________________
२८६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे स्यान्मतम् -प्रकर्षण काशनं प्रकाशन........'प्रवृत्तिवत् । न, सत्त्वस्यापि तमोवदपरिसमाप्तरूपत्वाद्... नियामकाभावस्य चापर्याप्तत्वेनोक्तत्वात् ।
एवं चैक एव विनिद्रावस्थापुरुषत्ववद् नियमः प्रधानमिति तन्मात्रमेव तत्, नियमापत्तिरूपनिरूप्यत्वात् , नियमखात्मवदित्यादि भङ्गचक्रावर्तनं 'नियमस्वात्मैव 5 वा त्रीण्यपीति पुरुषावस्थावद् यावत् सुखादनन्यद् दुःखमिति । अत्र तु सुखादनन्य एव मोहः, अनात्मत्वेऽशोषाद्यात्मकत्वात्, सुखखात्मवदित्यादि साक्षेपपरिहारं पूर्ववत् प्रवृत्तिस्थाने नियमं कृत्वा ।
न चापीदमेकत एव तत्त्वम् । सामान्यविशेषभावात् स्यादेकत एव तत्त्वम् ।
धीनत्वात् तदविनाभावात् तदपरित्यागेन प्रवृत्तेस्तदात्मन एव प्रवृत्तत्वादिति । किञ्चान्यत् , अन्यथा 10 सत्त्वमित्यादि, यदि स्वत एव नियमो न स्यात् ततोऽन्यथा सत्त्वं सत्त्वमेव प्रकाशो वा प्रकाश एव न स्यात् तथाऽनियतत्वाद् रजोवत् प्रवृत्तिवत् । मूलत एव तद्वा प्रकाश इति न स्यादनियतत्वाद् वध्या. पुत्रवत् पुरुषवदित्युक्तत्वादिति तथा । अन्यथा तु नियत्यभावात् , प्रकाशाप्रकाशिते तमसो नियत्यभावादनियतस्य चाभावात् प्रकाश एव नियम इति ।
स्यान्मतम् -प्रकर्षण काशनं प्रकाशनमित्यादि यावत् प्रवृत्तिवदिति प्रासङ्गिकं तदेव चोद्यम्, 15 तत्रोत्तरमपि सत्त्वस्यापि तमोवदपरिसमाप्तरूपत्वादित्यादि अक्षरविपर्यासेन यथायोगाक्षरोपन्यासं यावत् २०९-२ उत्थाप्यसाहायकशक्तित्वाद् वाताहतनौद्वयवद् ग्लानशिबिकावाहकवद् यावच्च उपहतबीजवदिति वाच्यम् , तस्मादिदं व्याख्यातार्थम् - नियामकाभावस्य चापर्याप्तत्वेनोक्तत्वात् ।
एवं चैक एव विनिद्रावस्थापुरुषत्ववदित्यादि यावद् भङ्गचक्रावर्तनमिति प्रागुक्तं भङ्गचक्रमावर्त्य व्याख्येयमिति तदेवातिदिशति समानत्वात् । तत्र तु प्रवृत्तिरेव प्रधानं प्रवृत्त्यापत्तिरूपनिरूप्यत्वात् 20 प्रवृत्तिखात्मवदिति प्रवृत्तिमात्रत्वे प्रधानभङ्गचक्रकमावर्तितम् , इह तु प्रवृत्तिस्थाने नियमं कृत्वा प्रधानस्थाने प्रधानमेव च कृत्वा भङ्गचक्रावर्तनं तद्वदेव कार्यम् । पुनश्च नियमस्वात्मैव वा त्रीण्यपीति पुरुषावस्थावद् भङ्गचक्रावर्तनं द्वितीयं लिखितं यथा तथात्र प्रवृत्तित्रैगुण्यवद् नियमत्रैगुण्यं लिखितं द्रष्टव्यमिति । भङ्गग्रन्थपरिवृत्तिपरिमाणमप्याह - यावत् सुखादनन्यद् दुःखमितीयड्रम् । अत्र तु विशेषः सुखादनन्यो
मोह इति प्रतिज्ञा, हेतुः- अनात्मत्वेऽशोषाद्यात्मकत्वादिति, दृष्टान्तः सुखस्वात्मवदिति । इत्यादि 25 साक्षेपपरिहारं पूर्ववदिति अवधारणेन चोक्तसाधनान्तरापक्षिप्तान्यत्वो विपक्षाभावः सूच्यत इत्यादिसर्वातीतव्याख्यानप्रपञ्चातिदेशः । तद्वयाख्यानोपायदिङ्मात्रप्रदर्शनं चैतत् - प्रवृत्तिस्थाने नियमं कृत्वेति ।
न चौपीदमेकत एव तत्त्वमित्यादीत्युत्तरस्य विकल्पोत्थापनग्रन्थस्य सम्बन्धः। सुखतो दुःखमोहयोरेनन्यत्वं तत्त्वमुक्तम् , तत्त्वनेकतः। सामान्यविशेषभावात सामान्यविशेषभेदभावात् , यथा वृक्ष इति सामान्यं कदम्ब इति विशेषः, यथात्र कदम्बो नियमाद् वृक्षः, वृक्षस्तु स्यात् कदम्बोऽन्यो 'वेत्येकतस्तत्त्वं
१ दृश्यतां पृ० २७५ पं०५-२७६ पं० १॥ २ दृश्यतां पृ. २७८ पं० १॥ ३ दृश्यतां पृ० २७८ पं० १६ ॥ ४ पृ. २८१ पं० ७॥ ५ वा प्र०॥ ६ चंद्रक्रमा य० ॥ ७ दृश्यतां पृ० २७५५० ७ ।। ८ दृश्यतां पृ० २७६ पं०१॥ ९ दृश्यतां पृ० २७८ पं० २॥ १० वापी प्र०॥ ११ रन्यत्वं प्र०॥ १२ वेत्यनेकत प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org