________________
साङ्ख्यस्य असत्कार्यवादित्वापादनम् ] द्वादशारं नयचक्रम्
२९१ भ्युपगमात्, पृथग्भूततत्त्वकारणाश्रयाभिव्यक्तेः वैशेषिकाभिमततन्त्वाश्रयपटवत् । तैर्यथाखमकारणसद्भिः प्रकाशादिभिरारब्धं कार्यमपि भ्रान्तिमात्रम्, त्वदुक्तहेतुसामर्थ्यादेव तन्मयारब्धत्वादसदात्मकं हि तत् कासिकतन्त्वारब्धपटकासिकत्ववत् । तन्मयतन्मयं च असदात्मकं तन्मयतन्मयारब्धत्वात् कासिकपटकुटेरपि कार्पासिकत्ववद् रूपादिसुखादिमयत्ववत् ।
15
वाक्ये रंजस्तमसोः शब्दभावाय प्रवृत्तिं प्रख्यापयतीति वचनात् तयो रजसि तमसि च प्रागसतः प्रकाशस्य जात्यन्तरकार्यभूतस्य तदानीं प्रख्यापनादसतोऽभिव्यक्तिरुत्पत्तिर्वाभ्युपगता, यदि ते रजस्तमसी तथा प्रतिपद्येते व्यवतिष्ठेते प्रैवर्तेते वा ततः सत्त्वेन प्रकाशितं स्यात् आचार्येणेव नर्तक्याः प्रागप्रतिपन्नाया अप्रवृत्ताया अव्यवतिष्ठमानायाः । तस्मात् प्रकाशोऽपि तयोः प्रागसन् पश्चाजात इत्यसत्कार्यवादिता । सेदानी वैशेषिका-२१३-२ सत्कार्यवादितया तुल्येति भाव्यते - पृथग्भूततत्त्वेत्यादि, पृथग्भूतं तत्त्वमात्मा कार्य तद्भावो यस्य स 10 पृथग्भूततत्त्वो गुणः, स एवाश्रयः कारणं च, तस्मिंस्तस्मिन् गुणे सत्त्वे रजसि तमसि च वैशेषिककल्पितपटादिकार्यस्य च तन्वादिषु परस्परसंयोगापेक्षेष्वसतो भवनवत् प्रकाशप्रवृत्तिनियमानां कार्याणां सत्त्वे प्रवृत्तिनियमयोरसतोः प्रकाशनियमयोश्च जसि प्रवृत्तिप्रकाशयोश्च तमस्यसतां परस्परापेक्षप्रवृत्तिषु सत्त्वादिषूत्पत्तिर्भवनमुक्तं भवति । प्रागसन्तः प्रकाशप्रवृत्तिनियमाः शब्दाद्यारम्भकाल उत्पन्ना इति प्रतिपद्यस्व पृथग्भूततत्त्वकारणाश्रयाभिव्यक्तेः वैशेषिकाभिततन्त्वाश्रयपटवत् ।
किञ्चान्यत् , तैर्यथास्वमित्यादि । वैशेषिकाभिमतकार्यादप्येतत् पापीयो भ्रान्तिमात्रत्वात् । उक्तन्यायेन ते सत्त्वादिषु प्रकाशादयः कारणेष्वसन्तः, यथास्वम् यो यः स्वो यथास्वम् , प्रकाशः सत्त्वे नास्ति इतरापेक्ष उत्पन्नः, एवमितरावपीति तैरकारणसद्भिः प्रकाशादिभिरारब्धं परस्पराश्रयणेन व्यक्तं प्रवृत्तं नियतं च यत् कार्य त्रिगुणं शब्दादि तदप्यलातचक्रवद् भ्रान्तिमात्रं न परमार्थतोऽस्तीत्यापन्नम्, त्वदुक्तहेतुसामर्थ्यादेव तन्मयारब्धत्वादसदात्मकं हि तत्, त्वयैवोक्तं हि यच्च यन्मयैरारब्धं तदा-20 त्मकं तदिति शब्दादीनां सुखाद्यात्मकत्वं शब्दाद्यारब्धानां भूतानां भूतारब्धानां च शरीरादिघटादीनाम् , तस्माद् वयमपि तथैव ब्रमः-शब्दादि असदात्मकं तन्मयैरारब्धत्वात् कापासिकतन्त्वारब्धपटकासिकत्ववत् , यथा कार्यासिकैस्तन्तुभिरारब्धः पटः कासिक इत्युच्यते तथा शब्दाद्यसन्मयं २१४-१ तन्मयप्रकाशाद्यारब्धत्वादिति । तन्मयतन्मयं चेति यदपि च भूतादि शरीरादि घटादि सर्वमसदात्मक तन्मयतन्मयारब्धत्वात् कासिकपटकुटेरपि कार्यासिकत्ववदिति । तच्छास्त्रप्रसिद्धमेव वोदाहरणं 25 रूपादिसुखादिमयत्ववदिति । शब्दस्यासन्मयत्वे साध्ये रूपादिसुखादिमयत्वमुदाहरणम् , रूपादीनामपि तथैवासन्मयत्वं शब्दादिसुखादिमयत्वदृष्टान्तेनापाद्यमिति ।
१ दृश्यतां पृ० २८८ पं० २ ॥ २ तिष्ठते प्र० ॥ ३ प्रवर्तिते भा० । प्रवर्तते य० ॥ ४ तस्यात् प्र० । अत्र तत् स्यात् इत्यपि पाठो भवेत् , 'तत्' इति शब्देन च रजस्तमो वा ग्राह्यम् ॥ ५ याःऽप्र डे० ली । याऽप्र २० ही० । याः प्र भा० पा० वि०॥ ६ रजसि प्रकाशयोश्च प्र०॥ ७ पद्यस्या प्र० ॥ ८°करणाप्र०॥ ९ व्यक्तैः भा० ॥ १० दृश्यतां पृ० २६६ पं० २॥ ११ दि च य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org