________________
नयचक्रस्य
जैनदार्शनिकशास्त्रेषु प्रमाणमीमांसा-प्रमाणपरीक्षा-प्रमालक्ष्मादयो ग्रन्थाः प्राधान्येन प्रमाणस्वरूपप्रतिपादकाः, सन्मति-नयोपदेशादयो ग्रन्था नयस्वरूपप्रतिपादकाः, प्रमाणनयतत्त्वालोकालङ्कारादयः प्रमाणनयोभयखरूपप्रतिपादकाः, अनेकान्तजयपताकादयो ग्रन्था एकान्तवादनिरसनानेकान्तवादव्यवस्थापकाः, नयनिरूपणद्वारेण एकान्तवादनिरसनमनेकान्तवादप्रतिष्ठापनं चास्य नयचक्रस्य मुख्यो विषयः । 'द्रव्यस्यानेकात्मनोऽन्यतमैकात्मावधारणमेकदेशनयनाद् नयः' इति हि नयलक्षणम् । तेषां च वैचनपथतुल्यसंख्यत्वादनन्तत्वेऽपि जैनाचार्यैर्नैगम सङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूढ-एवम्भूताख्येषु सप्तसु नयेष्वन्तर्भावो विहितः । एतेषामपि सप्तानां द्वयोर्द्रव्यार्थिक-पर्यायार्थिकनययोः संक्षेपो विधीयते । नैगम-सङ्ग्रह-व्यवहारा द्रव्यार्थिकस्य भेदाः, ऋजुसूत्रादयस्तु पर्यायार्थिकस्य भेदाः । अयं हि नयवादो जैनदर्शनस्यातिविशिष्टो विषयोऽतस्तद्विषयका अनेके जैनग्रन्था उपलभ्यन्ते ।।
इदं पुनरवधेयम्-नयचक्रस्य नयविषयकत्वेऽपि साक्षाद् नैगमादयो नया न तस्य विषयः, अपि तु निम्नलिखिता विध्यादयो द्वादश नया एव प्राधान्येन नयचक्रे प्रतिपाद्यन्ते
१ विधिः, २ विधिविधिः, ३ विध्युभयम् , ४ विधिनियमः, ५ उभयम् , ६ उभयविधिः, ७ उभयोभयम् , ८ उभयनियमः, ९ नियमः, १० नियमविधिः, ११ नियमोभयम् , १२ नियमनियमः ।
एते च विध्यादिनया जिनप्रवचनप्रतिपादितनयैरपि सम्बद्धा एव । विध्यादयः षड् नया ट्रॅव्यार्थिकस्य भेदाः, उभयोभयादयश्च षड् नयाः पर्यायार्थिकस्य, भेदाः । एवं नैगमादिष्वपि नयेषु यथा विध्यादयो नया अन्तर्भवन्ति तथा तत्तद्विध्यादिनयनिरूपणान्ते विस्तरेण वर्णितं मल्लवादिसूरिभिः । दिड्मात्रं त्वत्रोपदयते
___ प्रथमस्य विधिनयस्य व्यवहारनये, द्वितीयतृतीयचतुर्थानां सङ्ग्रहनये, पञ्चमषष्ठयोर्नैगमे, सप्तमस्य ऋजुसूत्रनये, अष्टमनवमयोः शब्दनये, दशमस्य समभिरूढे, एकादशद्वादशयोस्तु एवम्भूतनयेऽन्तर्भावः । एतादृशविध्यादिद्वादशनयनिरूपणस्य नयचक्र एव दर्शनाद् मल्लवादिनश्चिन्तनशैली प्रतिभा च काप्यपूर्वासीदिति स्फुटमेवावगम्यते।
नयचक्रस्य बहिरङ्ग स्वरूपम् | 'नयचक्रम् ' इति चान्वर्थिकैवेयं संज्ञा । रथादिचक्रवदत्रापि 'अर'संज्ञकानि द्वादश प्रकरणानि विद्यन्ते । द्वादशसु प्रकरणेषु क्रमशो द्वादश विध्यादयो नया अत्र निरूप्यन्ते । विध्यादिनयनिरूपणव्याजेन तत्तन्नयानुसारिणस्तत्कालीनाः सर्वेऽपि दार्शनिकविचारा मल्लवादिसूरिभिरत्रोपन्यस्ताः । यथा च रथादिचक्रेडराणां परस्परतोऽन्तरमेवमत्रापि आदौ परपक्षं निरस्यानन्तरं स्वपक्षस्थापनाय विध्यादिनयानां प्रवृत्तत्वात् परपक्षनिरसनात्मको योऽशस्तद् द्वादशानामराणां परस्परतोऽन्तरम् । यथा च तत्र नानावयवघटितो नेमिरेवमत्रापि त्र्यवयवघटितो नेमिः, चतुषु चतुर्षु अरेषु एकैकस्य नेमेः परिसमाप्तत्वात् । यथा च तत्र सर्वेषामप्यराणामाधारभूतस्तुम्बापरपर्यायो नाभिरन्यथा तदसम्बद्धानां तेषां विशरणात् स्वकार्यकरणासामर्थ्याच्चैवमत्रापि वर्तते सर्वेषामपि विध्यादिद्वादशनयाराणामाधारभूतः स्याद्वादनाभिः, तत्प्रतिबद्धसर्वनयावस्थानादतोऽन्यथा
१ दृश्यतां पृ० १० पं० २४, पृ० ८४ पं० ६। टिपृ० १४ पं० १-५॥२ पृ. ७ पं० १२ । टिपृ० १० पं०३९ ॥ ३ पृ० १० पं० १-४ इत्यादि ॥ ४ दृश्यतां पृ० ४५४ पं० १ इत्यादि ॥ ५ दृश्यतां पृ० ४५५ पं. ६ इत्यादि ॥ ६ पृ. ४५३ पं०७॥ ७ दृश्यतां प्राक्कथनम् पृ. ९ टि. १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org