________________
प्राक्कथनम् विशरणात् । एते हि द्वादशाऽपि नयाः परस्परविरोधेन प्रवर्तमाना विघटन्ते, यदा तु त एव स्याद्वादमाश्रयन्ते तदा स्याद्वादनाभिप्रतिबद्धत्वेनैकवाक्यतया एकप्रबन्धेनान्योन्यापेक्षया प्रवर्तमानाः सत्यार्थत्वेन प्रतिष्ठिता भवन्ति । एवं चान्वर्थकमिदं 'नयचक्रम्' इति नाम ।
चक्राकाररूपेण सर्वेषां नयानामत्र निवेशितत्वाद् द्वादशस्याप्यरस्य मतं पुनः प्रथमादिनयेन निषिध्यते । एवं चानवरतमिदं नयचक्र क्रमते ।
नयचक्रे नयोपन्यासपद्धतिः पूर्वपूर्वविरोधेनोत्तरोत्तरनयस्योत्थानमिति सर्वेऽपि नयवादाः पूर्वपूर्वनयमतदूषणार्थं स्वस्वमतप्रतिष्ठापनार्थ च क्रमशो नयचक्र उपतिष्ठन्ते । एवं च विध्यादिनयनिरूपणव्याजेन सर्वेषामपि तत्समयवर्तिनां मुख्यदार्शनिकमतानां व्यवस्थितश्चिन्तनक्रमो मल्लवादिभिायाधीशवद् माध्यस्थ्येनोपन्यस्तः। एकान्तवादल्यागेन वादपरमेश्वरस्य स्याद्वादस्य संश्रय एव सर्वेषामपि श्रेयानिति च तेषु तेषु 'विध्याद्यरेषूपवर्णितं मल्लवादिभिः । इत्थं च जैनदर्शनस्यानेकान्तवादितया सर्वनयसमूहात्मकत्वमप्रतिमया प्रतिभया सुष्ठूपपादितं मल्लवादिसूरिभिः ।
नयचक्रे चर्चिता दार्शनिकवादाः सर्वदर्शनचर्चागर्भितत्वादस्य ग्रन्थस्य सर्वेषामपि दर्शनानां तत्कालीनप्राचीनखरूपज्ञानायात्यन्तमुपयोग्ययं ग्रन्थः । अन्यत्र दुर्लभानां बहूनां ग्रन्थानां ग्रन्थकृतां चात्रोल्लेखदर्शनात् तत्तद्दर्शनेतिहासजिज्ञासुभिरवश्यमेवावलोकनीयोऽयं ग्रन्थः । विस्तरार्थिभिस्तावद् नयचक्रग्रन्थ एवाभ्यसनीयः । इह तु दिङ्मात्रमुपदश्यते
सांख्यमतस्य विचारणा प्राधान्येन वार्षगणतन्त्रमवलम्ब्यैव मल्लवादिभिः कृतेति प्रतिभाति । वार्षगणतन्त्रादिष्वाकरग्रन्थेषु विद्यमानेषु ईश्वरकृष्णरचिताया सांख्यकारिकाया अप्राधान्यात् सांख्यकारिकातः कोऽपि पाठो मल्लवादिना नोद्धृत इति भाति । 'नयचक्रवृत्तौ तु सिंहसूरिक्षमाश्रमणैः सांख्यकारिकातः कारिकाद्वयमुद्धृतमिति ध्येयम् । वार्षगणतन्त्राद् बहवः पाठाः संक्षेपेण विस्तरेण वा नयचक्रवृत्तौ तत्र तत्रावतारिताः। वार्षगणतन्त्रानुसारिसांख्यसिद्धान्तस्वरूपस्य नयचक्रवृत्तौ [पृ. ३१३-३२४] विस्तरेण वर्णनं विलोक्यते । प्राचीनसांख्यमतजिज्ञासूनामत्यन्तमुपयोग्ययं ग्रन्थः । सांख्यमतस्पष्टीकरणाय कचित् क्वचिद् भोटग्रन्था अप्यस्माभिरुपयुक्ताः, दृश्यतां भोटपरिशिष्टम् , टिपृ. १३४, १३६, १४०।
न्यायदर्शनसम्बन्धीनि अक्षपादप्रणीतानि सूत्राणि नयचक्रे 'नयचक्रवृत्तौ चानेकत्रोद्धृतानि । ईश्वरचर्चायामीश्वरप्रतिपादकानां केषाञ्चित् प्राचीनग्रन्थानां मतं नयचक्रे विस्तरेणोपन्यस्य मल्लवादिभिर्निरस्तमिति प्रतीयते; दृश्यतां पृ० ३२५- ३४६ । न्यायवार्तिककृत उड्योतकरस्य कचिद् नामोल्लेखो न दृश्यते, तथापि 'अचेतनत्वात् स्थित्वा प्रवृत्तेः, तुर्यादिवत् ' [पृ० ३२९ पं० २] इतीश्वरसाधनाय नयचक्र उपन्यस्तं प्रमाणमुझ्योतकरस्याभिमतमिति न्यायवार्तिकादवगम्यते । “उझ्योतकरस्तु प्रमाणयति.......स्थित्वा प्रवृत्तेस्तन्तुतुर्यादिवत्" इति तत्त्वसंग्रहपञ्जिकाकृतः कमलशीलस्य वचनाच्च तद् उक्ष्योतकरस्य मतं प्रतीयत इति ध्येयम् । दृश्यतामस्माकं टिप्पणेषु पृ० ३२८ टि० १, टिपृ० ८९ पं०५-१३ ।
१ पृ० ८३-८४, ४३६, ७१९-७२० इत्यादि ॥ २ पृ० ३५, २७७ ॥ १४३, १५६, १६८, २४१, ६१४, ६६७ इत्यादि ॥
३ पृ. ६१४ ॥
४ पृ० ३६, ५३,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org