________________
૨૮૮
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् तृतीये विध्युभयारे यदुच्यते सत्त्वरजस्तमांसि त्रीणि शब्दाद्यात्मभिर्व्यवतिष्ठमानानि परस्परार्थं कुर्वन्ति, सत्त्वं शब्दकार्य प्रख्याय शब्दात्मना व्यवतिष्ठमानं रजस्तमसोः शब्दात्मभावाय प्रवृत्तिं ख्यापयति । अत्र प्रकाशात्मकेन सत्त्वेन प्रकाशात्मकयोरेव रजस्तमसोः शब्दात्मना व्यवतिष्ठमानेन शब्दात्मभावाय प्रवृत्तिर्व्यक्तिःप्रख्याप्यते, 5 उताप्रकाशात्मकयोः ? यद्यप्रकाशात्मके रजस्तमसी शब्दात्मभावाय प्रख्याप्येते ततः सत्त्वं पुरुषस्यापि तर्हि शब्दात्मभावाय प्रवृत्तिं प्रख्यापयिष्यति शब्दत्वायैनं प्रवर्तयिष्यति, अप्रकाशात्मकेन तेनापि शब्दभावाय प्रवर्तितव्यं प्रकाशकारकोपपत्तेः रजस्तमोभ्यामिव ।
न तर्हि सर्वमुक्तमनृतम् , अस्य सत्यत्वात् सर्वोक्तान्तःपातित्वाच्च, अथासत्यमिदं न तर्हि सर्वस्योक्तस्यानृत..10 त्वमनेनानृतेन प्रतिपाद्यतेऽस्यानृतस्याप्रमाणत्वादित्युभयथाप्यसद्वादस्तृतीयविकल्पाभावाच्च तथेयमपि 'त्रिगुण"" मेकं कारणम्' इत्यनेकात्मकैककारणकल्पना असद्वाद इति ।
- तत् पुनः कतमद् वचनम् ? इति तत् प्रदर्शयन्नाह - यदुच्यते सत्त्वरजस्तमासीत्युद्देशवाक्यं यावत् परस्परार्थ कुर्वन्तीति, निर्देशवाक्यं च सत्त्वं शब्दकार्यमित्यादि यावत् प्रवृत्तिं प्रख्यापयतीति एतदसद्वादधर्मेण पक्षीकृतं वाक्यम् । अत्र च द्वयं सम्भाव्यते तृतीयाभावात् , तद्दर्शयति -प्रकाशात्मकेने15 त्यादि यावत् प्रख्याप्यत इत्ययमेको विकल्पः । सत्त्वं प्रकाशात्मकं सत् तदात्मकयोरेव रजस्तमसोः
शब्दात्मना व्यवस्थाऽनेनेति स्वयं शब्दात्मना व्यवतिष्ठमानं तेनात्मनोपकुर्वत् तयोः शब्दात्मभावाय [प्रवृत्तिं प्रख्यापयति, ] प्रवृत्तिः प्रख्याप्यते।का सा प्रवृत्तिः ? व्यक्तिरित्यर्थकथनम् । 'प्रवृत्तिं प्रख्यापयति' इत्येतदेव स्फुटीकर्तुकामः प्रवृत्तिः प्रख्याप्यते इति विभक्तिविपर्यासेन विवृणोति आख्यातेनाभिहितकर्मकत्वात् प्रथमया । एष प्रथमः प्रश्नविकल्पः । द्वितीयस्तु उताप्रकाशात्मकयोरिति रजस्तमसोरप्रकाशात्म20 कयोर्वा तत् सत्त्वं शब्दकार्य प्रख्याय शब्दात्मना व्यवतिष्ठमानं शब्दात्मभावाय प्रवृत्तिं ख्यापयति ? इति
प्रश्नः । प्रकाशात्मकयोरित्यष विकल्पो न घटत एव, सत्त्वरजस्तमसां जात्यन्तरत्वाभ्युपगमात् प्रकाशप्रवृत्तिनियमकार्यत्वभेदात् सुखदुःखमोहात्मकभेदाच्च रजस्तमसी न प्रकाशात्मके इति ।
- अत्रोच्यते - यद्यप्रकाशेत्यादि यावद् रजस्तमसी इवेति । यद्यप्रकाशात्मके रजस्तमसी शब्दात्मभावाय प्रख्याप्येते ततस्तद्वत् सत्त्वं पुरुषस्यापि तर्हि शब्दात्मभावाय प्रवृत्तिं प्रख्याप25 यिष्यति, तदर्थविवरणम् - शब्दत्वायैनं प्रवर्तयिष्यति, शब्दत्वपरिणामेनैनं परिणमयिष्यतीत्यर्थः ।
सत्त्वेन शब्दकार्यप्रख्यातिना शब्दात्मना व्यवतिष्ठमानेन पुरुषः शब्दात्मभावाय प्रवर्त्यतेऽभिव्यज्यते व्यवस्थाप्यते च, अप्रकाशात्मकत्वात् , यद् यदप्रकाशात्मकं तत् तत् सत्त्वेन शब्दकार्यप्रख्यातिना शब्दात्मना व्यवतिष्ठमानेन शब्दात्मभावाय प्रवर्यं व्यङ्ग्यं व्यवस्थाप्यं च दृष्टं यथा रजस्तमश्च, विपक्षाभावाद् व्यावृत्तिरवांच्या । तत्साधनव्याख्यानद्वारेण साधनान्तरोपन्यासद्वारेण वा ग्रन्थः अप्रकाशात्मकेनेत्याँदिः यावद् . १ दृश्यतां पृ० २८७ पं० २४ ॥ २ दृश्यतां पं० २०, पृ० २९. पं० २१, पृ० २९१ पं०६॥ ३ पूर्वोक्ता प्र० ॥ ४°त्मकत्वमेदाच्च इत्यपि पाठोऽत्र स्यात् ॥ ५ व्यंज्यं यः । ज्यं भा० ॥ ६°वाच्यौ प्र० ॥ ७°त्यादि य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org