________________
प्रकाशनियमयोरभिन्नत्वापादनम्] द्वादशारं नयचक्रम्
२८१ अथ सर्वतुल्यता कथं दोषः, स्वमतेन परमतेन ? तव दोषासक्तिरभिमतैव त्वत्पतिवादिनः, भावपक्षवत् । खमतेऽपि सुखाद्यन्वयमात्रत्वात् सर्वस्य ननु घटः कटादनन्यः, को हि सत्त्वाद्यतिरिक्तः ? सत्कार्यवादत्यागो वा तत्राभावात् समुदयक्षणिकशून्यवादापत्तेः । रूपादीनां चाप्यनेन न्यायेन अनन्यत्वात् प्रत्युदाहरणाभाव एव ते।
तथा नियमोऽप्यभिन्नः प्रकाशात् । प्रकाशवात्मत्वप्रतिलम्भ एव हि तन्नियमः प्रकाशानन्यता। 'भिन्नात्मकतायां सत्त्वं सत्त्वमेव न स्यात् प्रकाशो वा प्रकाश एव, तथाऽनियतत्वात् अन्यथा प्रकाशनाभावात्, रजोवत् प्रवृत्तिवत् । मूलत एव
स्यान्मतम् – घटः कटे त्रिगुणोऽपि नास्तीति । ततश्च सत्कार्यवादत्यागो वा तत्राभावात् , यदि सत्त्वादिगुणे मृदादौ कटादिर्न स्यात् त्रिगुणोऽपि तथा घटोऽपि मा भूत् , अतोऽसन् घटः पश्चादुत्पन्न-10 स्तत्र प्रागभूत इति असत्कार्यवादः सत्कार्यवादत्यागश्च प्राप्तः । किञ्चान्यत् , प्रकाशादिविविक्तस्वरूपगुणसमुदयाभ्युपगमाद् रूपादिस्कन्धसमुदयवाद एवायमपि देशभिन्नयुगपद्भाव्यनिर्देश्यगुणसमुदयमात्रत्वात् । क्षणिकवादश्च, अयुगपद्भाविपिण्डशिवकाद्यनिर्देश्यनिर्विकल्पार्थमात्रत्वात् । अत एव च शून्यवादापत्ति, अनिर्देश्यस्वभावत्वात् , खपुष्पवत् ।
रूपरसगन्धस्पर्शसङ्ख्यासंस्थानादीनां घटादिषु दृष्टानामन्यत्वाद् विपक्षोऽस्ति इत्याशङ्केथाः, तत्रापि 15 रूपादीनां चाप्यनेनेत्यादि यावत् प्रत्युदाहरणाभाव एव ते । रूपं रसादनन्यत् अगन्धाद्यात्मकत्वाद्, रूपस्वरूपवदित्यादि प्रसिद्धिविरुद्धसिद्ध्यतिप्रसङ्गोऽपि, ते त्वत्प्रतिवादिनो दोषासक्तिरभिमतैवेति तदेव यावद् भावपक्षवदिति, पुनश्च खमतेऽपि सुखाद्यन्वयमात्रत्वादित्यादि यावत् समुदायक्षणिकशून्यवादापत्तेरिति समानश्चर्चः ।
एवं सुखादनन्यद् दुःखमित्येतद् भावितम् , 'तमोऽनन्यत्' इति भाव्यम् , तदपि यथा च प्रकाशा- 20 दभिन्ना प्रवृत्तिस्तथा नियमोऽप्यभिन्नः प्रकाशात् । प्रकाशानतिरिक्तताप्रदर्शनार्थं नियमलक्षणमाहप्रकाशस्वात्मत्वप्रतिलम्भ एव हि तन्नियमः, प्रकाशस्य स्वात्मा प्रकाशनमेव, तद्भावः प्रकाशस्वात्मत्वम् , तत्प्रतिलम्भ एव हि तदात्मलाभ एव हि तन्नियमः, रूपस्य रसस्य वा प्रकाश्यस्वरूपव्यक्तिर्नियमः, न हि छिन्नाभ्रनभसीव निराश्रयः कश्चिनियमोऽस्ति ? तत्पर्यायकथनं नियमः प्रकाशानन्यता प्रकाशस्वरूपमात्रम् , एतन्नियमलक्षणं निरुच्यते, नान्यः प्रकाशाद् भिन्नो नियम इति, तत्र दोषदर्शनात् । को दोष इति चेत् , 25 उच्यते-भिन्नात्मकतायां प्रकाशाद् नियमस्य सत्त्वात् तमसश्च सत्त्वं सत्त्वमेव न स्यात् प्रकाशो वा प्रकाश एव न स्यादिति वर्तते, तथाऽनियतत्वात् , गुणान्तररूपापत्तिरहितस्य सत्त्वस्य प्रकाशस्य चागुणान्तरात्मनोऽगुणान्तरात्मापत्तिरहितत्वादित्यर्थः । शब्दो हि शब्दतया प्रकाशमानो रूपाद्यात्मव्यावृत्तस्वरूपेण नियत एव प्रकाशते, अन्यथा प्रकाशनाभावाद् व्यक्त्यभावादित्यर्थः । दृष्टान्तौ यथासङ्खथं रजोवत्
१ दृश्यतां पृ० २७० पं० ४ । पृ० २८६ पं० १०॥ २ दृश्यतां पृ० २८० पं० ३, पृ० २८१ पं० १,२,३,४ ॥ ३°त्मप्र प्र० ॥ ४ प्रकाम्यस्वरू° भा० । प्रकाम्यस्यस्वरू य०॥ ५ कथं नियमः प्र०॥ ६निरुह्यते भा० । निरुद्य (ध्य ?)ते य० ॥
नय०३६ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org