________________
प्राकथनम्
दिगम्बरजैनाचार्येण समन्तभद्रेण आप्तमीमांसायां दिङ्गागस्य मतं निराकृतमिति स्पष्टमेव विलोक्यते । अतो दिमागस्य समन्तभद्राचार्यस्य वा समयनिर्णये स्वारस्यं बिभ्रद्भिस्तदपि मनसि निधाय दिमाग समन्तभद्राचार्ययोः समयनिर्णये यतितव्यम् ।
नयचक्रस्यान्तरङ्गं स्वरूपम् 'मल्लवादिसूरिप्रणीतं नयचक्रं गद्यत्वेन निबद्धत्वेऽपि द्वात्रिंशद्भिरक्षरैरेकोऽनुष्टुप् श्लोक इति गणनया दशसहस्रश्लोकमितमासीत् । चतुर्विंशतिसहस्रश्लोकमानं पद्मचरितं नाम रामायणमपि मल्लबादिसूरिभिर्विरचितम्' इति प्रभावकचरितान्तर्गतोल्लेखांत् प्रतीयते । याकिनीमहत्तरासूनुहरिभद्रसूरि-सम्मतिवृत्तिकाराभयदेवसूरिप्रभृतिविहितोल्लेखप्रामाण्यात् सिद्धसेनदिवाकरप्रणीतसम्मतिप्रकरणस्य वृत्तिरपि मल्लवादिसूरिभिर्विरचितेति स्फुटमेव प्रतीयते । “सम्मतिवृत्तिर्मल्लबादिकृता ७००" इति बृहट्टिप्पनिकायामुल्लेखदर्शनाद् मल्लवादिरचितेयं सम्मतिवृत्तिः ७०० श्लोकपरिमितासीदिति प्रतिभाति ।
किन्तु सम्प्रत्येतेषु ग्रन्थेषु कश्चनापि नोपलभ्यते । केवलं सिंहसूरिगणिक्षमाश्रमणविरचिता १८००० श्लोकपरिमिता नयचक्रटीकैव सम्प्रत्युपलभ्यते तदनुसारेण च नयचक्रस्य स्वरूपं सम्यक् कल्पयितुं शक्यते ।
१ "शब्दान्तरार्थापोहं हि स्वाथै कुर्वती श्रुतिरभिधत्त इत्युच्यते” इति दिङ्नागीयं वचः तत्त्वसंग्रहपञ्जिकायां श्लो. १०१६, सन्मतिवृत्तौ पृ. २०४, सिद्धसेनगणिरचितायां तत्त्वार्थसूत्रवृत्तौ पृ०३५७, प्रमाणवार्तिकस्ववृत्तेः कर्ण कगोमिरचितायां वृत्तौ पृ० २५१, २५३ इत्यादिषु बहुषु स्थानेद्धतम्, विशेषार्थिभिः सप्तमेऽरे पृ० ५४८ इत्यत्र टिप्पण विलोकनीयम् । एतच्च दिङ्नागीयं वचः समन्तभद्राचार्येण आप्तमीमांसायामित्थं निराकृतम्
"वाक्स्वभावोऽन्यवागर्थप्रतिषेधनिरङ्कशः।
आह च स्वार्थसामान्यं, ताहग् वाच्यं खपुष्पवत् ॥ १११॥ किञ्चान्यत् , “ नार्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात् सामान्यं तूपदेक्ष्यते ॥” इति दिमागस्य श्लोकं निराकर्तुम् “अर्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वे सामान्यादुपसर्जनात् ॥” इति प्रतिश्लोको दिकागस्य मतं निराकुर्वता मलवादिक्षमाश्रमणेनोपन्यस्तः “अर्थविशेषश्च तवावाच्य एव” इति चोक्तम् । दृश्यतां पृ० ६१५ पं० २,१२, पृ०६१६ पं०३, पृ. ७०७ पं० १४-१६ । समन्तभद्राचार्येणाप्येतद् दिडागस्य वचः प्रतिविहितमित्थम् आप्तमीमांसायाम्
"सामान्यार्था गिरोऽन्येषां विशेषो नाभिलप्यते ।
सामान्याभावतस्तेषां मृषैव सकला गिरः॥१॥" २"नयचक्रं नवं तेन श्लोकायुतमितं कृतम् । प्राग्ग्रन्थार्थप्रकाशेन सर्वोपादेयतां ययौ ॥ ३४ ॥...."नयचक्रमहाग्रन्थः शिष्याणां पुरतस्तदा । व्याख्यातः परवादीभकुम्भमेदनकेसरी ॥ ६९ ॥ श्रीपद्मचरितं नाम रामायणमुदाहरत् । चतुर्विंशतिरेतस्य सहस्रा ग्रन्थमानतः ॥ ७० ॥” इति प्रभावकचरित्रे मलवादिप्रबन्धे ॥
३ "उक्तं च वादिमुख्येन मलवादिना सम्मतौ” इति अनेकान्तजयपताकाखोपज्ञवृत्तौ [ पृ० ५८,११६] हरिभद्रसूरयः ॥
४ “अत्र चाद्यभङ्गकस्त्रिधा, द्वितीयोऽपि विधैव, तृतीयो दशधा, चतुर्थो दशधैव, पञ्चमादयस्तु त्रिंशदधिकशतपरिमाणाः प्रत्येकं श्रीमलवादिप्रभृतिभिर्दर्शिताः । पुनश्च षइविंशत्यधिकचतुर्दशशतपरिमाणास्त एव द्वयादिसंयोगकल्पनया कोटिशो भवन्तीत्यभिहितं तैरेव । अत्र तु ग्रन्थ विस्तरभयात् तथा न प्रदर्शितास्तत एवावधार्याः ।" इति सम्मतिवृत्तौ [ २ । ४०, पृ. ४४७ ] अभयदेवसूरयः । "इहार्थे कोटिशो भङ्गा निर्दिष्टा मलवादिना। मूलसम्मतिटीकायामिदं दिङ्मात्रदर्शनम् ॥” इति अष्टसहस्रीतात्पर्यविवरणे [पृ०२१०] यशोविजयवाचकाः । किञ्चान्यत् , 'असिद्धः सिद्धसेनस्य विरुद्धो मल्लवादिनः । द्वेधा समन्तभद्रस्य हेतुरेकान्तसाधने ॥” इति कारिकाया न्यायावतारवार्तिकवृत्तौ [पृ० १०८] दर्शनादेकान्तसाधकानां सर्वहेतूनां विरुद्धत्वं मल्लवादिनोऽभिप्रेतम् , दृश्यतां टिपृ० ११ पं० २० । एतच्च नयचक्रवृत्त्या समर्थितं भवति, दृश्यतां पृ० ३०९ पं० २६-२७ । सम्मतिवृत्तावपि तथाभिहितं भवेदिति सम्भाव्यते ॥
नय. प्र.३ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org