________________
साङ्ख्यमते सुखदुःखमोहानामभेदापादनम् ] द्वादशारं नयचक्रम्
२८७ किन्तूभयतोऽनन्यत्वादभिन्नत्वादेकत्वात् ........... सन्निहितापत्तिभवनसत्तार्थत्वमयथार्थ स्यात् ।
एवं त्वनभ्युपगमे इदं निरूप्यम् – 'अस्ति प्रधानं भेदानां कार्यकारणभावात् । एतत् कथं निरूप्यते ? इति अनेकात्मकत्वकारणकल्पना असद्वाद एव, सम्भाव्यविकल्पानुपपन्नार्थत्वात् , तदुक्तसत्यत्वानुपपन्नार्थसर्वोक्तानृतत्वपक्षवत् । तथा यदि सामान्यविशेषभावः स्यात् स्यादेकत एव तत्त्वम्, न तु तथेह सुखदुःखमोहानां सामान्य- २१०-१ विशेषभावोऽस्तीति। किन्तूभयतोऽनन्यत्वादभिन्नत्वादेकत्वादित्यादिना सत्त्वरजस्तमसामेकत्वापादनार्थः पूर्ववत् सर्व एव प्रक्रमभेदैः स एव तथैव ग्रन्थः प्रवृत्त्या प्रकाशविशेषितया मोहविशेषितया [च ] नेयः, तथा च भाष्य एव सुलिखितत्वान्न विव्रियते । सन्निहितापत्तिभवनसत्तार्थत्वमयथार्थ स्यादित्यत्र तु विशेषः, आपत्तिभवनं सन्निधिभवनाविनाभावे युज्यते, नान्यथा, यदि तद्रूपादि बीजे न सन्निहित ततोऽ- 10 ङ्करस्यासत्त्वाद्यापत्तिः स्यात् , सत् कार्य कोरणे चेति द्वैविध्यं च भवनस्यैवमेव युज्येत आपत्त्यनापत्तिभेदादिति, शेषं पूर्ववत् । सत्त्वेन तमसा च सह भावनायां कृतायां पुनश्च तथैव तमसोऽपि सत्त्वेन रजसा तद्वदेव भावनाग्रन्थो निरवशेषो लिखित आचार्येणैवेति न विवृण्महे, स एवानुसर्तव्यः । सर्वत्र च भेदचोयेषु प्रवर्त्यप्रवर्तकत्वात् पल्लवपवनवन्नेति चेत्, न, तदात्मन एवेत्यादि तदेव सत्त्वरजःसंयोगेऽपि, प्रकाशार्थिप्रकाशभेदाद् नर्तकीनर्तकाचार्यवन्नेति चेत्, न, तदात्मन एवेत्यादि सत्त्वरजः संयोगे सत्त्व-15 तमःसंयोगे च, [नियम्यनियामकत्वाद] नौलम्बनपाषाणवन्नेति चेत्, न, तदात्मन एवेत्यादि सत्त्वतमःसंयोगे* रजस्तमःसंयोगे च तत्र प्रकाशनप्रवर्तननियमनवचनानि च यथोपपत्ति योज्यानि । कुतोऽपल्लवपवनभेदसाधर्म्यम् , कुतोऽनर्तकीनर्तकाचार्यभेदसाधर्म्यम् , कुतोऽनौलम्बनपाषाणभेदसाधर्म्यम् ? २१०-२ इति चोपनयेषु द्वयं द्वयं द्वयोर्द्वयोर्गुणयोः सम्भवित्वाच्चोदयित्वा परिहार्यमिति । एवं तावत् सुखदुःखमोहानां प्रकाशप्रवृत्तिनियमात्मकानामनन्यत्वात् 'एकात्मकैककारणपूर्वकत्वम्' इति साध्वभ्यधामेति । 20
एवं त्वनभ्युपगम इदं निरूप्यमित्यादि । एवमेकात्मकैककारणानभ्युपगमे साङ्खथैरिदं निरूप्यम् , कतमत् ? यत् तद् भिन्नात्मकत्वं परिगृह्य प्रयुक्ते कार्यकारणवीतेऽभिहितम् - अस्ति प्रधानं भेदानां कार्यकारणभावात् , आध्यात्मिकानां बाह्यानां च भेदानां कार्यकारणभावो दृष्टः, आध्यात्मिकानां कार्यामकानां वक्ष्यामः सत्वरजस्तमांसि त्रीणि शब्दाद्यात्मभिर्व्यवतिष्ठमानानि परस्परार्थ कुर्वन्तीत्येवमादि, एतत् कथं निरूप्यते ? वक्ष्यमाणेषु विचारविकल्पेषु यथा यथोच्यते तथा तथानुपपत्तिरेवेति ‘इति’- 25 शब्दहेत्वर्थत्वाद् निरूपणाभाव एवेत्यभिप्रायः । तद्विचारोद्देशार्थं साधनमाह - अनेकात्मकत्वकारणकल्पना असद्वाद एव सम्भाव्यविकल्पानुपपन्नार्थत्वात् , अनुपपन्नसम्भाव्यविकल्पार्थत्वादित्यर्थः, येऽत्र सम्भाव्यन्ते विकल्पास्तेऽनुपपन्नार्थ इति वक्ष्यति, तस्मादयमसद्वाद् एव । दृष्टान्तः - तदुक्तसत्यत्वानुपपन्नार्थसर्वोक्तानृतत्वपक्षवत् , तेनैवोक्तस्तदुक्तः 'सर्वमनृतम्' इति पक्षः, स एवोक्तस्तदुक्तो वा । असौ सत्यश्चेद्
सर्वमेव प्र० ॥ २ कारणं वि०॥ ३ दृश्यतां पृ० २७३ पं० ६॥ ४ * * एतच्चिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ५ दृश्यतां पृ० २८४ पं० १॥ ६ दृश्यतां पृ० २७७ पं० १॥ ७ एवं त्वऽनय० । एवं चन भा०॥ ८°मेकैकात्म य०॥ ९ दृश्यतां पृ० २८८ पं० १॥
नाथ पर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org