SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ .१६ नयचक्रस्य च तेषु केषाञ्चित् मल्लवादितः पूर्वकालीनत्वात् केषाञ्चिच्च मल्लवादिना समकालीनत्वात् निकटकालीनत्वाद्वा प्राचीनग्रन्थानुसारेण प्रभाचन्द्राचार्यैर्निर्दिष्टो मल्लवादिसमयः कथमपि न विरुध्यत इति विदाङ्कुर्वन्तु समयनिर्णयरसिका विद्वांसः । खोऽनन्तरं तृतीये टिप्पणेऽत्रैव प्राक्कथने वक्ष्यमाणा अपरे च लेखा द्रष्टव्याः । Tibetan Citations of Bhartrhari's Verses and the Problem of his Date by Hajime Nakamura (Studies in Indology and Buddhology. Presented in honour of Professor Susumu Yamaguchi on the occasion of his Sixteenth Birthday, Kyoto, 1955, pp. 122 - 139 ) इत्यापि विलोक्यम् ॥ ३ "वसुबन्धोः स्वगुरोः 'ततोऽर्थाद् विज्ञानं प्रत्यक्षम् ' [ वादविधि. ] इति ब्रुवतो यदुत्तरमभिहितं परगुणमत्सराविष्टचेतसा तु येन केनचिदभिप्रायेण स्वमतं दर्शितमेव दिन्नेन वसुबन्धुप्रत्यक्षलक्षणं दूषयता ।" - पृ० ९६ । “वसुबन्धुं प्रति उक्ता ये दोषास्ते तत्रापि स्युः । पुनर्वसुबन्धुं दूषयितुकामेन विकल्पितः स एवार्थः । " - पृ० ९९ पं० २५-२९ । दिन- वसुबन्ध्वादिभ्यो बुद्धाच्च पूर्वकालत्वात् कापिलस्य तन्त्रस्य आर्हतैकदेशनयमतानुहारित्वाच्च" - पृ० ६९० पं० १७१८ । “प्रत्यक्षलक्षणवादिनो दिन्नभिक्षोः " - पृ० ६३ पं० ५ । “मायेय दिन्नाविव" - पृ० ७२ । " इति निर्दिष्टं स्वार्थमनुमानं मयैव, न वादविधिकारादिभिरित्याहोपुरुषिकयोपसंहरत्यान्या पोहिकः । " - पृ० ६८० पं० २२-२३ । अत्रेदमवधेयम्-दिन्न इति दिनक इति दत्तक इति च दिङ्गागस्यैव नामान्तराणि । एतच्चास्माभिः पञ्चमेऽरे पृ० ५४७५४८ इत्यत्र टिप्पणे विस्तरेणोपदर्शितमिति तत्र विलोकनीयम् । 'भर्तृहरि और दिङ्गाग का समय' नागरीप्रचारिणी पत्रिका, काशी, वर्ष ६०, अंक ३–४, सं० २०१२, पृ० २२७ - २३३ ) ' भर्तृहरि अने दिाग' (जैन आत्मानन्द प्रकाश, वर्ष ५०, अंक २ 15-9-52, भाद्रपद मास, पृ० २२ - २७ ) इत्यादयोऽस्मलेखा अपि विशेषजिज्ञासुभिर्द्रष्टव्याः- “समाने चार्थे शास्त्रान्वितोs - शास्त्रान्वितस्य निवर्तको भवति, तद्यथा देवदत्तशब्दो देवदिण्णशब्दं निवर्तयति, न गाव्यादीन् [१।१/२ आह्निक]... ठाजादू द्वितीयादचः ५।३।८३ । चतुर्थात् । चतुर्थालोपो वक्तव्यः । बृहस्पतिदत्तकः बृहस्पतिकः । प्रजापतिदत्तकः प्रजापतिकः । अनजादौ च । अनजादौ च लोपो वक्तव्यः - देवदत्तकः देवकः यज्ञदत्तकः यज्ञकः । लोपः पूर्वपदस्य च । पूर्वपदस्य च लोपो वक्तव्यःदेवदत्तकः दत्तकः, अप्रत्यये तथैवेष्टः - देवदत्तः दत्तः, यज्ञदत्तः दत्तः ।" इति पातजलमहाभाष्यस्य निर्देशानुसारेणापि 'दत्तकः ' इति नाम्नः प्रचार उपपद्यते दत्त-दिन्नशब्दयोः सम्बन्धश्चावगम्यते । दिागस्य ग्रन्थेभ्यो भर्तृहरेर्वाक्यपदीयं प्राचीनमित्यपि ध्येयम् । दिङ्गागेन हि वाक्यपदीयस्य तृतीयस्मात् प्रकीर्णकाण्डाद् 'विभक्तिभेदो नियमात् ... ' [ २०१४१८ ] इति कारिका प्रमाणसमुच्चयस्य पञ्चमेऽपोहपरिच्छेदे द्वितीयकारिकाया वृत्तावुद्धृता, दृश्यतां नयचक्रस्याष्टमेऽरे पृ० ६०७ । वाक्यपदीयस्य द्वितीयकाण्डात् ‘१५६,१५७' इति च द्वे कारिके प्रमाणसमुच्चये पञ्चमस्यापोहपरिच्छेदस्यान्यभागे उद्धृते, हृदयताम् उपरि निर्दिष्टं ‘भर्तृहरि और दिङ्नागका समय' इति 'भर्तृहरि अने दिङ्काग' इति चास्माकं लेखद्वयम् । भर्तृहरेर्वाक्यपदीयस्य तृतीयं प्रकीर्णnirus चावलम्ब्यैव दिङ्गागेन त्रैकाल्यपरीक्षा नाम प्रकरणं रचितम् दृश्यतt Dignāga sein Work und seine Entwiklung by Dr. E. Frauwallner, WZKSO Band III, 1959, pp. 83-1641 Landmarks in the History of Indian Logic by E. Frauwallner WZKSO Band V, - 1961, pp. 134-135 | अस्मत्सम्पादितस्य वैशेषिकसूत्रस्य सप्तमं परिशिष्टमप्येतदर्थं विलोकनीयम् । उपरिनिर्दिष्टनयचक्रवृत्त्यन्तर्गतोल्लेखानुसारेण वसुबन्धुदिङ्कागयोर्गुरुशिष्यभावः स्फुटमेव प्रतीयते । बौद्धग्रन्थेष्वपि तथा वर्णनमुपलभ्यत एव दृश्यताम् On Yuan-chwang's Travels in India by Thomas-watters, Part II इत्यादि । एवं सत्त्वपि प्रमाणेषु On the Buddhist Master of the Law - Vasubandhu ( Serie Orientale Roma III, Roma, 1951 ) इत्यादौ वसुबन्धु दिङ्कागयोः साक्षात् गुरुशिष्यभावे या विप्रतिपत्तिरुपदर्शिता तत्र किमपि बलवत् प्रमाणमस्माभिर्न विलोक्यते ॥ ९ वार्षगण्य व सुरात भर्तृहरि वसुबन्धु-दिङ्कागादीनां समयविषये विदुषां बहवो विवादाः प्रवर्तन्ते, अतस्तेषां सर्वमान्यो निश्चितः समयोऽभिधातुं न शक्यते । तथापि प्रभाचन्द्राचार्येण निर्दिष्टेन मलवादिसमयेन तेषां समयस्या विरोध उपपादयितुं शक्यत एव ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy