________________
२८०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे न्यत्वाद् वरणाद्यात्मकत्वस्य अवरणसदनादिमोहात्मकत्ववत्, वक्ष्यमाणवच्च वरणाद्यात्मकत्वेऽप्यनन्यत्वादवरणाद्यात्मकत्वस्य प्रापितत्वात् ।
असाधनमिदं सर्वतुल्यत्वात् प्रसिद्धिविरुद्धसिद्ध्यतिप्रसंगात् । शक्यते हि वक्तुं घटः कटादनन्यः, तन्त्वनात्मकत्वात्, कटवात्मवत्, वैधयेण पटवत् ।
5 मोहात्मकानि वरणादन्यानि सदनादीनि वरणात्मकमोहात्मकान्यपि अवरणात्मकानि, यथा वा मोहो वरण२०४-२विलक्षणसदनापध्वंसनबैभत्स्यदैन्यगौरवधर्मापि वरणात्मक एव कार्यकारणयोरभेदाद् भेदाच्च, अन्यथा पौनरु
क्त्यानर्थक्ये ग्रन्थदोषौ व्यपदेश्यव्यपदेशाभावदोषश्च स्युः, नेष्यन्ते च तथा । तस्माद्' वरणावरणाद्यात्मकत्वं मोहस्य सदनादीनां चैषितव्यम् । यथा चैतत् तथा सुखदुःखे प्रसादशोषादयश्च वरणावरणाद्यात्मकाः
स्युः । तस्मात् सुखदुःखयोरनन्यत्वहेतुव्यभिचारप्रदर्शनाय नासपक्षोऽस्तीति । किञ्चान्यत्, वक्ष्यमाणवच्च 10वरणाद्यात्मकत्वेऽप्यनन्यत्वादवरणाद्यात्मकत्वस्य प्रापितत्वात् , वक्ष्यति हि सुखादनन्यत् तमः
प्रकाशादनन्यो नियम इति च, तत्र तमसो वरणाद्यात्मकत्वे प्रसादशोषादिकार्यादेकस्मादेव सुखादनन्यत्वं साधयिष्यते, तमसोऽप्यतस्तस्मादनन्यत्वाद् वरणाद्यात्मकमप्यवरणाद्यात्मकं तमः सत्त्वरजोवत् । "किञ्चान्यत्, अवरणाद्यात्मकत्वस्य वरणात्मके सत्येवानन्तरं प्रापितत्वात् तथा वक्ष्यमाणत्वादिति ।
___ इतर आह- असाधनमिदं सर्वतुल्यत्वात् प्रसिद्धिविरुद्धसिद्ध्यतिप्रसङ्गात् , प्रसिद्धिविरुद्धा15 नामप्यर्थानां सिद्धिरेवं सति प्रसज्यते, अर्थान्तरधर्मनिवृत्त्या तदात्मत्वापादनात् , तद्यथा-शक्यते हि
वक्तुं घटः कटादनन्यः, तन्त्वनात्मकत्वात् , यस्तन्त्वनात्मकः स कटादनन्यः, यथा कटस्वात्मा, २०५.१ यः कटादन्यः स तन्त्वनात्मको न भवति यथा पट इति वैधर्येण पटवदित्युक्तम् । आचार्य आह - अथ
सर्वतुल्यता कथं दोषः, स्वमतेन परमतेन ? इति प्रश्नः 'उभयथाप्यदोषः' इति मन्यमानस्य । यदि ते स्वस्मिन्नेव मते दोषस्ततस्तव प्रसिद्धिविरोधदोषासक्तिर्ममाभिमतैव त्वत्प्रतिवादिनो मम तु सर्वानन्य20 त्वापादनमभिमतमेव भावपक्षवत् , यथा भावविधिविधिनयमतेऽनन्तरातीते सर्वानन्यत्वमिष्टम् , एतस्योदाहरणमात्रत्वादुत्क्रमेण स्वभावकालनियतिपुरुषपक्षवच्च वक्ष्यमाणविधिनियमवच्च यथास्वमभिमता एव । एवं तावत् परवाद्यभिप्रायवशात् त्वन्मते दोषासक्तिरिष्टा । न केवलं पराभिमतेरेव, किं तर्हि ? अपि च स्वमतेऽपि सर्वानन्यत्वम् , सुखाद्यन्वयमात्रत्वात् सर्वस्य ननु घटः कटादनन्यः, सुखदुःखमोहान्वितमेतद् बाह्याध्यात्मिकभेदरूपं जगदिच्छतस्ते त्रैगुण्यजात्यनुच्छेदेन सँर्वं सर्वात्मकमेव वैगुण्यान्वयानतिरेकात् 25 को हि सत्त्वाद्यतिरिक्तः ? यदि सत्त्वरजस्तमोतिरिक्तं किञ्चित् स्यात् सर्वसर्वात्मकवादे दोषः स्यात् ,
न त्वस्ति, तस्मात् तवैवादोषः ।
४ किंवान्यत् भा० ॥
१°षाश्च य० ॥ २ वरणाद्यात्मकाः प्र०॥ ३ दृश्यतां पृ. २०५-२॥ ५ घटःस्वात्मा प्र०॥ ६°ता व लीं० विना ॥ ७ सर्वसर्वा प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org