________________
सत्त्वरजस्तमसामैक्यापादनम्] द्वादशारं नयचक्रम्
२८९ अथोच्येत-अप्रकाशत्वान्नैकान्तः शक्यते कर्तुम् । पुरुषः सत्त्वान्न प्रकाशते, अप्रकाशकत्वे सन्निहितप्रकाशकारकत्वात्, प्रदीपेनेव वियत् । रजस्तमसी च प्रकाश्येते, अप्रकाशकत्वात्, प्रदीपेनेव पृथिवी । पुरुषोऽप्रकाशः, रजस्तमसी च प्रकाशे ।
एवं तावद् विकल्पसमजातित्वादनुत्तरमेव। अपि च नैव वियतोऽप्रकाशकत्वम् , यस्माद् रूपादिपृथग्भूतपृथग्विपरिणतिषु पृथिव्यादिषु नाप्रकाशनं घटते बोध्य-5
रजस्तमोभ्यामिवेति । अपिशब्दाद् रजस्तमोभ्यामपि तेनापि च पुरुषेणाप्रकाशात्मकेन शब्दभावाय प्रवर्तितव्यं प्रकाशितव्यं व्यवस्थातव्यमित्येते प्रवृत्तिप्रकाशनियमाः पुरुषकार्याः स्युः, स प्रवर्तते प्रकाशते व्यवतिष्ठते परिणमतीत्यर्थः । कुतः ? प्रकाशकारकोपपत्तेः, तस्याप्रकाशकत्वे सति उपपन्नप्रकाशकारकत्वादित्यर्थः । यद् यदप्रकाशकत्वे सत्युपपन्नप्रकाशकारकं तेन तेन शब्दभावाय प्रकाशितव्यं प्रवर्तितव्यं व्यवस्थातव्यं यथा रजसा तमसा च । अथवा रजस्तमश्च यथा प्रवर्तत इत्यादि यथाभिव्यक्तार्थानुरूपं व्याख्या-10 तव्यमिति ।
___ एतस्य साधनस्यानैकान्तिकत्वोद्भावनार्थ साधनद्वारेण परमतमाशङ्कयाह , अथोच्येत- अप्रकाश त्वाद् नैकान्त इत्यादि सोपसंहारहेतुकप्रकाशनाप्रकाशनसाधने यावत् प्रकाशे इति । अप्रकाशत्वाद् २१२१ नैकान्तः शक्यते कर्तुमिति, अयं हेतुर्न शैक्य ऐकान्तिकः कर्तुम् , यस्माच्छक्यते वक्तुमित्थमपि -पुरुषः सत्त्वाद् न प्रकाशते न व्यज्यत इति । कस्मात् ? अप्रकाशकत्वे सन्निहितप्रकाशकारकत्वात् , 15 यदप्रकाशकत्वे सन्निहितप्रकाशकारकं तदप्रकाशमानं दृष्टम् , यथा प्रदीपेनेव वियत् । रजस्तमसी च प्रकाश्येते अप्रकाशकत्वात् प्रदीपेनेव पृथिवीत्येतत् पूर्वेण साधनेन व्याख्यातार्थं सत् सन्निहितप्रकाश कारकत्वादिति न विशेष्यते । यथा च वियत्पृथिव्योरप्रकाशत्वसामान्ये सत्येव कारकसान्निध्येऽपि प्रकाशाप्रकाशौ दृष्टावेवं पुरुषस्याप्रकाशात्मकत्वेऽप्यप्रकाशतैव रजस्तमसोः सत्त्वस्य प्रकाशतैवेति विशेषोऽस्त्विति ।
अत्रोच्यते - एवं तावद् विकल्पसमजातित्वादनुत्तरमेव, 'प्रयत्नानन्तरीयकत्वे सत्येव मूर्तामूर्तत्वा- 20 दिविशेषवद् घटशब्दयोरनित्यो नित्यश्चेति विशेषः स्यात्' इति वचनवत् । किञ्चान्यत् , एतदपि च नैव वियतोऽप्रकाशकत्वं त्वन्मतेनैव शब्दात्मना प्रकाशमानत्वादस्ति। यदपि च रूपविषयाप्रकाशनं पृथिव्यादिष्वेतदपि च नैवाप्रकाशनं घटते यस्माद् रूपादीत्यादि यावन्नाप्रकाशत्वे प्रकाशनमिति । यस्मादिति हेतुर्वक्ष्यमाणार्थः, नाप्रकाशनं घटत इति साध्यम् , रूपादिरिति रूपरसगन्धास्तेजोम्भोभूमिषु, तेभ्यः पृथग्भूतावाकाशानिलौ शब्दस्पर्शात्मकौ, रूपादिपृथग्भूताभ्यां ख-वाताभ्यां पृथग्भूता विपरिणतिर्येषां तेषु रूपादिपृथग्भूत-25 पृथग्विपरिणतिषु पृथिव्यादिषु पृथिव्यबादिषु तेजोरहितेषु विद्यमानः प्रकाशकत्वप्रकाशः स्वगतो विपरि-२१२-२ णतस्तिरोभूतः, किन्तु प्रकाश्यप्रकाशोऽस्त्याविर्भूतत्वात् , अतस्तेषां प्रकाश्यतैव । कचिदत्यन्तमतिरोभूतत्वाद्
१°च्येत । प्रका' भा० । 'च्यते[s?]प्रका य०॥ २ शकत्वाद् भा० वि० ॥ ३ शक्यमैका प्र०॥ ४श्यतेऽप्रका प्र० ॥ ५“साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्म विकल्पं प्रसजतो विकल्पसमः । क्रियागुणहेतुकं किञ्चिद् यथा लोष्टः, किञ्चिच्च लघु यथा वायुः । एवं क्रियाहेतुगुणयुक्तं किञ्चित् क्रियावत् स्यात् , यथा लोष्टः, किच्चिद क्रियम् , यथा आत्मा, विशेषो वा वाच्यः ।" इति न्यायभाष्ये ५।१।४ ॥ ६ स्वगतोतो विप्र० ॥
नय० ३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org