________________
२८२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे तद्वा प्रकाश इति न स्यात्, अनियतत्वात् , वन्ध्यापुत्रवत् पुरुषवत् ।
ननु प्रकाशात्मकत्वादेव सत्त्वस्य अग्नेरिव कुड्यादिना तमसा नियम्यत्वमनन्यथावृत्तता। यद्यनियतोऽसावसंस्तर्हि अनियतत्वाद् वान्ध्येयवत् । एवं हि कार्य कारणे सद् यदि तत् तत्र नियतमनन्यथावृत्ति, तत्र सन्निधिवर्ततेः सत्तार्थत्वात् । 5 न, आधिक्येन अयतत्वात् । अधिको यमस्तमोनुग्रहादनन्यथाव्यक्तिरूपता।
२०६.१ प्रवृत्तिवत् , यथा प्रकाशात्मना अनियतत्वाद् रजः सत्त्वं न भवति प्रवृत्तिश्च प्रकाशो न भवति तथा सत्त्वं
सत्त्वं न स्यात् प्रकाशः प्रकाशो न स्यादिति । न केवलं गुणान्तररूपापत्तिरहितस्य स्वात्माप्रतिलम्भ एव, किं तर्हि ? मूलत एव सत्त्वमेव तद्वा प्रकाश इति न स्यादित्य स्तित्वमेव निराक्रियते, अनियतत्वात् , यदि तत् स्वत एवानियतं ततो नास्ति तत् सत्त्वं वन्ध्यापुत्रवत् न च तत् प्रकाशात्मकं पुरुषवदिति 10 पूर्ववद् यथासङ्ख्यं दृष्टान्तौ ।
इतर आह - नन्वित्यादि यावदनन्यथावृत्तता । नन्वित्यनुज्ञापने, प्रकाशात्मकत्वादेव प्रदीपवत् सत्त्वस्य सर्वतोदिग्गैतानियतप्रकाशस्य महदहङ्कारादिस्पर्शरूपादिपिण्डशिवौदिपूर्वोत्तरव्यक्त्यभिमुखतायां सत्यां प्रकाशनस्य सति नियामके कुंड्यादौ अग्नेरिव कुड्यादिना आवरणेन नियम्यत्वम् , नाव इव वा सर्वदिग्गमन
रोधिना लम्बनपाषाणेन गुरुंणेव द्विधापि प्रदेशान्तरप्राप्तिरोधिना तमसा प्रकाशस्य दृष्टनियम्यत्ववद् 15 नियम्यत्वम् , तच्च अनन्यथाप्रवृत्तता, एवमेव ते प्रवर्तितव्यं नातोऽन्यथेति । दृष्टत्वाच्चानपह्नवनीयो भेदो नियम्यनियामकयोः । तस्मादन्यो नियमः प्रकाशादिति ।
अत्रोच्यते-यद्यनियतोऽसावसंस्तहि यदि स्वयमेवानियतः प्रकाशोऽसंस्त_सौ अनियतत्वाद् वान्ध्येयवत् । एवं हीत्यादि एतस्यैव व्याख्यानमनिष्टापादनद्वारेण । 'कार्य कारणेऽस्ति' इत्येतद्
दर्शनमेवमेव घटते यदि तत् तत्र नियतमिति, किमुक्तं भवति ? अनन्यथावृत्तीत्युक्तं भवति, यथा 20 वर्तितव्यं तथैव वर्तते नान्यथा, स्वात्मनैव च वर्तते नान्येन केनचिद् वय॑ते । तच्च अनन्यथा वृत्तिरस्य २०६-२ तदिदमनन्यथावृत्ति कार्य कारणे सदिति शक्यमभ्युपगन्तुम् । किं कारणम् ? तत्र सन्निधिवर्ततेः सत्तार्थ
त्वात् , तत्र कारणे सन्निध्यर्थो वर्ततिः सत्तार्थः 'सन्निहितो वर्तते' इति, अस्ति-भवति पद्यति विद्यतिवर्ततयः सन्निपातषष्ठाः सत्तार्थाः [ ] इत्यत्र वर्ततेः सन्निधिभवनार्थवाचित्वाद् वर्तते नियतः सन्निहितोऽस्तीत्यर्थः। व इतर आह - न, आधिक्येन अयतत्वात् । 'नि'शब्दस्याधिकार्थत्वादधिको यमो नियमः सोऽत्र विवक्षितः, न सन्निधिमात्रवृत्तिः । कोऽसावधिको यमः ? तमोऽनुग्रहाद् यः, स चानन्यथाव्यक्तिरूपता, तमसानुगृहीतस्य सत्त्वस्य शब्दादिरूपेण रूपान्तरनिवृत्त्यानन्यथावृत्तिरूपता 'शब्दोऽयं न रसो न
१ दृश्यतां पृ० २७१ पं० १,२ ॥ २ दृश्यतां पृ० २७० पं० ४ ॥ ३ °दियतानि प्र० ॥ ४°कापू प्र० ॥ ५ कुट्या प्र० ॥ ६°णेच भा० ॥ ७ दृष्टिं य०॥ ८ मेते य० । ( °मेव तेन ? ) ॥ ९ सन्नियतो प्र०॥ १० दृश्यतां पृ० ३४ पं० २० ॥ ११ चनन्यथाव्यक्तिरूपता प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org