________________
२९०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे बोधकमनुष्यप्रकाश्यप्रकाशकत्ववत् । हेतुहेतुमत्त्वेऽपि तयो प्रकाशत्वे प्रकाशनम् ।
वियत्पृथिवीविशेषोपपत्तिवच ते एव प्रवर्तेते न पुरुष इत्यस्तु नाम, प्रकाशात्मके तर्हि रजस्तमसी शब्दभावाय प्रवृत्तेः सत्त्ववत्, वैधयेण पुरुषवत् ।
असत्कार्यवादिता चातिस्फुटैव, सत्त्वे प्रवृत्तिनियमयोरभूतयोः शब्दात्मव्यव5 स्थानवचनादभ्युपगमात्, रजस्तमसोः प्रागसतो जात्यन्तरकार्यभूतस्य प्रकाशनस्या
वज्रादिषु 'काशता च दृश्यत एव, तस्मात् खरपृथिव्यादिषु प्रकाशता स्वगतप्रकाशविपरिणामाद् विद्यमानप्रकाशकतैव बोध्यबोधकमनुष्यप्रकाश्यप्रकाशकत्ववत् , ज्ञानस्वभाव एव हि मनुष्यः प्रकाशात्मा प्रकाश्यो बोध्यो बोधकश्च दृष्टः, न कुड्यादिरचेतनः, तथा पृथिव्यादयः । मनुष्यग्रहणमस्यैव रथ्यापुरुषस्योदाहार्यत्वात् । स्यान्मतम् – बोधकबोध्ययोर्हेतुहेतुमद्भावान्नोभयोरुभयधर्मतेति दृष्टान्तदाान्तिकवैषम्यमिति । 10 एतच्चायुक्तम् , यस्माद्धेतुहेतुमत्त्वेऽपि तयोः सूरिशिष्ययोर्द्वयोरपि प्रत्येकं नाप्रकाशत्वे प्रकाशनमिति । तस्माद् वियत्पृथिव्योरपि प्रकाशकत्वसाम्याद् दृष्टान्ताभावे पुरुषस्य रजस्तमसोश्च विशेषापादनासिद्धिः । अथापि त्वदनुवृत्त्या वियत्पृथिवीविशेषोपपत्तिमभ्युपेमः पुरुषस्याप्रकाशकत्वे सति अप्रवर्तनादि रजस्तमसोश्च प्रवर्तनादि तथापि ते वियत्पृथिवीविशेषोपपत्तिर्वच्च ते एव प्रवर्तेते रजस्तमसी न पुरुष इत्यस्तु नाम,
नैवास्तीत्यभिप्रायः । किन्त्वयमन्यस्ते दोषोऽनिष्ट आपद्यते-प्रकाशात्मके तर्हि रजस्तमसी, सत्त्वविलक्षणे 15 न भवत इत्यर्थः, कुतः ? शब्दभावाय प्रवृत्तेः, सत्त्ववत् , यच्छब्दभावाय प्रवर्तते तत् प्रकाशात्मकं २१३.१ दृष्टम् , यथा सत्त्वम् , वैधर्येण पुरुषवदिति, यत् प्रकाशात्मकं न भवति न तच्छब्दात्मभावाय प्रवर्तते
यथा तव पुरुष इति ।
__किञ्चान्यत् , -असत्कार्यवादिताऽत्यन्तानिष्टा प्रसक्ता 'एवमनभ्युपगमे' इति वर्तते, सा चासकार्यवादिताऽतिस्फुटैव, कथम् ? सत्त्वे प्रवृत्तिनियमयोरभूतयोः शब्दात्मव्यवस्थानवचना20 दभ्युपगमात् , सत्त्वस्य कार्य प्रकाश एवेष्टो न प्रवृत्तिनियमौ जात्यन्तरभूतरजस्तमस्कार्यत्वात् , तौ तत्रा.
सन्तौ पुनस्तस्य कार्यावभ्युपगतो, कुतः ? व्यवस्थानवचनात् सत्त्वं शब्दकार्य प्रख्याय शब्दात्मना व्यवतिष्ठमानमिति ब्रुवताभ्युपगमोदितीति । तदा यदि तत् सत्त्वमप्रवृत्तमनियतं वा पूर्ववदप्रवृत्तत्वादनियतत्वाच्च तयोस्तथारूपां शब्दात्मिकां प्रवृत्तिं न प्रख्यापयेद् नैव वा स्याद् वन्ध्यापुत्रवदित्युक्तत्वात् व्यवस्था
नस्य च प्रकाशप्रवृत्तिनियमात्मकस्य प्रागसतः सत्त्वविषयस्यारम्भावस्थायां साम्यावस्थाविलक्षणायामभ्यु25 पगतत्वादसतोः प्रवृत्तिनियमयोः सत्त्वाभ्युपगमादतिस्फुटा । किश्चान्यत् , रजस्तमसोरित्यादि यावत् प्रका
शनस्याभ्युपगमादिति, असत्कार्यवादिताऽतिस्फुटैवेति वर्तते । तस्मिन्नेव सत्त्वप्रकाशात्मव्यवस्थानोपकार
१ प्रकाशकाशता भा०। * * एतच्चिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ २° तुमत्त्वेऽपि प्र० ॥ ३ तस्मान्न विय' प्र० ॥ ४ वञ्च त एव प्रवर्तते य० । वञ्च एव प्रवर्तते भा० ॥ ५ दाभा य० ॥ ६°दिनोत्यन्ता प्र० ॥ ७प्रवर्तते प्र० । दृश्यतां पृ० २८७ पं० ३॥ ८ दृश्यतां पृ० २८८ पं० २, २० ९ अत्र दिति इत्यपि पाठः स्यात् ॥ १० दृश्यतां पृ० २७० पं० ४, पृ० २८१ पं० ८ ॥ ११ स्फुटः प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org