________________
नयचक्रस्य
... वैशेषिकमतविचारणायां कणादप्रणीतवैशेषिकसूत्रव्याख्यातॄणां वाक्यकार-भाष्यकार-टीकाकाराणां कटन्दीकारस्य च मतं सप्तमेऽरे विस्तरेण चर्चितं मल्लवादिभिः । 'वैशेषिकसूत्राणां संक्षिप्तव्याख्यारूपः कश्चिद् वाक्यनामा ग्रन्थ आसीत् , तदुपरि केनचिद् विरचितं भाष्यमासीत् , भाष्यस्य चोपरि प्रशस्तमतिना टीका विरचिताऽभूत् , एवमन्या 'कटन्दी नाम्न्यपि वैशेषिकसूत्राणां काचिट्टीकाऽऽसीत् , अपरा अपि बह्वयष्टीका आसन्' इति नयचक्रवृत्तिगतनिर्देशानुसारेण प्रतीयते । पदार्थधर्मसंग्रहाख्यं प्रशस्तपादभाष्यमपि प्रशस्तपादापराभिधानेनानेन प्रशस्तमतिनैव प्रणीतमिति प्रतीयते । एतत् सर्वमस्माभिः सप्तमारे पृ. ५१२ टि. ७ इत्यत्र विस्तरेणोपदर्शितमिति तत्रैव विलोकनीयम् । प्राचीनवैशेषिकैतिह्यजिज्ञासुभिरवश्यं विलोकनीयोऽयं ग्रन्थः । किञ्च, कणादप्रणीतानि वैशेषिकसूत्राण्यपि नयचक्रवृत्तावनेकत्रावतारितानि । तेषु कतिचित् सूत्राणि सम्प्रति प्रचलिते उपस्कारकृदाद्यभिमते वैशेषिकसूत्रपाठे नैव दृश्यन्ते, केषुचिच्च सूत्रपाठेषूभयत्र महदन्तरं दृश्यते । मुनिराजश्रीपुण्यविजयजीमहाभागैः प्रेषिते पञ्चमारमुद्रणानन्तरमस्म दृष्टिपथमायाते चन्द्रानन्दविरचितप्राचीनवृत्तिसमन्विते प्राचीने वैशेषिकसूत्रपाठे तु अत्रान्यत्र च प्राचीन ग्रन्थेष्ववतारितानि सर्वाण्यपि सूत्राणि प्रायो यथावदुपलभ्यन्ते इति तस्यातिविशिष्टत्वं विभाव्य चन्द्रानन्दविरचितवृत्तियुतः समग्रोऽपि प्राचीनो वैशेषिकसूत्रपाठोऽस्माभिः पृथक् पृथक् टिप्पणेष्वत्र मुद्रितः । दृश्यतां वैशेषिकसूत्रसम्बन्धिपरिशिष्टम् , टिपृ. १४१ ।
मीमांसकमतप्रस्तावे वेद-ब्राह्मणादिग्रन्थेभ्योऽनेके पाठा जैमिनीयमीमांसादर्शनसूत्राणि चात्रोल्लिखितानि । मीमांसादर्शनस्य प्राचीनव्याख्याभ्यो मतमुपन्यस्यात्र परीक्षितमिति प्रतीयते। मीमांसकमतस्य स्थापना प्रथमेऽरे [ पृ. ४५, १११ ], विस्तरेण तत्परीक्षा तु द्वितीयेऽरे [ पृ. ११७-१५९ ] विलोकनीया ।
- अद्वैतमतसमीक्षायां पुरुष-नियति-काल-स्वभाव-भावादिवादिनां बहूनामद्वैतवादिनां मतानि द्वितीयेऽरे चर्चितानि, अतस्तदानीं नानाविधा अद्वैतवादिन आसन्निति प्रतीयते । पुरुषाद्वैतादिवादप्रस्तावे उपनिषदादिभ्योऽनेकानि वचांस्यत्रावतारितानि । उपनिषदां प्राचीना व्याख्या अप्यत्रावलम्बिता इति सम्भाव्यते । बादरायणप्रणीतब्रह्मसूत्रस्य निर्देशो न कापि दृश्यते, केवलं "तद्व्यतिरिक्ताः शासनिनः कपिल-व्यास-कणाद
१ Oriental Institute, Baroda इत्यतः Gaekwad's Oriental Series No. 136 रूपेण प्रकाशितस्य अस्मत्सम्पादितस्य चन्द्रानन्दविरचितवृत्तियुक्तस्य वैशेषिकसूत्रस्य प्रस्तावनायां [पृ०६-११] षष्ठे परिशिष्टे [पृ० १४६-१५२, पृ० १५० टि. १] च सविस्तरमेतदुपदर्शितमस्माभिः, अतो विस्तरार्थिभिस्तदपि सर्वं विलोकनीयम् ॥ २ दृश्यतां टिपृ० ८ पं० २४ । उपरिनिर्दिष्टस्यास्मत्सम्पादितस्य वैशेषिकसूत्रस्य प्रथमं द्वितीयं च परिशिष्टमपि विस्तरार्थिभिर्विलोकनीयम् ॥ ३ उपरिनिर्दिष्टस्यास्मत्सम्पादितवैशेषिकसूत्रस्य वृद्धिपत्रकम् [पृ. २२७-२३४] अत्रार्थे विलोकनीयम् ॥ ४ किञ्चान्यत् , अपरमपि वैशिष्टयमत्र विद्यते । वैशेषिकसूत्रे दा अध्यायाः, तत्र आयेषु सप्तस्वध्यायेषु प्रत्यध्यायमाह्निकद्वयम् , अन्तिमे त्वध्यायत्रये न कश्चिदाह्निक विभागश्चन्द्रानन्दस्याभिमतः, सर्वदर्शनसङ्ग्रहकारस्य माधवाचार्यस्याप्ययमेवाभिप्रायः प्रतीयते । सम्प्रतिसनेषु तु वैशेषिकसूत्रपाठेषु तद्वयाख्यासु च दशस्वप्यध्यायेषु प्रत्यध्यायमाह्निकद्वयं दृश्यते । एतच्चास्माभिरुपरिनिर्दिष्टस्य वैशेषिकसूत्रस्य चतुर्थे परिशिष्टे विस्तरेणावेदितमिति जिज्ञासुभिस्तत्र विलोकनीयम् ॥ ५ मुनिराजश्रीपुण्य विजयजीमहोदयप्रेषितप्रत्यनुसारेणैतन्मुद्रणानन्तरं शारदालिप्यां लिखितमपि चन्द्रानन्दरचितवृत्तेरेक पुस्तकम् Oriental Institute, Baroda इत्यतोऽस्माभिर्लब्धम् । तदनुसारेण ये शुद्धाः पाठास्तेऽत्र शुद्धिपत्रके पृथक् सङ्गृहीता इति जिज्ञासुभिस्तदपि विलोकनीयम् ॥ ६ पृ० १२१, १२२, १३६, १४१, १४२, १४४, १५४, १५९, १८९, १९०, १९२, २१० इत्यादि ॥ ७ पृ० ४५, ११४ ॥ ८ पृ० १४४, १५४, १९१, २४८, २६६, २६७, ३३२ इत्यादि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org