४ । पृ० ६११ पं०५-७, २१-२२, टि० १४ । पृ० ६१२ पं० ५ । पृ० ६१५ पं० १२ | पृ० ६२० पं० १४, पृ० ६२३ टि० ९ । पृ० ६२७ पं० ७ । पृ० ६२८ पं० ७८, टि० ४ । पृ० ६३० टि० २ । ०६३४ टि० २ | पृ० ६३७ टि० ३ । पृ० ६५० पं० ३ टि० १ । पृ० ६५२-६५३ । पृ० ७३३ पं० १३, १९ । पृ० ७३४ पं० ५ । पृ० ७३५ पं० २४ । अतो दिङ्गागस्य कुतश्चिदन्यस्मात् ग्रन्थतः स उपन्यस्तः । " न चाकृतसम्बन्धे शब्देऽर्थाभिधानं न्याय्यम्, स्वरूपमात्रप्रतीतेरित्यादि यावद् न गुणत्वादिव्यभिचारात् " [पृ० ६२७ ] इति नयचक्रस्य वृत्तौ " यत्र शब्दस्यार्थेन सम्बन्धोऽव्युत्पन्नो यथा म्लेच्छशब्दानां तत्र शब्दमात्रमेव प्रतीयते इत्यादिः सह टीकया भाष्यग्रन्थो द्रष्टव्यो यावद् न गुणत्वा दिव्यभिचारादित्यवधिराचार्येण यावत्कारितः सव्याख्यानः सामान्यपरीक्षाकार लिखित एवात्रापीति न लिख्यते " [ पृ० ६२७-६२८ ] इति नयचक्रवृत्तिका रेणापोहनिराकरण प्रसङ्गेऽभिधानाद् दिागस्य सामान्यपरीक्षात अपोहविषयकः सर्वः पूर्वपक्षो मलवादिभिरुपन्यस्त इति वयं सम्भावयामः । एवं सत्यपि दिङ्गागेन स्वग्रथितग्रन्थसारसमुच्चयाय प्रमाणसमुच्चयस्य विरचितत्वाद् दिङ्गागेन ग्रन्थान्तरोक्ता विषया अपि प्रमाणसमुच्चये केचिदक्षरशः केचित्तु अर्थसाम्येन पुनरपि चर्चिता इति प्रमाणसमुच्चयस्य नयचक्र संशोधनकर्मणि नयचक्ररहस्यज्ञाने चोपयुक्तत्वं सुतरामस्त्येव । अत एव च तत्र तत्रास्माभिर्भीभाषानुवादात् संस्कृते परिवर्त्य प्रमाणसमुच्चयस्यानेकेंऽशा उपन्यस्ता इति ध्येयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org