________________
प्रकाशनियमयोरभिन्नत्वापादनम्] द्वादशारं नयचक्रम् रूपापादनात् तमोवत् । तमोऽपि हि इतर[तथा]स्वरूपापादनादृते किमन्यत् करोति ?
एवं च नौवत् तम एवापद्यते तथा प्रकाशस्य नियम्यत्वात् तथाप्रकाशानतिरिक्ततत्त्वरूपत्वाद्वा नियमस्य कुतोऽनौलम्बनपाषाणभेदसाधर्म्यम् ? भेदे लम्बनपाषाणो नावं निरुणद्वीति युज्यते, न तु तथाप्रकाशातिरिक्ततत्त्वरूपो मोहो। नियामकोऽस्ति ।
न तद्रूपत्वमतद्वत्तित्वादिति चेत्, न, तमास्वनियमवत् तदात्मन एव नियतत्वात् । अन्यथा सत्त्वं सत्त्वमेव न स्यादित्युक्तत्वादन्यथा तु नियत्यभावात् । तमोऽपि हि इत्यादि, तमसोऽपि हि नियामकत्वमेवमेव युज्यते त्वन्मते यदीतरयोः सत्त्वरजसोरात्मरूपा-. पादनं कुर्यात् , अन्यथा इतर तथा] स्वरूपापादनादृते तमः किमन्यत् करोति ? तयोहि सत्त्वरजसो-२०८-२ रात्मरूपापादनमेवे, आत्मरूपमापादयन्नियामकमित्युच्यते । यथा तमः पूर्व प्रकाशप्रवृत्त्यात्मभ्यामनियतयोः सत्त्वरजसोस्तथानियमनाद् नियामकमेवं सत्त्वमपीतरतथानियमात्मरूपापादनाद् नियामकमस्तु, को दोषः ?
एवं च नौवत् तम एवापद्यते । एवं च सत्त्वस्यैवोक्तविधिना नियामकत्वाद् नौस्थानीयं नियम्य तम एव स्यात् , न नियामकम् । लम्बनपाषाणस्थानीयं सत्त्वमेव नियामकम् , न नियम्यं स्यात् । किं कारणम् ? तथा प्रकाशस्य नियम्यत्वात् , यस्मात् तेनोक्तप्रकारेण प्रकाशेन नियम्यत्वं मोहस्य तस्मात् तमस: 15 सत्त्वेन नियम्यत्वादित्यर्थः । तस्मात् प्रकाशाप्रकाशिते तमसो नियत्यभावात् तमसः प्रकाशेन तथा नियम्यत्वात् तदात्मन एव तथानियतत्वादिति साधूक्तम् । एवं तावत् सत्त्वतमसोर्भेदमभ्युपेत्य विपर्ययापत्त्या नियम्यनियामकत्वादित्यस्य हेतोरसिद्धिरुक्ता । नैव वा सत्त्वव्यतिरिक्त तमोऽभ्युपेम इत्यत आह-तथाप्रकाशानतिरिक्ततत्त्वरूपत्वादू वा नियमस्य शब्दप्रकारेणाऽरूपादिप्रकारेण च यः प्रकाशस्तदनतिरिक्ततत्त्वरूपत्वान्नियमस्याभिव्यक्तेः कुतोऽनौलम्बनपाषाणभेदसाधर्म्यम् ? न नौरनौः, कः ? लम्बनपाषाणः, तस्य 20 नावो भेदः, तत्साधर्म्यमनौलम्बनपाषाणभेदसाधर्म्यम् , तत्तु कुतः सत्त्वतमसोर्भेदसाधर्म्यम् ? भेदाभावादित्यर्थः । ततो दृष्टान्तदान्तिकयोः साधाभावादयुक्तमिति वैषम्यं दर्शयति -भेदे सति लम्बनपाषाणो नौविलक्षणो नावं प्रवर्तमानां निरुणद्धीति युज्यते । न तु तथाप्रकाशातिरिक्ततत्त्वरूपो २०९-१ मोहो नियामकोऽस्ति एतयोः शब्दाद्याविर्भावमात्रफलत्वात् , अतो न युज्यते ।
न तद्रूपत्वमतद्वत्तित्वादिति चेत् । स्यान्मतम् - प्रकाशनमात्रं सत्त्वस्य वृत्तिनियमनं तु तमसः, 25 तस्मात् सत्त्वस्यानियमनादतद्वृत्तित्वाद् वृत्तिभेदाच न नियमनं सत्त्वस्य तमसश्च न प्रकाशनमित्यस्ति भेद इति । एतच्च न, तमःस्वनियमवत् तदात्मन एव नियतत्वात् , यथा तमसः स्वो नियमः प्रागवृत्तः पश्चात् स्वत एव तमःस्वात्मनः प्रवर्तमानस्तमसा विना अभूतत्वात् तदत्यागेन वृत्तेस्तदधीनत्वात् तद्रूप एवं तदात्मन एव प्रवृत्तत्वात् तथा सत्त्वप्रका प्रवृत्त्यनतिरिक्ततत्त्वरूपस्तमोनियमः सत्त्वाव्यतिरिक्तः प्रकाशा
१ दृश्यतां पृ० २७४ पं० १- पृ० २७५ पं० ४ ॥ २ 'करोति' इति वाक्यशेषः ॥ ३°दनिया प्र० ॥ ४ दृश्यतां पृ. २७४ टि. ९॥ ५ दृश्यतां पृ० २८४५० १॥ ६ शवृत्त्य भा०॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org