________________
२९२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे __ अथोच्येत-एवमेव तत्कारणत्वं तत्र च शब्दादिकार्यसत्त्वम् , शुक्लरक्तकृष्णतन्त्वात्मिकाया रजोः कार्यायास्तन्तुकारणत्ववत् । नन्वेवं यथास्मदुक्तवद्वैकत्वं रजस्तमसी अपि सत्त्वमेव, प्रकाशकारणत्वात्, सत्त्वखात्मवत् । अथ त्वन्मतेन, सर्वव्यक्तव्यापि चासत्कार्यत्वं प्रतिगुणं प्रकाशाचोर्द्वयोः कार्यात्मनोः प्रागभूतत्वात्। 5 बौद्धवद्वा असत्कार्यत्वम्, तथाभूतवस्तुनिमूलोत्पत्तित्वात् , द्वितीयक्षणघटवत्।
अथोच्येत-एवमेव तत्कारणत्वम् , तेषां सत्त्वादीनां कारणत्वमेवमेव युज्यते। तत्र च तेषु सत्त्वादिषु कारणेषु शब्दादिकार्यसत्त्वमेवमेव युज्यते प्रतिस्खं प्रकाशादिकार्याणां शुक्लरक्तकृष्णतन्त्वात्मि
काया रजोः कार्यायास्तन्तुकारणत्ववत् , यथा प्रत्येकं शुक्लादिगुणास्तन्तवस्त्रयोऽपि त्रिगुणामेकां रज्जु10मारभमाणाः कारणत्वं नातिवर्तन्ते ततस्तेषु सत एव त्रैगुण्यस्याविर्भावाद् रजोः सत्कार्यत्वं तथा सत्त्वादिकारणत्वं शब्दादिसत्कार्यता चेति ।
___ अत्रोच्यते-नन्वेवमित्यादि यावत् सत्त्वस्वात्मवदिति । एवमेव' इति यदेतद् वचनं तस्य द्वयी गतिः, यथास्मदुक्तवदेकात्मकं कारणमनेकाकारविपरिवृत्ति पुरुषवदित्यभ्युपगमादिति तद्दर्शयति सकारणम् -
यथास्मदुक्तवद्वैकत्वं रजस्तमसी अपि सत्त्वमेव, प्रकाशकारणत्वं च तयोर्यथाप्राग्व्याख्यातं सिद्धम् , 15 अत एव तस्यां गतौ दोषः स एव पुरुषाद्यन्यतमैककारणवादाभ्युपगम इति । अथ त्वन्मतेन जात्यन्तर...सुखादित्रयकारणतदात्मककार्याभ्युपगमेन 'एवमेव' इत्येषा गतिरिति । इतर आह - एषा गतिरस्तु, को
दोषः ? इति, अत्र दोषकुतूहलं चेद् ब्रूमः - सर्वव्यक्तव्यापि "चेत्यादि, तदेव ह्यसत्कार्यत्वमित्थं भावनान्तरेणापाद्यते, सर्वव्यक्तं शब्दादि तन्तुपटादि च व्यापितुं शीलमस्य तदसत्कार्यत्वं सर्वव्यक्तव्यापि,
कस्माद्धेतोः ? प्रतिगुणं प्रकाशाद्योर्द्वयोः कार्यात्मनोः प्रागभूतत्वात् , गुणं गुणं प्रति प्रतिगुणं सत्त्वे 20 द्वयोः [प्रवृत्तिनियमयोः ] प्रागभूतत्वादेव कार्यात्मनोः तथा रजसि प्रकाशनियमयोः तमसि प्रकाशप्रवृत्त्योः कार्यात्मनोरभूतत्वात् अन्यगुणकारणकार्यात्मनामन्यत्र व्यक्तिप्रवृत्तिनियतिकार्याणामसतामुत्पत्तेर्व्यवस्थानवचनात् प्रख्यापनवचनाच्च अभ्युपगतत्वात् । तस्माद् वैशेषिककार्यवदसत्कार्यत्वम् ।
___ न केवलं वैशेषिकवदेव, किं तर्हि ? बौद्धवद्वा असत्कार्यत्वम् , वरं हि वैशेषिकासत्कार्यतुल्यत्वं तँदसत्कार्यत्वस्य कारणैः सह कश्चित् कालं तिष्ठत इति तैरिष्टत्वात् । इदं बौद्धासत्कार्यतुल्यमेव ते प्राप्तम् , 25 कुतः ? तथाभूतवस्तुनिर्मूलोत्पत्तित्वात् , तेन प्रकारेण भूतं वस्तु 'शब्दो रूपम्' इत्यादिना, तथाभूत
वस्तुनो निर्मूला उत्पत्तिः, तद्भावात् तथाभूतवस्तुनिर्मूलोत्पत्तित्वात् । किमर्थं पुनर्निर्मूलोत्पत्तित्वादिति सिद्धे तथाभूतवस्तुग्रहणम् ? दृष्टान्तद्वयेनार्थद्वयप्रदर्शनार्थम् , तद्यथा-द्वितीयक्षणघटवत् , यथा क्षणः क्षणान्तरेऽनुत्पन्न एवोत्तरस्मिन् पूर्वो निरुध्यते उत्तरश्च तदनन्तरमुत्पद्यते निर्मूलः नामोन्नामौ तुलान्तयोरिव
१त्वमेव युज्यते प्र० ॥ २र्तन्ते [s ? ]तस्तेषु भा० ॥ ३ यद्वास्म प्र० ॥ ४ वेत्यादि य० ॥ ५°णपाद्यते प्र०॥ ६°न्यत्रा प्र० ॥ ७ (तदसत्कार्यस्य ? ) ॥ ८ स्तुना प्र०॥ ९ सप्तम्यन्तोऽयं निर्देशः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org