________________
२८४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे नियम्यनियामकत्वाद' नौलम्बनपाषाणवन्नेति चेत्, न, तदात्मन एव तथानियतत्वात् सन्निधिमात्रात् पूर्ववदनियमनात् । य एवासौ सत्त्वस्यात्मा प्रकाशः स नियामकः, तथानियमविधेः, इतरकर्तृवत्, तमोनियमात्मरूपापादनादितरतथा
शस्य रूपान्तरनिवृत्तिरूपं नियममन्तरेण प्रकाशनाभावप्रदर्शनाद् नियमात्मकत्वमुक्तम् , इदानीं य एव नियमः 5 स एव प्रकाश इति तयोरनन्यत्वापादनम् , तथानियतत्वात् तेन प्रकारेण नियतत्वात् रूपप्रकाशनरूपेण रसाद्यात्मनिवृत्त्या प्रकाशस्य नियतत्वात् , तथाप्रवृत्तत्वादित्यस्यैवार्थकथनं वृत्तिनियतिव्यक्तीनामैकार्थ्यात्, घटघटस्वात्मवत् , यत् तथानियतं यत् तथावृत्तं यत् तथाव्यक्तं तदेव तत् , यथा घट एव घटखात्मा । यत् पुनस्तदेव न भवति न तत् तथानियतं तथावृत्तं तथाव्यक्तं वा, यथा पुरुषः ।
नियम्यनियामकत्वादू नौलम्बनपाषाणवन्नेति चेत् । स्यान्मतम् - नियम्यं प्रकाशतत्त्वं 10 सत्त्वम् , तमो नियामकम् । तस्माद् नियम्यनियामकत्वभेदाद् नैकत्वं सत्त्वतमसो:* नौलम्बनपाषाणवत्, यथा नौः प्रवर्तमाना नियम्यते लम्बनपाषाणेन नियामकेन, तयोश्चान्यत्वमेवं सत्त्वतमसोरिति । एतच्च न, तदात्मन एव तथानियतत्वात् , तस्यैवात्मा स एव वात्मा तदात्मा, तस्यैव प्रकाशात्मनो नियतत्वात् , तस्मादेव तेनैव वात्मना प्रकाशात्मन एव नियतत्वात् , सत्त्वतमसोर्भेदाभावाद् नौलम्बनपाषाणवद् भेद
साधाभावादयुक्तो दृष्टान्त इति वक्ष्यते । तद्वयाख्यानार्थमाह-सन्निधिमात्रात् पूर्ववदनियमनात्, 1 इह तमः सन्निहितमपि प्राक् सन्निधिमात्रादेवानियामकं स्वयमनियतत्वात् सत्त्वाधीननियतित्वात् , किन्तु नियम्यमनियमात् , कस्तर्हि नियामकः ? उच्यते - य एवासौ सत्त्वस्यात्मा प्रकाशः स नियामकः । कथमिति चेत्, उच्यते – यस्मात् तथानियम्यव्यक्तिस्वरूपः, तेन प्रकारेण शब्दादिनियतिनियम्यव्यञ्जनस्वरूपः स एव प्रकाश एव । कुतः ? तथानियमविधेः, तेन हि प्रकारेण नियमस्य विधिः शब्दस्वरूपेण
प्रकाशमानस्य शब्दस्य रूपाद्यनात्मना नियता प्रकाशमानता नियमविधिः, तस्माद्धेतोः प्रकाश एव नियमः। 20 दृष्टान्त इतरकर्तृवत् कुम्भकारादिवत् , यथा मृद्रव्यं पिण्डशिवकादिभावेनाभिव्यज्यमानं तथा तथा प्रकाशयता का कुम्भकारेण नियमकारिणा निर्वय॑ते नियम्यते नियते रूपेऽवस्थाप्यते नाप्रकाशमानमप्रवर्तमानं च सत्कार्यवादाभ्युपगमादसदकरणादिहेतुसामर्थ्याच्च, तस्मात् स कर्ता प्रकाशस्थानीयो नियामकः पिण्डशिवकादेनियम्यस्य तथा प्रकाशस्तमसः । कुतः ? तमोनियमात्मरूपापादनात् , सत्त्वेनैव हि तथा तथा प्रकाशमा
नेन तमसो नियमरूपमापाद्यते मृद इव तथा प्रकाशयता का कुम्भकारेण तदात्मलाभहेतुत्वात् । ततस्त्वदभि25 मतनियामकत्वविपर्ययापत्तिः, तमसो नियम्यत्वात् सत्त्वाधीननियतित्वात् सत्त्वस्यैव नियामकत्वात् पक्षधर्मविपरीतता सत्त्वापाद्यनियमात्मरूपता प्रसक्ता, सत्त्वाप्रकाशिते नियमाभावात् । सत्त्वापादितं हि तमसो नियमात्मरूपम् , तस्मात् तमोनियमात्मरूपापादनात् सत्त्वं नियामकम् , इतरतथारूपापादनात् तमोवत् ।
१ दृश्यतां पृ० २७३ पं० ६-पृ. २७४ पं० १॥ २ रूपरसप्र य० ॥ ३ * * एतचिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ४°त्वात्मकत्वतमसो प्र०॥ ५°नियतितंनियम्य य० । नियतियम्य भा० ॥ ६ °त्माना प्र० । (त्मनो ?)॥ ७ यमस्य प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org