________________
साङ्ख्यमते प्रकाशनियमयोरभिन्नत्वापादनम् ] द्वादशारं नयचक्रम्
२८३
नं, तमसोऽपि सत्त्ववत् पृथगपरिसमाप्तरूपत्वात्, तमसोऽपि हि तथा प्रकाशनं व्यक्तिरिति प्रकाशात्मक सत्त्वानुग्रहाद् भवति, अनियतं च कथमन्यनियमने प्रवर्तेत ? इत्यादिः पूर्ववद् ग्रन्थो यावद्' 'नं, परिणामस्य तत्रैवोक्तत्वात्' ।
प्रकाशात्मैव तु नियमः । इतरथा स प्रकाशो न सः, तथाऽनियतत्वात् तथाऽभूतत्वात्, घटपुरुषवद् घटपटवद्वा । य एव नियमः स एव प्रकाशः, तथा नियतत्वात् तथाप्रवृत्तत्वात्, घटघटस्वात्मवत् ।
रूपं नोऽनाकाशादिर्वा' इति । तस्मात् सत्त्वं तमोनुगृहीतं तथा प्रकाशते न स्वत एव तस्मादन्यः प्रकाशान्नियम इति । एतच्चासत्, तमसोऽपि सत्त्ववत् पृथगपरिसमाप्तरूपत्वात् सत्त्वप्रकाशननियमने स्वयं सत्त्वप्रकाशनाकाङ्क्षित्वात् तमस्त्वन्मतेनापरिसमाप्तमेव तमोनियमनापेक्षप्रकाशात्मकसत्त्ववत् । तद्वधाख्यानं तमसोऽपि हीत्यादि, तमः सत्त्वप्रकाशरूपव्यक्तिं सत्त्वप्रकाशनप्रतिलब्धतथानियति कुर्याद् नाप्रकाशिततथा - 10 नियतिव्यक्ति । किं कारणम् ? तस्य तथा व्यक्तेः सत्त्वप्रकाशनप्रतिलभ्यत्वात् । यस्मात् तथा प्रकाशनं व्यक्तिरिति 'इति' शब्दस्य हेत्वर्थत्वाद् नियमनयोग्यतया हि तमसः प्रकाशनं सत्त्वस्य व्यक्तिः, सा च प्रकाशात्मकसत्त्वानुग्रहाद् भवति नान्यथेति सत्त्वाप्रकाशिततमोनियमनापरिसमाप्तरूपत्वम्, प्रकाशा- २०७.१ ननुग्रहे सत्यनियतत्वात् । न च स्वयमनियतं नियमयितुमन्यं समर्थं वन्ध्यापुत्रवदित्यत आहअनियतं च कथमन्यनियमने प्रवर्तेत ? इत्यादिरत उत्तरः प्रागतीतग्रन्थातिदेशः एवं तु नानयोरित्यादि- 15 पूर्वोत्तरपक्षप्रपञ्चात्मको यावन्न परिणामस्य तत्रैवोक्तत्वादिति । तद्यथा- एवं तु नानयोरितरेतरानुग्राहिता, उत्थाप्य साहायकशक्तित्वात्, वाताहतनौद्वयवद् ग्लान शिविकावाहकवत् । असम्पूर्णशक्तिता arsप्रकर्षः अनियम इत्यर्थः, इति कारणतैव न स्यादसम्पूर्णशक्तित्वादुपहतबीजवत् । असदकरणादिभ्यश्चान्यतो न तत्स्वरूपप्रकर्षः । यदा च सुदूरमपि गत्वा प्रागवृत्तेर सत्कार्यत्वं मा भूदिति प्रकर्षः परिणामादेव तदा परिणामस्यान्यत्र वृत्तस्या [न्यत्रा ] परिणामकत्वाद् युवत्वव [दात्म] मात्रवृत्ति - 20 त्वमेव, नान्यत्र वृत्तोऽन्यदन्यथा करोति परिणामित्वात् । एवं तर्हि पूर्ववदुदाहरणा देवाप्रवृत्त्यात्मकत्वं सुखस्य नियतरूपेणा प्रवृत्त्यात्मकत्वमित्यर्थः, को हि विशेषस्तमःप्रवर्तनादृते क्षीरदधिपरिणाम कालवत् पूर्व न प्रवृत्तं पश्चाच्च प्रवृत्तमिति ? न, परिणामस्य तत्रैवोक्तत्वादित्येष ग्रन्थः समानोऽत्रापि ।
अत उत्तरस्तु ग्रन्थोऽर्थतः समानगमनिकोऽपि विशेष्य लिख्यते भावनार्थं विशेषणातुल्यत्वात्, तद्यथा - प्रकाशात्मैव तु नियमः इतरथा से प्रकाशो न सः, तथाऽनियतत्वात्, तथाऽभूतत्वादित्यस्यैवा - 25 र्थकथनं प्राक्तन व्याख्यानवत् । रूपादिस्वरूपनियतार्थ प्रकाशनात् प्रकाशः [ प्रकाशः ] स्याद् नान्यथेति, त्वन्मतेन घटपुरुषवत्, यत् तथा अनियतं तन्न प्रकाशः, यथा घटः पुरुषे न नियतो घटे च पुरुषः, २०७-२ यो यः प्रकाशः स तथानियत एव यथा रूपरसादि । लोकप्रतीतोदाहरणमेव घटपटवद्वेति । एवं तावत्, प्रका
3
१ दृश्यतां पृ० २७१ पं० १-पृ० २७३ पं० ५ ॥ २ नाकाशा भा० । शब्दस्य आकाशगुणत्वात् 'नाडनाकाशादिव' इति य० प्रतिपाठः समीचीनोऽत्र भाति ॥ ३ तमासत्व भा० । तमसोसत्व य० ॥ ४ °ति सत्वा य० ॥ ५ प्रवर्ततेत्यादि प्र० ॥ ६ दृश्यतां पृ० २७२ पं० १ ॥ ७ स्थानिय प्र० ॥ ८ णात्मप्र ० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org